दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 112, कुल 191 में से
संदर्भ में पढ़ेंदत्तकमीमांसा । १२१
अन्यथा त्रिरात्रमेव पूर्व्वोक्तवचनात् । एवं दत्तकस्य प्रतिग्रहीतृ-
स्त्रिपुरुषानन्तरवर्त्तिसपिण्डमरणे एकाहः, एकाहस्तु सपिण्डाना-
मिति पूर्व्वोक्तमरीचिवाक्यात् । सोदकसगोत्रयोर्मरणे स्नानमात्रम् ।
अन्याश्रितेषु दारेषु परपत्नीसुतेषु चेति पूर्व्वोक्तप्रजापतिवाक्यात् ।
अथ दत्तकपुत्रकर्त्तृकश्राद्धनिर्णयः । तथा च जातकूकर्ण्यः ।
प्रत्यब्दं पार्व्वणेनैव विधिना क्षेत्रजौरसौ । कुर्य्यातामितरे
कुर्य्युरेकोद्दिष्टं सुता दशेति । प्रत्यब्दमिति सामान्योपादानेन,
मघादिश्राद्धप्राप्तावपि क्षयाहश्राद्धमेवात्र विवक्षितम् । पितुर्गतस्य
इति याज्ञवल्क्यीयात् । अन्यथेति । औरसे सति दत्तकेन क्रियाया अकर-
णे । पूर्व्वोक्तवचनादिति । अन्याश्रितेष्वित्यादिपूर्व्वोक्तवचनादित्यर्थः ।
त्रिपुरुषानन्तरेति । प्रतिग्रहीतृतत्पितृपितामहेभ्यः पूर्वेषामित्यर्थः ।
तदयं संक्षेपः ।
दत्तकादिमरणे यथासम्भव जन्मनि वा परस्परं जनककुले नाऽशौचं,
दत्तकमरणे तत्पुत्रपौत्रयो र्वा जन्मनि प्रतिग्रहीतृतत्पितृपितामहानां
त्रिरात्रमशौचं, तेषां मरणे तत्पुत्रादीनां जन्मनि मरणे वा दत्तकस्य
तदेवाशौचम् । प्रतिग्रहीतुः प्रपितामहादीनां सकुल्यानां दशमपुरुष-
पर्य्यन्तानामेकाहः, सोदकसगोत्रयो स्नानमात्रं, तेषां मरणे यथासम्भव
जनने च तदेवाशौचं, दत्तकस्य यन्मरणे यदशौचं तन्मरणे तदशौचं
असति बाधके इति न्यायात्, प्रतिग्रहीतुः क्रियाकरणे दत्तकस्य दशरात्रं
तदकरणे त्रिरात्रमिति विशेषः ।
• अथेति । प्रत्यब्दं क्षयाहनिमित्तकमित्यर्थः । 'इतरे' दशदत्तकादय
इत्यर्थः । एतत्तु पार्व्वणविधानं साग्नेरेव, पार्व्वणेन विधानेन देय-
मग्निमता सदा इति वचनात् । निरग्नीनां सर्व्वेषां एकोद्दिष्टम् । पितु
२४