सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 35, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 35

दत्तकमीमांसा । २३
विषयतासिद्धेः । किञ्च दानस्य स्वत्वनिवृत्तिपूर्वकपरस्वत्वापादन-
रूपत्वात् तस्य चानेन निषेधात् प्रकृते चैकस्योभयसाधारणीकरणेन
स्वत्वनिवृत्त्यभावात् कन्यादान इव दानपदार्थस्य गौणत्वात् । पुत्र-
पदस्यौरसे मुख्यत्वादौरसत्वमेव पुत्राणां सिद्धयति । तेन च भ्रातृ-
कृतपुत्रप्रतिनिधीनां परिग्रहणाभावोऽवगम्यते । भवेदित्यनेन
पुत्रवत्तायाः सत्ताप्रतिपादनात् भूतपुत्रत्वं भविष्यत्पुत्रत्वञ्च
व्यावर्तयति । तेन अतीतेन भ्रातृपुत्रेणान्यस्य भ्रातुर्न पिता
पुत्रस्य जातस्य पश्येज्जीवतो मुखमित्यादि फलसम्बन्धः न चाना-
गतपुत्रप्रतीक्षायां पुत्रान्तरपरिग्रह इति ।
तच्छब्देनापुत्राणामेव भ्रातॄणां परामर्शात् जनकस्य स्वपुत्रं-
सस्वत्वाभावव्यावर्त्तनाय सर्वे इति । त इत्यत्र स च, तौ च, ते च
[