दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 104, कुल 191 में से
संदर्भ में पढ़ेंHere is the complete and accurate line-by-line transcription of the text in Markdown:
दत्तकमीमांसा । ११३
तत्रैव लोमपादं प्रति दशरथवाक्यम् । शान्ता तव सुता
वीर सह भर्त्रा विशाम्पते । मदीयं नगरं यातु कार्यं हि
महदुद्यतमिति ।
तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम् । अयं राजा दशरथः
सखा मे दयितः सुहृत् । अपत्यार्थे ममानेन दत्तेयं वरवर्णिनी ।
याचमानस्य मे शश्वत् शान्ता प्रियतरा मम । सोऽयं ते श्वशुरो
धीर यथैवाहं तथा नृप इत्यादि । अत्र दीयतां दास्यते प्रतिगृह्य
दत्ताशब्दैर्दानविधिः स्पष्ट एव । तथा पुत्र इत्युपक्रम्य पुत्रार्थं
इत्युपसंहारात् औरसपुत्रीवत् दत्तपुत्र्यपि पुत्रप्रतिनिधिर्भव-
तीति गम्यते ।
क्रीतायां हेमाद्रौ स्कन्दपुराणे । आत्मीकृत्य सुवर्णेन
परकीयान्तु कन्यकाम् । धर्म्येण विधिना दातुमपगोत्रापि