सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 102, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 102

तान्येव प्रवृत्तिनिमित्तान्युभयत्रापि तुल्यत्वात् तासां चौरसप्रति-
निधित्वं विकलावयवारब्धत्वेन न्यायत एव सिद्धं ब्रीह्यपचारे
नीवाराणामिव अवयववैकल्यञ्च मात्रावयवमात्रान्वयेन भर्त्रवय-
वान्त्वयाभावात् । अस्त्वेवं क्षेत्रजादीनां दुहितॄणां चौरसदुहितृ-
-प्रतिनिधित्वं न्यायबलात् दत्तकक्रीतकृत्रिमदत्तात्मापविद्धानां
सौसादृश्यन्यायाभावे कथमस्तु प्रतिनिधित्त्वं । मैवम् । तत्रापि
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिरिति योगिप्रतिपादित-
सजातीयत्वादिसौसादृश्यसद्भावात् अस्त्येव न्यायप्रसरः उपपादितं
चैतदधस्तात् पुत्रप्रतिनिधिविचारे । ननु क्षेत्रजादीनां पञ्चानां
मात्रवयवान्वयेन दत्तकादीनां षण्णां सजातीयत्वेनास्तु प्रति-
निधित्वं पूर्व्वाभावे परः पर इति क्रमविधानन्तु कथं सादृश्या-
विशेषादिति चेन्नैवम् । पूर्व्वपूर्व्वश्रेयस्त्वेनेति ब्रूमः । तदाह विष्णुः ।

  • एतेषां पूर्व्वः पूर्व्वः श्रेयानिति । श्रेयो दृष्टादृष्टविशेषः दृष्टं चात्र-

दुहितृप्रतिनिधित्वमित्यर्थः । 'विकलावयवारब्धत्वेन' मात्रवयवमात्रजन्य-
त्वेन । न्यायत एवेति । —सौसादृश्यलक्षणात् न्यायत एवेत्यर्थः ।
ब्रीह्यपचार इति ।—यथोक्तवस्तुसंपत्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोधूमा व्रीहीणामिव शालय इति न्यायादितिशेषः ।
“न्यायप्रसरः” न्यायावसर इत्यर्थः । अधस्तादिति ।—यच्च च येषु दम्प-
त्यो रन्यतरावयवसम्बन्धस्तेषां न्यायादेव प्रतिनिधित्त्वमित्यादिप्रग्रन्थे-
नेत्यर्थः । क्षेत्रजकानीनगूढजसहोढपौनर्भवेषु मातापित्रन्यतरावयव-
प्रत्यासत्तिरस्त्येव तेषु व्यभिचारजातत्वेन शुद्धिमुख्यागाभावात्
दत्तकादिषु तु शुद्धादिः शुद्धबीजभावत्वात् । ननु क्षेत्रजादिषु
सौसादृश्यादेव प्रतिनिधित्वे प्राप्ते किमर्थं वचन'मित्याह 'कथमस्त्विति ।