दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 26, कुल 191 में से
संदर्भ में पढ़ें२४ दत्तकमीमांसा ।
विशेषणत्वेनेति ब्रूमः । तथा च मनुः स्वक्षेत्रे संस्कृतायान्तु स्वयमुत्-
पादयेद्धि यं । तमौरसं विजानीयात् पुत्रं प्रथम कल्पिकमिति ॥
तयोर्मध्ये दत्तकविधिरभिधीयते। स च कः कीदृशः कथञ्च ग्राह्य
इति त्रितयं निरूपणीयं । तत्र क इत्याह शौनकः। ब्राह्मणानां
सपिण्डेषु कर्त्तव्यः पुत्रसंग्रहः। तदभावेऽसपिण्डे वा अन्यत्र तु
न करयेदिति। 'सपिण्डेषु' सप्तमपुरुषावधिकेषु सपिण्डेष्वितिसामन्य-
श्रवणात् समानासमानगोत्रेष्विति गम्यते । तत्र समानगोत्रतायां
"सगोत्रेषु कृता ये स्युर्हत्तक्रीतादयः सुताः। विधिना गोत्रतां
ज्ञानाभ्यां प्रत्येकस्योद्देश्यता । व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते,
तत्र व्रीहिप्रयोगे प्रतीतदवप्रामाण्यापरित्यागः अप्रतीतयवाप्रामाण्य-
कल्पनं यवे उपादीयमाने परित्यक्तयवप्रामाण्योञ्जीवनं स्वीकृतय-
वाप्रामाण्यहानिः । यवैर्यजेतेत्यनेन यवस्य प्रतीतत्वात् व्रीहिभिर्यजेतेत्य-
नेन व्रीहिमात्रस्य साधनत्वावगमात् यवस्याप्रतीतत्वात् व्रीहिप्रयोगे
यवस्य परित्याग एव यासीत्, यत उक्तं परित्यक्तयवेति । 'उञ्जीवनं'
संस्थापनम् । 'अप्रामाण्यहानिः' प्रामाण्यमित्यर्थः । इति यवे चत्वारि
दोषाः, एवं व्रीहावपि चत्वार इत्यष्टौ दोषा इति। इवमिष्टोऽष्ट-
दोषोऽपीति क्वचित् पाठः ।
'सपिण्डेषु'. सप्तमपुरुषायधिकेषु, सपिण्डता तु पुरुषे सप्तमे विनि-
वर्त्तत इत्याद्युक्तेषु इत्यर्थः । सामान्यश्रवणादिति । - सगोत्रासगोत्र-
त्वाविशेषादित्यर्थः । 'समानगोत्राः' भ्रातृपुत्रादयः । 'असमानगोत्राः'
दौहित्रमाट्यत्रेयादयः । सगोत्रेष्विति । न सापिण्ड्यं न साप्तपौरुष्यं
पिण्डनेपामन्यरूपं यावन्तः पितृयज्ञाः स्युरित्यनेन तस्य पिण्डान्वयरूप-
श्चैमुदकिकशापिण्ड्यस्य यदुक्तप्रायत्वात् । प्रमाणमित्यस्य शमानगोत्र-