सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 105, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 105

११४ दत्तकमीमांसा ।
लैङ्गेऽपि । कन्यां लक्षणसम्पन्नां सर्व्वदोषविवर्जिताम् । माता-
पित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत् । आत्मीकृत्य तु संस्थाप्य
वस्त्रं दत्त्वा शुभं नवम् । भूषणैर्भूषयित्वा तु गन्धमाल्यैर्यथार्घयेत् ।
निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकम् । उभयोश्चित्त-
मालोक्य उभौ सम्पूज्य यत्नतः । दातव्या श्रोत्रियायैव ब्राह्मणाय
तपस्विने । साक्षादधीतवेदाय विधिना ब्रह्मचारिण इति । अत्र
सुवर्णेनात्मीकृत्य धनं दत्त्वेत्यादिशब्दैः क्रयविधिः स्पष्ट एव ।
कृत्रिमाया हरिवंशे शूरापत्यगणनायाम् । मद्धियां जज्ञिरे
म्पन्नामिति ।—'वयोरूपादिलक्षणयुक्तां' संसृष्टमैथुनत्वादिवोषहीनाम् ।
संवादं सम्मतिमित्यर्थः । कृत्वेत्यन्तर्भूतण्यर्थः कारयित्वेत्यर्थः ।
संस्थाप्येति ।—विधिनेतिशेषः । निमित्तानीति ।—शुभसूचकानि
अष्टपिण्डकरणादीनि मिताक्षरायामुक्तानि यथा 'आभ्यन्तराणि षट्-
पिण्डान् कृत्वा इत्याद्याश्वलायनोक्तविधिना वेदितव्यानि । पूर्व्वस्यां
रात्रौ गोष्ठवेदिक्रौकिववस्थानङ्गदेशियक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां
गृहीत्वा पिण्डाष्टकं कर्त्तव्यं तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती
भवति, द्वितीये पशुमती, तृतीयेऽग्निहोत्रपरा, चतुर्थे विवेकिनी,
चतुरा सर्व्वजनार्चनपरा भवति, पञ्चमे रोगिणी, षष्ठे बन्ध्या, सप्तमे
व्यभिचारिणी, अष्टमे विधवा भवेदित्याश्वलायनसूत्रादिति ।
'उभयोश्चित्तमालोक्य' उभयानुरागं बुद्ध्वा । एतेन गान्धर्व्वविवाह
उक्तो भवति । गान्धर्व्वः समयान्मिथ इति याज्ञवल्क्योयात् ।
श्रोत्रियायेत्यनेनाधीतवेदत्वे सिद्धे यदधीतवेदायेति पुनःकथनं तद्-
यन्यतोऽप्येतदध्यापनाद्यापनार्थमिति । 'ब्रह्मचारिणे' अक्षतदारायेत्यर्थः ।