दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 108, कुल 191 में से
संदर्भ में पढ़ेंते त्रयोऽप्युक्ताः पितरो धर्मशासने। निर्जने तु वने यस्मात्
शकुन्तैः परिवारिता। शकुन्तलेति नामास्याः कृतञ्चापि ततो
मया। एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ॥ शकुन्तलो-
वाच। एतदाचष्ट पृष्टः सन् मम जन्म महर्षये। सुतां कण्वस्य
मामेवं विद्धि त्वं मनुजाधिप ॥ कण्वं हि पितरं मन्ये पितरं स्वम-
जानतीति। अत्रोत्सृष्टग्रहणादपविद्धाविधिः स्पष्ट एव। तदेवं
तत्तद्विध्यविनाभूतलिङ्गदर्शनैस्तत्तद्विधिसिद्धिः सुकरैवेत्यलं पल्ल-
वितेन।
अथ दत्तकाशौचनिर्णयः। तच्च जनककुले परस्परं नास्त्येव।
गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः। गोत्ररिक्थानुगः
पिण्डो व्यपैति ददतः स्वधेति मनुवचनात्। अत्र च स्वधा-
पिण्डशब्दौ अशौचादिसकलपितृकर्मोपलक्षणं पिण्डदानादिनिमि-
त्तीभूतगोत्ररिक्थयोर्निवृत्तिश्रवणात् प्रेतपिण्डदानादेश्चाशौचपूर्व-
शरीरकृतकमेव मान्यत्वं प्रदर्शितम्। नामास्या इति।-तथाच
शकुन्तैर्लीयते या सा शकुन्तलेति व्युत्पत्तिः। विप्र इति मनुजाधिप
इति दुष्यन्तसम्बोधनमिदम्। अपविद्धाविधिः स्पष्ट एवेति।-अयं
प्रपञ्चो भ्रान्तिमूलतया विजृम्भते सजातीयेष्वयं प्रोक्तस्तनयेषु मया
विधिरित्यादिविरोधात् सजातीयत्वे दुष्यन्तकण्वकथिताख्यानाम-
चरितार्थत्वात्। तदेवमिति।-तत्तदाख्यानुपपन्नप्रमाद्यदर्शनेनेत्यर्थः।
अथेति। उच्यते इति शेषः।-जनककुले इति।-शुद्धदत्तकस्येति
शेषः, द्वयामुष्यायणस्य उभयकुले अशौचसत्त्वस्याप्रभावात्। प्रेत-
पिण्डदानादेरिति।-चादिपदेन क्षीरोदकदानप्रेततर्पणादीनां परि-
ग्रहः। अशौचपूर्व्वकत्वञ्चेति।-अशौचं पूर्व्वमस्य यस्येति चाशौच-