सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 12, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 12

रिति वाच्यम् । होमसिद्धावपि प्रतिग्रहमन्त्रानधिकारेण प्रतिग्रहा-
सिद्धेः । तदाह शौनकः । देवस्य त्वेति मन्त्रेण हस्ताभ्यां परि-
गृह्य च । अङ्गादङ्गेत्यृचं जप्त्वा 'आघ्राय शिरोऽमूर्द्धनीति । न चैवं
शूद्राणामनधिकारप्रसङ्गः शूद्राणां शूद्रजातिस्थिति-व्यवस्थापक-
लिङ्गेन तदधिकारकल्पनात् । एतेन शूद्राणां होमप्रतिग्रहमन्त्रा-
नधिकारेण पुत्रपरिग्रहानधिकार इति वदन् वाचस्पतिः
परास्तः । विधवानां स्त्रीणान्तु यथाविनियोगमधिकारसमर्थनात्
न पुत्रपरिग्रहाधिकार इति सिद्धम् । न चैवं सधवानामप्यनधि-
कारापत्तिः होममन्त्राद्यनधिकारादिति वाच्यम् । अन्यत्रानुज्ञाना-
र्भर्तुरिति प्रतिप्रसवेन प्रधानाधिकारसिद्धावधिकृताधिकारात्
होममन्त्रादिप्राप्तौ स्त्रीशूद्राणाममन्त्रकमिति मन्त्रपर्युदाससिद्धे-
र्मन्त्रकप्रतिग्रहसिद्धिः वस्त्वन्तरप्रतिग्रहवत् । किञ्च न स्त्री पुत्रं
दद्यात् प्रतिगृह्णीयादेत्यौत्सर्गिकनिषेधस्य अन्यत्रानुज्ञानाद्भर्तुरि-
त्यपवादकः प्रतिप्रसवः । तत्र च निमित्तं भर्त्रनुज्ञानं । ततश्च विध-
वाया भर्त्रभावेनानुज्ञानासम्भवात् निर्निमित्तकप्रतिप्रसवाप्रवृत्त्या
मापकान्तराभावाचानधिकार इति सर्व्ववादिसम्प्रतिपन्नमेव । न
चैवमलोकतापरिहारो न स्यादिति वाच्यम्, मृते भर्त्तरि साध्वी
स्त्री ब्रह्मचर्य्यव्रते स्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्म-
चारिण इति वचनात् । "अधिकृताधिकारादिति" यस्मिन्कृते प्रतिग्रहे
अधिकारस्तदित्यर्थः । "होममन्त्रादिप्राप्तौ" इति अङ्गत्वेनेत्यादिः ।
"मृतेऽयमिति" मृते इति । "ब्रह्मचारिण" बालखिल्यादय इत्यर्थः ।