सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 41, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 41

तैश्च पुत्रवन्तो हि स्वर्गता इत्यत्र भ्रातृपुत्राणां बहुत्वश्रवणात्
बहवोऽपि भ्रातृपुत्रा अकृता एवैकस्य पुत्रा भवेयुरिति वाच्यम्, तस्य
लौकिकसिद्धबहुत्वानुवादकार्थवादगतत्वेनाविवक्षितत्वात् । अकृत-
पक्षे तु एकेनैव प्रकृतनित्यविधिसिद्धावनेकोपादानस्य वैयर्थ्यादपा-
स्तत्वाच्च । तस्मात् सन्निहितसगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्री-
कार्य्य इति स्थितम् । ततश्च कृतत्वेन प्रथमं धनपिण्डभागित्वं अकृत-
त्वेन च स्वस्वस्थान इति विष्णुवचनन्तु पूर्वपूर्वपरिगणितपुत्रसद्भाव-
विषयमिति न कोऽपि विरोधः । नन्वेवं सर्वासामेकपत्नीनामेका
चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रिणो मनुरब्रवीदित्य-
त्राप्यकृतस्य पुत्रत्वं न स्यात् । नचेष्टापत्तिः, आचारविरोधात् । पितृ-
पत्न्यः सर्वा मातर इति पितृपत्नीत्वमात्रनिमित्तकमातृत्वव्यपदेशवि-
रोधाच्चेति चेन्मैवं । सपत्नीपुत्रस्य साक्षादङ्गवयवारब्धतया अकृत-
स्यापि पुत्रत्वसम्भवात् वचनन्तु नियमार्थ इत्युक्तमेव । भ्रातृव्ये तु
दम्पत्योरन्यतरस्याप्यवयवसम्बन्धाभावात् नाकृतस्य पुत्रत्वमिति ।


लौकिकसिद्धेति । लोके बहुभिरपुत्रैर्भातृपुत्राः परिगृह्यन्ते
इत्यभिप्रायेण भ्रातृपुत्रैरिति बहुवचनं कृतं । अतएव बहुत्वस्य लोक-
प्राप्तत्वादनुवादः, अतएवोच्यते लौकिकसिद्धेत्यादि । तथाचानिकाभि-
प्रायेण बहुवचनं कृतमिति फलितं । प्रकृतनित्यविधीति । - पुत्र-
मुत्पादयेदिति प्रकृतनित्यविधिसिद्धावित्यर्थः । स्वस्थान इति । -
त्नी दुहितरश्चैवेत्यादिवचनोपात्ते इत्यर्थः । विष्णुवचनन्विति । - अप-
शस्तास्तु कानीनगूढोत्पन्नसहोढजाः । यैरंशभक्तु भवेते पिण्डरिक्थ-
धाग्भागिन इति विष्णुवचनमित्यर्थः । मैवमिति । - अकृतस्य पुत्रत्वं
६