दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 167, कुल 191 में से
संदर्भ में पढ़ें४० दत्तकचन्द्रिका।
मनुः। संविधाय विधानं यः परिगृह्णाति पुत्रकम्। विवाह-
विधिभाजं तं न कुर्य्यात् धनभाजनमिति। अन्यजातीयदत्तक-
स्यापि नांशभागित्वमित्याह यदि स्यादन्यजातीयो गृहीतोऽपि
सुतः क्वचित्। अंशभाजं न तं कुर्य्यात् शौनकस्य मतं हि तत्।
इत्युक्तप्रायमित्यास्तां विस्तरः।
रम्येषा चन्द्रिका दत्तपद्धतेर्दर्शिका लघु।
मनोरमा संनिवेशैरङ्गिनां धर्मतारणिः॥
इति महामहोपाध्यायश्रीकुबेरकृता दत्तकचन्द्रिका समाप्ता।
विधानको दत्तकादिश्च इति यावत्। तस्यैव चौरसस्य कृतविधानक-
दत्तकादेश्च तद्धनं स्वं स्वत्वास्पदीभूतं भवतीति शेषः। मनुरिति।
विवाहविधिरिति।—कर्त्ता स्वधनव्ययेन विवाहनीय इत्यर्थः। वि-
वाहविधिभाजमित्युपलक्षणं ग्रासाच्छादनभाजमपि कुर्य्यात् सर्व्वेषाम-
मपि तु न्याय्यं दातुं शक्त्या मनीषिणा। ग्रासाच्छादनमत्यन्तं पतिते-
ष्वददद्भवेदित्यस्य समानन्यायत्वात्। अपरश्च विशेषोऽस्मत्कृतायां
दत्तकमीमांसाटीकायां द्रष्टव्य इति। सुत इत्यनेन तस्य पुत्रत्वमुत्पद्यत
एव किन्तु यादृशौर्ध्वदेहिकक्रियाधिकारित्वाभावेनोपकाराभावात्
नांशभागित्वम् उपकारस्य धनाधिकारप्रयोजकत्वादितिभावः। अंश-
भाजमित्यनेन ग्रासाच्छादनदानमस्त्येवेति सूचितं पूर्वोक्तवचनाच्चेति।
रम्येति। एषा चन्द्रिका मत्कृतिरूपा 'रम्य।' रमणीया इत्यर्थः।
रमणीयत्वे हेतुमाह दत्तेति। दत्तपद्धतेर्दत्तविधानपद्धत्या लघु शीघ्रं
दर्शिका प्रकाशिका इत्यर्थः। अन्यचन्द्रिका विलम्बेन दर्शिका इयन्तु
लघु दर्शिका इति भावः। 'संनिवेशैः' सम्यगभिनिवेशैः। 'रङ्गिणाम्'