सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 107, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 107

११६ दत्तकमीमांसा ।
मत्वे लिङ्गम् । नच स्वयं पोषितेत्यन्वयः साधुः । ग्रहणपोषणयोः
क्त्वाप्रत्ययाभिहितसमानकर्त्तृकत्वेनैव स्वयम्पोषणस्य सिद्धत्वात् ।
दत्तात्मिकायाः पुराणान्तरेषु मृग्यम् ।
अपविद्धायां महाभारते आदिपर्व्वणि शाकुन्तले दुष्यन्त-
शकुन्तलासंवादानुवादकमेव वाक्यम् । जनयामास स मुनिर्मेन-
कायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु । कृतकार्या तत-
स्तूर्णमगमच्छक्रसंसदम् ॥ तं वने विजने गर्भं सिंहव्याघ्रसमाकुले ।
दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन् ॥ नेमां हिंस्युर्वने
बालां क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षंस्तदा तत्र शकुन्ता मेनका-
त्माजाम् ॥ उपस्पृष्टुं गतश्चाहमपश्यं शयितामिमाम् । निर्जनेऽपि
वने रम्ये शकुन्तैः परिवारिताम् ॥ आनयित्वा ततश्चैनां दुहितृत्वे
न्यवेशयम् । शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते ॥ क्रमेण
शेषः । पोषितेत्यन्वयः साधुरिति ।—तथा च स्वयं पोषितेत्यन्वयेन
रूढिमात्वे प्रमाणं न स्यात् रूढिमः स्यात् स्वयं कृत इति लक्षणा-
योगादित्याशयः ।
'शाकुन्तले' शकुन्तलोपाख्याने । 'स मुनिः' विश्वामित्रः । मेनकायां
नामाप्सरसः । हिमवतः प्रस्थे एकदेशे देवताभूमावित्यर्थः ।
'अभितः' समीपे । 'मालिनीमनु' मालिनीतीरे । 'मांसगृद्धिनः' मांस-
लोभिनः । ऋक्षं श्येन इत्यर्थः । 'उपस्पृष्टुं' स्नातुम् । 'शरीरकृत्'
जनकः । 'प्राणदाता' व्याघ्रात् दुर्गेण रक्षक इत्यर्थः । दशेति
स्पष्टम् । क्रमेणेति ।—क्रमेण शरीरकृत्प्राणदानप्रदातॄणां समवाये