सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 34, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 34

शब्दः सकृदेवार्थं गमयतीति न्यायविरोधादिति चेन्न । असंसृष्ट्यपि
चादद्यात् संसृष्टो नान्यमातृज इत्यत्र संसृष्टपदस्य सोदरपरत्वेन
ससृष्टपरत्वेन च विज्ञानेश्वराचार्य्यव्याख्यातत्वादिहापि तथैवेति न
दोष इत्यलम् ।
बहुवचनं द्वित्वस्याप्युपलक्षणम्, बहुषु द्वयोः सम्भवात् । यदि हि
द्विपिता स्यादेकस्मिन् पिण्डे द्वौ द्वावुपलक्षयेदिति द्विपिटकत्व-
सम्भवाच्च । एक एकोऽपि चेदित्यनेन द्वयोर्बहूनाम्बा पुत्रवत्त्वे सुतरां
सुकरं पुत्रग्रहणमन्येषामपुत्राणां गमयति नैकीयैकपुत्रग्रहणं
व्यावर्तयति एकपदोपादानसामर्थ्यात् तेनेत्येकत्वनिर्देशाच्च । पुत्रः
पुत्रौ पुत्रा वा विद्यन्ते यस्येति मतुप् । तेन चैकस्यापि पुत्रस्य
दानाभ्यनुज्ञाने नत्वेवैकं पुत्रं दद्यादिति निषेधस्यानवकाशः, स
हि सन्तानाय पूर्वेषामिति हेतुवचनप्रतिपादितपित्रादिपूर्वसन्तानस्य
पितृद्वयसाधारणेनापि पुत्रेण निर्वाहादुक्तनिषेधस्य साप्रतिक-


बहुवचनं ।—भातॄणामित्यत्र बहुवचनं द्वित्वस्याप्युपलक्षणमिति ।
बहुष्विति—तथाच बहुषु द्वित्वस्य प्रत्यक्षत्वादिति भावः । द्विपिता-
चेति। द्विपितेत्यर्थः । तथाच एक इत्यस्य एकोऽपि चेदित्यर्थकत्वे
कैमुतिकन्यायादेकस्याविवक्षितत्वेन द्वयोर्बहूनाञ्च पुत्रवत्त्वे ह्यन्येषां
पुत्रग्रहणमस्तु गुरुन्वेत्यादिवचनबोधितगुर्व्यादिग्रहणमिव एकस्य पुत्र-
वत्त्वे तु बहुपुत्रग्रहणमन्येषां माभूदिति चेन्न एकपदोपादानवैयर्थ्यात् ।
तेनेत्येकवचनान्ततच्छब्देन ह्यन्येषामपिकैकपुत्रग्रहणे मनेरभिप्रतत्वात्
तथाच वचनेऽपिनं गृहीतः केवलं द्वयोर्बहूना वा पुत्रवत्त्वेऽन्येषां पुत्र-
ग्रहणप्राप्तये व्यर्थतया व्यर्थः संशय इति कैमुतिकन्यायावसरः । नतु