दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 11, कुल 191 में से
संदर्भ में पढ़ेंदत्तकमीमांसा । ६
द्यनुल्लेखप्रसङ्गाच्च । यद्येवं तर्हि भर्त्तुरपि स्वानुज्ञापेक्षा स्यात्
प्रयोजनतौल्यादिति चेन्न । भर्त्तृप्राधान्यात् तत्परिग्रहेणैव स्त्रिया
अपि तस्मिन् पुत्रत्वसिद्धेः भर्त्तृपरिगृहीतवस्त्वन्तरस्वत्ववत् । किञ्च
व्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयादिति
समानकर्तृताबोधकक्त्वाप्रत्ययश्रवणात् होमकर्त्तुरेव प्रति-
ग्रहसिद्धेः स्त्रीणां होमानधिकारात् प्रतिग्रहानधिकार इति
वाचस्पतिः ।
न च शौनकीये चाचार्य्यवरणाम्नानात् तद्द्वारा होमसिद्धि-
लाभ इति भावः । 'अन्यथेति' श्राद्धे गोत्रत्रयसम्बन्धिनामेवाधिकार-
दर्शनात्फलभागिनामधिकारापातादित्यर्थः । नन्वस्तु यमधिकारः का
क्षतिरित्यत आह तद्विवाहादाविति । तथाच मात्रनामकत्तृकविवाहेऽपि
मातृभर्त्तृगोत्रसम्बन्धं विना गोत्रान्तरसम्बन्धासम्भवात् मातृगोत्रसम्ब-
न्धेऽपि भर्त्तृगोत्रप्राप्तेरविरोधात् क्षतिविरहेऽपि भर्त्तृपुत्रत्वेन भर्त्तृगोत्र-
सम्बन्धाभावात् पितृपेक्ष्यैव गोत्रानुल्लेखस्य शास्त्रीयत्वात् न मातृपे-
क्षया । यतो भर्त्तुः पुत्रत्वाभावेन पुत्रत्वेन तत्क्रियायामनधिकारप्र-
सङ्गः । सुतरां तस्य पितृभावेन विवाहादौ मातृनिरपेक्षेण पितृगोत्रा-
द्यनुल्लेखप्रसङ्गश्च स्यात् । श्राद्धे फलभागिनां गोत्रानुल्लेखदर्शनात्
तदितरत्र तदुल्लेखाचारसमाचारविरोधादिति भावः । 'प्रयोजनतौ-
ल्यादिति' पुत्रत्वसिद्धिलक्षणप्रयोजनसाम्यादित्यर्थः । 'भर्त्तृपरिगृही-
तेति' दम्पत्योर्मध्यगं धनमिति वचनादिति भावः । स्त्रीणां स्वात-
न्त्र्येणानधिकारे वाचस्पतिसंवादं दर्शयति किञ्चेति । हुत्वेति क्त्वाप्रत्य-
यात् होमानन्तरं प्रतिग्रह इति सिद्धम् । प्रथमं अदूरबान्धवं सन्नि-
हितसपिण्डं तदभावे बन्धुसन्निकृष्टं असन्निहितसपिण्डमित्यर्थः ।
“शौनकीये इति चाचार्येति” चाचार्योधर्मसंयुक्तं वैष्णवं वेद-