सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 40, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 40

४० | दत्तकमीमांसा ।

नन्विदमप्रयोजकं यत्पिण्डरिक्थाभावादपुत्रत्वमिति अप्रश-
स्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थां-
शभागिन इति विष्णुना कानीनादीनां पुत्रत्वेऽपि पिण्डरिक्थाभाव-
दर्शनात् । तथा पिण्डरिक्थाभावेऽप्यक्षतस्यैव भ्रातृव्यस्यानु पुत्रत्वं
का क्षतिरिति चेन्न मैवं । पिण्डदोऽशहरश्चैषामित्यनेन पिण्डरिक्थ-
भागित्वं हि पुत्रत्वस्य प्रयोजकमुक्तं तदभावे क्लीबादेरिव पुत्रत्व-
स्वरूपसत्तामात्रस्याप्रयोजकत्वात्, अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः
सदेति विधिप्रत्ययश्रवणेनाक्षतस्य पुत्रत्वायोगाच्च । न च भ्रातृव्येत-
रविषयोऽयं विधिरिति वाच्यम्, सङ्कोचे प्रमाणाभावात्, प्रत्युत
एकमेव करिष्याव इत्युपक्रम्य तमेव चक्रे तनयं वेतालोऽपि स्वकं
सुतमिति वैतालीयभैरवपुत्रपुत्रीकरणलिङ्गविरोधाच्च । किञ्च
यत्र दशानां सोदराणां मध्ये पञ्च प्रत्येकं दशपुत्राः पञ्च चात्यन्त-
मपुत्रास्तत्र पञ्चानामपुत्राणां प्रत्येकं पञ्चाशत्पुत्रत्वापत्तिः, पञ्चा-
शतश्च पुत्राणां प्रत्येकं प्रत्येकं दशपितृकतापत्तिरित्याद्यनेकोपप्लवः ।
न चेष्टापत्तिः पुत्रप्रतिनिधिः कार्य्य इत्युपादेयगतैकत्वविव-
क्षणात् । एकश्चेत् पुत्रवान् भवेत् सर्वे ते तेन पुत्रिण इत्यत्र पुत्रपुत्र-
वतोरुभयोरपि प्रत्येकं श्रुतैकत्वविरोधाच्च । न च स्वपुत्रैर्भ्रातृ-


पिण्डरिक्थाभाव इति । — पुत्राणाम् इति शेषः। सङ्कोचे इति । —
अपुत्रेणैव कर्त्तव्य इति सामान्यवचनसङ्कोचे प्रमाणाभावात् । वैता-
ल इति । — तमेव चक्रे तनयं भैरवश्चक्रे इत्यनेन प्रतिग्रहीतॄणां
परस्पर सम्बन्ध उक्तः । उपादेयगतैक्येति । — पुत्रः प्रतिनिधिः
कर्त्तव्य इति विधौ प्रतिनिधिर्विधिविधेयस्तस्यैवोपादेयत्वादिति भावः ।