सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 166, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 166

दत्तकचन्द्रिका । ३६
द्वयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृहीतदत्तकपुत्रादेः पिता-
महधनाधिकारः किन्तु भरणमात्रम्, अन्धादिभार्याणां भरण-
विधिनैव तद्भरणस्य दृष्टान्तापादितत्वात् । तथाहि अन्धपङ्ग-
दीनानधिकृत्योक्तानभिधायाह औरसाः क्षेत्रजास्तेषां निर्दोषा
भागहारिणः । अपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः ।
सुताश्चैषां प्रभर्त्तव्या यावन्न भर्तृसात् कृता इति । एवं ग्रहणा-
नन्तरमुत्पन्नौरसेन सह दत्तकस्य विभागदर्शनात् सत्यौरसे गृहीत-
स्यापि नांशभागित्वमिति । तथा विधानं विना परिगृहीतस्यापि
नांशभागित्वमित्याह । तस्मिन् जाते सुते दत्ते न कृते च विधा-
नके । सन्तं स्वं तस्यैव वित्तस्य यः स्वामी पितुरञ्जसा । तथा

प्रकारान्तरं दर्शयति अथेति । एषां क्लीवादीनामित्यर्थः । क्लीबस्य
क्षेत्रजा अन्येषां औरसाः क्षेत्रजाश्च सम्भवन्तीत्यर्थः । औरसक्षेत्रज-
ग्रहणात् तद्गृहीतदत्तकादीनां नाधिकार इति सूचितम् । एवं पुत्रिका-
पुत्रस्य तद्धनाधिकारो भवत्येव तस्य औरसतुल्यत्वादितिभावम् ।
प्रभर्त्तव्या इत्यादिनासां चतुर्थांशदानं नास्तीति प्रतिपादितम् । नांश-
भागित्वमिति ।—पुत्रत्वाभावादिति शेषः । पुत्रोत्पत्तौ औरसाभा-
वस्यापि विशेषणत्वादिति भावः । विधानं विनेति ।—शौनकवशि-
ष्ठाभ्यामेवोक्तविधानं विनेत्यर्थः । नांशेति ।—पुत्रत्वाभावादिति शेषः ।
विधानस्यापि पुत्रोत्पत्तौ हेतुत्वादिति भावः । तस्मिन् इति ।—तस्मिन्
औरसे सति दत्ते सुते जाते इत्यन्वयः, विधानके विधाने न कृते दत्ते
इत्यनुषज्यते, विधानं विना परिगृहीते दत्तके इत्यर्थः । सन्तं स्वमिति ।—
यः पितुर्वित्तस्य अञ्जसा हठात् स्वामी पुत्रत्वेन इत्यर्थः औरसः कृत-