सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 159, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 159

३२ दत्तकचन्द्रिका।

औरसेन प्रयुक्तं न स्यात् प्रभूतं धनमितिशेषः॥ अत्र नानाविध
मुनिवचनानां परस्परविरोधपरिहारार्थमेवं व्याख्यायते बृह-
स्पतिवचने औरसमात्रस्य धनभागित्वकथनमन्येषां भरणमात्र-
कथनञ्च असवर्णक्षेत्रजदत्तकादिविषयं देवलकात्यायनवचनैकवाक्य-
त्वात्। नारदादिवचनेषु च औरसाद्यभावे क्षेत्रजदत्तकादीनां
ऋक्थग्रहणविधिरपि सर्व्वधनग्रहणविषयः। अतश्च दत्तकग्रहणा-
नन्तरमौरसोत्पत्तौ तदौरसचतुर्थांशविधिर्वशिष्ठोक्तो ः दत्तक-
विषये ज्ञेय । तथा देवलकात्यायनवचने तृतीयांशग्रहणविधि-
रत्युत्कृष्टगुणदत्तकविषयो वाच्य । उपपन्नो गुणैः-सर्वैः पुत्रो
यस्य हि दत्त्रिमः॥ स हरेतैव तदृक्थं सम्प्राप्तोऽप्यन्यगोत्रतः॥ इति
मनुवचनैकवाक्यत्वात्। गुणै जातिविद्याचारैः। समग्रधन-
भोक्तास्यादौरसोऽपि जघन्यज ॥ विभागं क्षेत्रजो भुङ्क्ते चतुर्थं
पुत्रिकासुत इति ब्रह्मपुराणदर्शनात्। क्षेत्रजविषय इत्यन्ये।
तथा केनापि मुनिना दत्तकस्य बन्धुदायादत्वमन्येन चादायादत्व-
मुक्तम् तत् गुणवद्भेदेन समाधेयम्॥ पितुरिव बन्धूनां सपि-
ण्डाना मपि दायहरत्वादन्धुदायादत्वं पितृमात्रदायहरत्वात् अबन्धु-
दायादत्वं तेषां षडबन्धुदायादा पूर्वेऽन्ये पितुरेव षट् इत्यत्र
पितुरेवेत्येवकारश्रवणात्। एवं दत्तकस्य धनग्रहणादौ मुनि-
भेदेन पूर्वापरीक्तिवैषम्यं गुणागुणविवेकेनापास्तम्। एतेनौरसस्य
भ्रात्रादिधने येनैव भ्रातृत्वादिना सम्बन्धेनाधिकारित्वं तादृशेनैव
सम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचितोऽंशभागित्वमवधेयम्।