सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 156, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 156

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

दत्तकचन्द्रिका। २६
षगोत्रत्वयोरभावादिति वाच्यम्। यतो विवाहे न तत् साविण्ड्य-
मुपयुज्यते किन्तु सर्वसाधारणं परिभाषितं पितृपक्षे साप्तपौरुषं
मातामहपक्षे पाञ्चपौरुषञ्चेति न काप्यनुपपत्तिः। तत्प्रपञ्चस्तु
तत्र तत्र वक्तव्य इति।
अथ दत्तकविभागः।
तत्र वृहस्पतिः। एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।
शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम्। शेषाणां ये तत्रांश-
भागित्वेन निषिद्धास्तेषाम्। 'आनृशंस्यं' दया। 'प्रजीवनं'
भरणम्।
तथा यमः। पुत्रास्तु द्वादश प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः।
तेषां षड् बन्धुदायादाः षडदायादबान्धवाः। स्वयमुत्पादित
स्त्वेको द्वितीयः क्षेत्रजः स्मृतः। तृतीयः पुत्रिकापुत्रो जाति-
धर्मविदो विदुः। पौनर्भवश्चतुर्थस्तु कानीनः पञ्चमः स्मृतः।
गृहे च गूढ़ उत्पन्नः षड़ेते पिण्डदायिनः। अपविद्धः सहोढ़श्च
दत्तः कृत्रिम एव च। क्रीतश्च पञ्चमः पुत्रो यश्चोपनयते स्वयम्।
इत्येते षड़रोत्पन्नाः षड़दायादबान्धवाः॥
नारदः। औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च। कानी
नश्च सहोढ़श्च गूढ़ोत्पन्नस्तथैव च॥ पौनर्भवोऽपविद्धश्च दत्तः क्रीतः
कृतस्तथा। स्वयं चोपागतः पुत्रा द्वादशैते प्रकीर्त्तिताः। तेषां
षड्वन्धुदायादाः षडदायादबान्धवाः। पूर्व्वः पूर्व्वः स्मृतोज्येष्ठो
जघन्यो यो य उत्तरः॥ क्रमादेते प्रवर्त्तेरन् मृते पितरि सङ्गमे।