दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
DevanagariHindipublished191 पृष्ठ
पृष्ठ 106, कुल 191 में से
संदर्भ में पढ़ेंपृष्ठ 106दत्तकमीमांसा। ११५
दत्तकमीमांसा। ११५
शूराद्भोजायां पुरुषा दश। वसुदेवो महाबाहुः पूर्व्वमानक-
दुन्दुभिरित्युपक्रम्य देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः।
अनाधृष्टिः कनकको वत्सवानथ गृत्स्निमः। श्यामः शमीको
गण्डूखः पञ्च चास्य वराङ्गना इति मध्ये विधाय, पृथुकीर्त्तिः पृथा
चैव श्रुतदेवाः श्रुतश्रवाः। राजाधिदेवी च तथा पञ्चैता वीर-
मातर इति पञ्चापि विगणय्य, पृथां दुहितरं चक्रे कुन्तिस्तां
पाण्डुरावहत्। यस्यां स धर्म्मविद्राजा धर्म्मात् यज्ञे युधिष्ठिर
इत्यादि। अत्र चक्रे इति कर्त्तुरेव व्यापारश्रवणादस्याः
क्वचित्त्वम्।
पाद्मे भौमव्रते च। आसीत् सुमन्दिकः पूर्व्वं ब्राह्मणो वेद-
पारगः। तस्य सुमन्दिका भार्य्या वन्ध्या तु बहुलोभिनो।
तन्नापत्यं न सञ्जातं वृद्धत्वबन्ध्यभावतः। तेनान्यस्य सुता जातु
सुशीला रूपसंयुता। ब्राह्मणस्य कुले जाता गृहीत्वा पोषिता
स्वयम्। ताञ्च पुत्त्रीं गृहे तस्य ब्राह्मणी सा ह्यपालयत्।
विवाहार्थन्तु विप्रस्य दत्ता सोमेश्वरस्य च। वेदोक्तविधिना तत्र
विवाहमकगेत्तदेत्यादि। अद्यापि स्वयं गृह्णीतेति श्रवणं क्वचि-
मदिष्यामिति। भोजायां मदिष्यामित्यन्वयः। 'पूर्व्वं' प्रथमत
इत्यर्थः। दश पुत्रयान् दर्शयति वसुदेव इत्यादिना। 'ततः' वसु-
देवजन्मानन्तरमित्यर्थः। चास्य शूरस्येत्यर्थः। वराङ्गना इति।—ता एव
नामतो निर्दिशति पृथुकीर्त्तिरिति। कुन्तिर्नाम राजा। 'यस्यां'
पृथायाम्। 'सः' प्रसिद्ध इत्यर्थः। 'तेन' सुमन्दिकेनेत्यर्थः। 'ब्राह्मणी'
सुमन्दिकपत्नी सुमन्दिका। विवाहम्करोदिति।—सोमेश्वर इति