दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
DevanagariHindipublished191 पृष्ठ
पृष्ठ 144, कुल 191 में से
संदर्भ में पढ़ेंपृष्ठ 144निषिद्ध्य प्रतिग्रहीत़ा पुनश्चूड़ादिकरणे तत् प्रतिप्रसूतम्। ततश्च
निषिद्ध्य प्रतिग्रहीत़ा पुनश्चूड़ादिकरणे तत् प्रतिप्रसूतम्। ततश्च
कृतसंस्कारस्यातीतपञ्चवर्षस्य च ग्रहीत्रा चूड़ादिकरणात् पूर्व्वं
दासत्वाक्षेपात् चूड़ादिकरणानन्तरं पुत्रत्वं लब्धम्। अकृतसंस्कार-
स्यातीतपञ्चवर्षस्य तु परिग्रहशास्त्रादेव तत् प्राप्तं तच्च विततम्।
अथवा जनकेन चूड़ान्तं संस्कृतोऽपि पुत्रो न पुत्र इत्यपुत्रत्वादेशः
यतोऽन्यतश्च पुत्रतां यातीति हेतुरुपदिष्टः। तथा च एकस्य
पुंस्त्वपदस्य चकारस्य च वैयर्थ्यद्वयमपि परिहृतम्। एवञ्च
चूड़ाया दत्ततदुभयस्मिन्नन्वये बहुव्रीहिणा द्विजातीनामुपनयन-
लाभः शूद्रस्य तु विवाहादिना लाभः। अन्यशाखोद्भवो दत्तः पुत्रश्चे-
वोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति
प्रतिग्रहीतुरपि पुत्रत्वाभावे असौ कस्यापि पुत्रो न स्यात्। न च
मा भूदिति।