दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 101, कुल 191 में से
संदर्भ में पढ़ें११० दत्तकमीमांसा ।
भार्योपादानं किन्तु तस्याः संस्कृतस्त्रीत्वेन नच तत् श्यालि-
कायामस्ति यच्च कनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः
ज्येष्ठाप्रतिनिधित्वम् । यथाह व्यतिरेकमुखेन योगीश्वरः । सत्यामन्यां
सवर्णायां धर्मकार्यं न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठा
न विनेतरेति । तस्मात् पिष्टमातृन्यायत एव प्रतिनिधित्वम् ।
तत्र क्षेत्रजगूढजकानीनसहोढपौनर्भवानां पञ्चानां मध्ये
क्षेत्रजोत्पादनं मनुरेवाह । देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्-
नियुक्तया । प्रजेप्सिताधिगन्तव्या सन्तानस्य परिचये इत्य-
नेन सन्तानस्योभयविधस्य परिचये उभयविधायाः प्रजाया
दृष्टत्वेन यथायथं प्रतिनिधित्वमित्यर्थः । इतरासु चतसृषु नोत्पा-
दनविध्यपेक्षा लोकस्वभावसिद्धत्वात् तासाञ्च नामानि पुत्रवत्
रित्युद्धारस्य हेतुः । तस्या इति ।—