सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 103, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 103

यवप्रत्यासत्त्यादि अदृष्टे शूद्रादिवचनन्तु नियमार्थं यदि सोमं
न विन्देत् पूतिकानभिषुणुयादित्यादिवत् विशेषान्तरं अस्मत्-
कृतायां विष्णुस्मृतिटीकायां केशववैजयन्त्यामवधेयम् ।
दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपलभ्यन्ते । तत्र
दत्तकाया रामायणे बालकाण्डे दशरथं प्रति सुमन्त्रस्य सनत्-
कुमारोक्तभविष्यानुवादो लिङ्गम् । इक्ष्वाकूणां कुले जातो
भविष्यति सुधार्मिकः । नामा दशरथो वीरः श्रीमान् सत्य-
पराक्रमः । सख्यं तस्याङ्गराजेन भविष्यति महात्मना । कन्या
चास्य महाभागा शान्ता नाम भविष्यति । अपुत्रस्त्वङ्गराजो वै
लोमपाद इति श्रुतः । स राजानं दशरथं प्रार्थयिष्यति भूमिपः ।
अनपत्योऽस्मि धर्मज्ञ कन्येयं मम दीयताम् । शान्ता शान्तेन
मनसा पुत्रार्थे वरवर्णिनी । ततो राजा दशरथो मनसाभि-
विचिन्त्य च । दास्यते तां तदा कन्यां शान्तामङ्गाधिपाय सः ।
प्रतिगृह्य तु तां कन्यां स राजा विगतज्वरः । नगरं यास्यति
क्षिप्रं प्रहृष्टेनान्तरात्मना । कन्यां तामृष्यशृङ्गाय प्रदास्यति स
वीर्यवानित्यादि ।


नियमार्थमिति ।—सिद्धे सत्यारम्भो नियमायेति न्यायादित्यर्थः ।
नियमफलन्तु अवरुद्धादास्याद्युत्पन्नेषु अवयवसम्बन्धेन सापिण्ड्येऽपि
न पुत्रत्वं भवतीति । यदि सोममिति ।—पूतीकां अभिषुणुयात्
गृह्णीयात् ।
भविष्यानुवाद इति । भविष्यत्कथनमित्यर्थः । इक्ष्वाकूणामिति ।—
कन्या चास्येति ।—अस्य दशरथस्येत्यर्थः । 'अङ्गराजः' अङ्गस्य देशस्य
राजा स लोमपादः । 'शान्तेन' प्रीतियुक्तेन । विगतज्वरः विगत-