दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 163, कुल 191 में से
संदर्भ में पढ़ेंतोऽंशहरी भवेत्। मृते पितरि कुर्युस्तां भ्रातरस्त्वर्द्धभागिनम्।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते इति याज्ञवल्कीयेन च
दासीपुत्रस्याप्यौरसेन समांशाभिधानेन पितुरनन्तर भ्रातृरहितस्य
तस्यैव दौहित्रेण सह विभागदर्शनेन च दण्डापूपायित सति पितरि
क्षेत्रजदत्तकादीनामौरसेन समांशं असति तु तदर्द्धांश। अन्यथा
यच्च 'क्षेत्रजदत्तकादीनामौरसश्चतुर्थांशिन' तच्च तदपेक्षया च-
भागिन समभागादर्द्धभागिन तृतीयभागिनमित्यर्थ । दुहितॄणां सुता
दृते इति।—दौहित्रादित्यर्थ । दुहितॄणां सुतादृते इति दुहितृ पृथक्
निर्देशात् तस्या अप्यधिकार सूचित तदधिकारात सुतरां अधिकारो
दण्डापूपायिते लभ्यते। अन्यथा दुहितॄणा सुतादृते इति नोक्त्वा
दौहित्रादित्येवावदिष्यत् इति बोध्यम्। असतीति।—तदर्द्धांशः
तृतीयांश इत्यर्थ । इदमतीवायुक्त शूद्रस्य दास्या जातस्य क्षेत्रज
पुत्रतयाङ्गीकर्त्तव्यत्वात् न दासीपुत्रतया क्रीताया विवाहिताया जातस्य
दासीपुत्रत्वाभिधानात् क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते ।
न सा दैवे न सा पैत्रे दासीं तां कवयो विदु । क्रीता या रमिता
मूल्ये सा दासीति निगद्यते। तस्यां यो जायते पुत्रो दासपुत्रस्तु
स स्मृत इति वचनाभ्यां तथापि तयोरेवान्तर्भावात् अन्यथा पुत्र
द्वादशसख्याविरोधापत्ते तथाचास्य क्षेत्रजत्वेन सति पितरि पौरस
समांश मृते पितरि तदर्द्धांश उक्त तद्युक्तियुक्त एव, तदभिप्रेत्य शुद्धि
तत्त्वे कार्योक्तम्। वस्तुतस्तु प्रागुक्तादित्यपुराणवचनात् कलौ क्षेत्रज-
पुत्रकरणनिषेधात् स च पुत्रो यौनिजामेव शूद्राणामेव व्यवहारेऽपि तथा
ज्ञातोऽपि दास्यां शूद्रेण कामतोऽंशहरी भवेत्। मृते पितरि कुर्युस्त
भ्रातरस्त्वर्द्धभागिमिति याज्ञवल्क्यप्रदर्शनात् शूद्राणामेव तथाविधा