सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 37, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 37

तत्सजातीयसंस्कारान्तरानुत्पत्तेरिति चेन्न । सप्तदशावराश्च-
तुर्विंशतिपरमाः सत्रमासीरन्नितिवत् तत्सर्वशब्दयोर्द्वन्द्वैकशेषेण
प्रतिग्रहीतृभ्रातृसाहित्यस्य च विवक्षितत्वात्, तेन दानमपि सहितेभ्य
एव सिद्धति, यथा तुलापुरुषे सहितानामेव ऋत्विजां सम्प्रदानत्वं
प्रतिग्रहीतृत्वञ्चेति । तदाहः—इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो
हेमभूषणमित्यत्र ऋत्विग्भ्य इति बहुवचनान्मिलितानामेव 'सम्प्रदा-
नत्वम् । तेन च सर्वेषामुपरि गुरुहस्तं कृत्वा तदधःक्रमेण स्वेच्छा-
दीनामृत्विजां हस्तानाधाय भूषणानि देयानीति वाचस्पति-
मिश्राः । नच युगपदनेकपुत्रत्वानुपपत्तिरपि, युगपत्प्रतिग्रहेण
द्रौपदीभार्यात्ववत् अस्य विलक्षणस्यैवानेकपुत्रत्वस्य प्रसिद्धद्वा-
मुष्यायणत्ववत् स्वीकारात् ।
पुत्रिण इत्यत्र पुत्र एवास्यास्तीति भवनार्थकेनास्तिना पुत्र-
भवनप्रतिपादनात् अभावितस्य च भवनायोगात् प्रतिग्रहीतृव्यापार
त्वात् अशुद्धिरूपप्रतियोग्यभावात् तत्सजातीयसंस्कारस्य निरर्थकत्वा-
दित्यर्थः । सप्तदशावरा इति ।—सप्तदशभ्यो न्यूनाश्चतुर्विंशतेरधिका न
भवन्तीत्यर्थः, मध्ये यथाकाममिति । उपासीरन् कुर्युरित्यर्थः ।
तुलापुरुषेति ।—तुलापुरुषदाने इत्यर्थः । सम्प्रदानत्वमिति ।—वचनं
प्रमाणयति इत्यावाह्येति । 'गुरुहस्तं' गुरोः प्रधानस्य ऋत्विजो हस्त-
मित्यर्थः । 'विलक्षणस्य' अन्यासाधारणस्येत्यर्थः ।
अभावितस्येति ।—अकृतस्य, यथाविधिपरिगृहीतस्येति यावत् ।
प्रतिग्रहीतृव्यापार इति ।—तथाच भ्रातृपुत्रस्य यथाविधि परिग्रहेणैव
पुत्रत्वं न तु तत्सत्तामात्रेणैवेति भावः । यत्र प्रमाणं दर्शयति तथा-