दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
[२२] परिशिष्टम् [नाट्यशास्त्रे]
उत्थापकश्च परिवर्तकश्च संलापकः ससंघातः ।
चत्वारोऽस्या भेदा विज्ञेया नाट्यतत्त्वज्ञैः ॥ ४० ॥
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् ।
इति संघर्षसमाश्रयमुत्थितमुत्थापको ज्ञेयः ॥ ४१ ॥
उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् ।
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ ४२ ॥
साधर्षजो निराधर्षजो वापि विविधवचनसंयुक्तः ।
साधिक्षेपालापो ज्ञेयः संलापकः सोऽपि ॥ ४३ ॥
मित्रार्थवाक्ययुक्त्या दैववशादात्मदोषयोगाद्वा ।
संघातभेदजननस्तज्ज्ञैः संघातको ज्ञेयः ॥ ४४ ॥
इत्यष्टार्थविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता ।
कैशिक्यास्त्विह लक्षणमतः परं संप्रवक्ष्यामि ॥ ४५ ॥
या श्लक्ष्णनेपथ्यविशेषचित्रा
स्त्रीसंयुता या बहुनृत्तगीता ।
कामोपभोगप्रभवोपचारा
तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ४६ ॥
नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्च ।
कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ ४७ ॥
आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ ४८ ॥
ईर्ष्याक्रोधप्रयासोपालम्भवचनानुविद्धं च ।
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ ४९ ॥
नवसंगमसंभोगो रतिसमुदयवाक्यवेषसंयुक्तः ।
ज्ञेयो नर्मस्फूर्जो ह्यवसानभयानकश्चैव ॥ ५० ॥
विविधानां भावानां लवैर्लवैर्भूषितो बहुविशेषैः ।
असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ ५१ ॥
विज्ञानरूपसंभावनादिभिर्नायको गुणैर्यत्र ।
प्रच्छन्नं व्यवहरते कार्यवशान्नर्मगर्भोऽसौ ॥ ५२ ॥
[पूर्वस्थितानिपद्येत(?)यत्र चान्यतमनायकस्तिष्ठेत् ।
तमपीह नर्मगर्भं वदन्ति नाट्यप्रयोगेऽस्मिन् ॥ ५३ ॥]
इत्यष्टार्थविकल्पा वृत्तिरियं कैशिकी मया प्रोक्ता ।
अत ऊर्ध्वमुद्धतरसामारभटीं संप्रवक्ष्यामि ॥ ५४ ॥
आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता ।
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ ५५ ॥
प्रस्तावपातप्लुतलङ्घितानि चान्यानि मायाकृतमिन्द्रजालम् ।
चित्राणि युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ५६
अध्यायः २४ ] दशरूपकस्य २३
संक्षिप्तकावपातौ वस्तूत्थापनमथापि संफेटः ।
एते ह्यस्या भेदा लक्षणमेषां प्रवक्ष्यामि ।
अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः ।
संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको नाम ॥ ५७ ॥
भयहर्षसमुत्थानं विद्रुतसंभ्रान्तविविधवचनं च ।
क्षिप्रप्रवेशनिर्गममवपातममुं विजानन्ति ॥ ५८ ॥
सर्वरससमासकृतं सविद्रवाविद्रवाश्रयं वापि ।
नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ ५९ ॥
संरम्भसमायुक्तो बहुयुद्धनियुद्धकपटनिर्भेदः ।
शस्त्रप्रहारबहुलः संफेटो नाम विज्ञेयः ॥ ६० ॥
एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रयाः ।
रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ ६१ ॥
शृङ्गारे चैव हास्ये च वृत्तिः स्यात् कैशिकीति सा ।
सात्त्वती नाम सा ज्ञेया वीररौद्राद्भुताश्रया ॥ ६२ ॥
भयानके च बीभत्से रौद्रे चारभटी भवेत् ।
भारती चापि विज्ञेया करुणाद्भुतसंश्रया ॥ ६३ ॥
[न ह्येकरसं काव्यं किंचिदस्ति प्रयोगतः ।
भावोऽपि रसो वापि प्रवृत्तिरेव वा (?) ॥ ६४ ॥
सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥ ६५ ॥]
वृत्त्यन्त एषोऽभिनयो मयोक्तो
वागङ्गसत्त्वप्रभवो यथावत् ।
आहार्यमेवाभिनयं प्रयोगे
वक्ष्यामि नेपथ्यकृतं पुनश्च ॥ ६६ ॥
इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पो नाम विंशोऽध्यायः ।
चतुर्विंशोऽध्यायः ।
समासतःतु त्रिविधा प्रकृतिः परिकीर्तिता ।
स्त्रीणां च पुरुषाणां च उत्तमाधममध्यमाः ॥ १ ॥
नाट्ये चत्वार एवैते नायकाः परिकीर्तिताः ।
तत्रोत्तमायां प्रकृतौ नानालक्षणलक्षिताः ॥ २ ॥
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च ।
धीरप्रशान्तश्चैवेति नायका नाटकाश्रयाः ॥ ३ ॥
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्याश्च धीरोदात्ताः प्रकीर्तिताः ॥ ४ ॥
द० १२
२४ परिशिष्टम् [ नाट्यशास्त्रे
ब्राह्मणा वणिजश्चैव प्रोक्ता धीरप्रशान्तकाः ।
एतेषां च पुनज्ञेयाश्चत्वारोऽथ विदूषकाः ॥ ५ ॥
एते तु नायका ज्ञेयाः काव्यबन्धेषु सर्वदा ।
नायिकाश्चैव वक्ष्यामि चतस्रः पुनरेव तु ॥ ६ ॥
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ।
एतास्तु नायिका ज्ञेया नानाप्रकृतिलक्षणाः ॥ ७ ॥
धीराश्च ललिताश्चैव उदात्ता निभृतास्तथा ।
दिव्या राजाङ्गना ह्येता गुणैर्युक्ता भवन्ति हि ॥ ८ ॥
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ।
गणिका शिल्पकारी च उदात्तललिते स्मृते ॥ ९ ॥
प्रेष्या चैव हि विज्ञेया संकीर्णप्रकृतावपि ।
नपुंसकश्च विज्ञेयः संकीर्णोऽधम एव च ॥ १० ॥
संकरे स्थविरश्चैव ये चान्येऽप्यधमा नराः ।
संकीर्णांस्तेऽपि विज्ञेया नाटकेषु द्विजोत्तमाः ॥ ११ ॥
एते ज्ञेयाः प्रकृत्या तु पुरुषस्त्रीनपुंसकाः ।
एतेषां चैव वक्ष्यामि विभागं शीललक्षणैः ।
सर्वासां प्रकृतीनां तु प्रकारो द्विविधः स्मृतः ॥ १२ ॥
तत्र राजोपचारो यो भवेदभ्यन्तरस्तु सः ।
वाह्योपचारो यस्तस्माद्विज्ञेयो बाह्य एव सः ॥ १३ ॥
तस्माद्राजोपचारेषु पुनरभ्यन्तराश्रयम् ।
स्त्रीविभागं प्रवक्ष्यामि उपचारं तथैव च ॥ १४ ॥
महादेवी तथा देवी स्वामिनी स्थायिनी तथा ।
भोगिनी शिल्पकारी च नाटकीयाथ नर्तकी ॥ १५ ॥
अनुचारी तथायुक्ता तथा च परिचारिका ।
तथा संचारिणी चैव तथा प्रेषणकारिका ॥ १६ ॥
महत्तरा प्रतीहारी कुमारी स्थविरा तथा ।
आयुक्तिकास्तु भूपानामेष आभ्यन्तरो गणः ॥ १७ ॥
तथा मूर्धावसिक्ता च कुलशीलविभूषिता ।
समतुल्यचरित्रा च वयस्या क्रोधवर्जिता ॥ १८ ॥
अनीर्ष्या नृपशीलज्ञा समदुःखसुखास्पदा ।
शान्तिस्वस्त्ययनैर्नित्यं भर्तृमङ्गलकाङ्क्षिणी ॥ १९ ॥
पतिव्रता क्षमायुक्ता अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महादेवी प्रकीर्तिता ॥ २० ॥
एभिरेव गुणैर्युक्ता वहुमानविवर्जिता ।
गर्विता राजपुत्री च रतिसंभोगतत्परा ॥ २१ ॥
अध्यायः २४ ] दशरूपकस्य २५
बाला नित्योज्ज्वलगुणा प्रतिपक्षेष्वसूयिका ।
यौवनादिगुणोन्मत्ता सा देवीत्यभिधीयते ॥ २२ ॥
सेनापतेरमात्यानां दण्डिता तत्पराश्च या ।
तनया नामतश्चैव स्वामिनीत्यभिसंज्ञिता ॥ २३ ॥
शीलरूपगुणैर्या तु संयुक्ता नृपवल्लभा ।
स्वामिसत्कारसंपन्ना स्वामिनीति हि संज्ञिता ॥ २४ ॥
रूपयौवनसंपन्ना कर्कशा ललिता तथा ।
रतिसंभोगकुशला प्रतिपक्षेऽभ्यसूयिका ॥ २५ ॥
दक्षा स्फुटा हृदात्ता च गन्धमाल्योज्ज्वला तथा ।
नृपतिच्छन्दवृत्ता च सर्वत्रेर्ष्याविवर्जिता ।
उपस्थिता चाप्रमत्ता निद्रालस्या ह्यनिष्ठुरा ॥ २६ ॥
मान्यामान्यविशेषज्ञा स्थायिनी संप्रकीर्तिता ।
सुशीला लघुसंमाना मृदुर्नात्युद्धता तथा ।
मध्यस्था निभृता क्षान्ता योगिनीति हि सा स्मृता ॥ २७ ॥
नानाकलाविशेषज्ञा नाना शिल्पविचक्षणा ।
गन्धशिल्पविभागज्ञा नानालेख्यविशारदा ॥ २८ ॥
शयनासनयानज्ञा चतुरा चतुरा तथा ।
दक्षा चित्रास्फुटा श्लक्ष्णा निभृता शिल्पकारिका ॥ २९ ॥
ग्रहमोक्षलयज्ञा च रसभावविभाविका ।
परभावेङ्गितज्ञा च आचार्यानुगता तथा ॥ ३० ॥
चतुराभिनयज्ञा च ऊहापोहविचक्षणा ।
निपुणा भाण्डवाद्येषु नाटकीया प्रकीर्तिता ।
यौवनादिगुणोन्मत्ता नृत्तगीतविचक्षणा ॥ ३१ ॥
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ।
समागतासु नारीषु रूपयौवनकान्तिषु ॥ ३२ ॥
न दृश्यन्ते गुणैस्तुल्या नर्तकी सा प्रकीर्तिता ।
सर्वावस्थाप्रचारेषु अनुगच्छति या नृपम् ॥ ३३ ॥
विज्ञेयं नाम तस्यास्तु नृपतेरनुचारिका ।
भाण्डागारे नियुक्ता च आयुधागार एव च ॥ ३४ ॥
औषधीफलमूलेषु बीजेषु व्यापृता तथा ।
गन्धाभरणवस्त्रेषु आख्यानकथनेषु च ॥ ३५ ॥
बह्वर्थेषु नियुक्ता या आयुक्ता च इति स्मृता ।
छत्रशय्यासने युक्ता तथा व्यञ्जनकर्मणि ॥ ३६ ॥
संवाहने च गन्धे च तथा चैव प्रसाधने ।
तथाभरणसंयोगे माल्यासंग्रहणेषु च ।
विज्ञेया नामतः सा तु नृपतेः परिचारिका ॥ ३७ ॥
२६ परिशिष्टम् [ नाट्यशास्त्रे
नानाकक्ष्यादिचारिण्यस्तथोपवनसंचराः ।
देवतायतनक्रीडाप्रासादपरिसंचराः ॥ ३८ ॥
यामेषु च नियुक्ता यास्तथा च विविधाश्रये ।
संचारिक्यस्तु विज्ञेया नाट्यज्ञैरुपचारतः ॥ ३९ ॥
प्रेषणैः कामसंयुक्तैर्गुह्याद्गुह्यसमुत्थितैः ।
या नियुक्ता बुधैः सा तु ज्ञेयाऽन्वेषणकारिका ॥ ४० ॥
सर्वान्तःपुररक्षायामाशीःस्वस्त्ययनादिभिः ।
या नित्यमभिनन्दन्ति ज्ञेयास्ताः सुमहत्तराः ॥ ४१ ॥
संधिविग्रहसंबन्धनानाकार्यसमुत्थितम् ।
निवेदयन्ति कार्यं याः प्रतीहार्यस्तु ताः स्मृताः ॥ ४२ ॥
अप्राप्तरतिसंभोगा असंभ्रान्ता अनुद्धताः ।
निभृता या[:] सलज्जाश्च ताः कुमार्य इति स्मृताः ॥ ४३ ॥
पूर्वराजनयाभिज्ञाः सर्वराजसु पूजिताः ।
पूर्वराजोपचारज्ञास्ता वृद्धा इति संज्ञिताः ॥ ४४ ॥
समासाल्लक्षणं तासां प्रवक्ष्यामि द्विजोत्तमाः ।
या नियोज्या नियोगेषु प्रयोगेषु तथैव हि ॥ ४५ ॥
अनुद्धता ह्यसंभ्रान्ताः सुवेषाचारनिष्ठुराः ।
क्षान्ता दीनाः सुशीलाश्च जितक्रोधा जितेन्द्रियाः ॥ ४६ ॥
प्रकामनिभृताश्चैव स्त्रीदोषैश्च विवर्जिताः ।
ता नियोगे नियोक्तव्या वनिता मदवर्जिताः ॥ ४७ ॥
यत्स्यान्नपुंसकं नाम तृतीया प्रकृतिस्तु या ।
साऽप्यन्तःपुरसंचारे योज्या पार्थिववेश्मनि ॥ ४८ ॥
स्नातकाः कञ्चुकीयाश्च तथा वर्षध(व)राश्च ये ।
औपस्थायिकनिर्मुण्डाः कक्षास्थानेषु योजयेत् ॥ ४९ ॥
अपुमांसस्तु पुरुषा ये तु स्त्रीभोगवर्जिताः ।
एते त्वन्तःपुरचरा[:] कार्या नित्यं हि नाटके ॥ ५० ॥
वस्त्वन्ते(?) स्नातकं कुर्यादार्यमाचारसंयुतम् ।
प्रेषणे वार्थसंयुक्ते कञ्चुकीयान्नियोजयेत् ॥ ५१ ॥
तथा वर्ष(व)धरांश्चैव कामचारेषु योजयेत् ।
औपस्थायिकनिर्मुण्डाः स्त्रीणां प्रेषणकारणे ॥ ५२ ॥
मानकार्येषु नारीणां नियुञ्जीतानुचारिकाः ।
सद्योवृत्तान्तयोगज्ञं नाट्यागारे नियोजयेत् ॥ ५३ ॥
ये त्वल्पसत्त्वाः कुशलाः क्लीबाश्च स्त्रीस्वभाविनः ।
जात्या न दुष्टाः कार्ये च ते वै वर्षध(व)राः स्मृताः ॥ ५४ ॥
अध्यायः २४ ] दशरूपकस्य २७
नपुंसका ये पुरुषाः स्त्रीस्वभावेन वर्जिताः ।
निर्मुण्डा नामतो ज्ञेयाः कामविज्ञानवर्जिताः ॥ ५५ ॥
ये विद्यासत्यसंपन्नाः कामदोषविवर्जिताः ।
ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥ ५६ ॥
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया ।
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंचरम् ॥ ५७ ॥
राजा सेनापतिश्चैव कुमारो मन्त्रिणस्तथा ।
सचिवाः प्राड्विवाकाश्च प्रयोगाधिकृतास्तथा ॥ ५८ ॥
एते चान्ये च बहव[:] समा(भा)स्तारा नृपस्य तु ।
विभागमेषां वक्ष्यामि लक्षणं च पृथक् पृथक् ॥ ५९ ॥
शीलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः ।
दक्षः प्रगल्भः स्मृतिमान् विक्रान्तो धृतिमान् शुचिः ॥६०॥
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवागपि ।
लोकपालव्रतचरः शूरो धीरः क्षमान्वितः ॥ ६१ ॥
उत्थितश्चाप्रमत्तश्च वृद्धः स्मृत्यर्थशास्त्रवित् ।
नानानाट्यप्रचारज्ञ ऊहापोहविचक्षणः ॥ ६२ ॥
परभावेङ्गितज्ञश्च षाड्गुण्येनाप्यलंकृतः ।
नानाशास्त्रार्थतत्त्वज्ञो नानाशिल्पप्रयोजकः ॥ ६३ ॥
स्थानवृद्धिक्षयज्ञश्च पररन्ध्रविचक्षणः ।
कृतज्ञोऽव्यसनी चैव गुणैरेतैर्भवेन्नृपः ॥ ६४ ॥
शीलवान् सत्यसंपन्नस्त्यक्तकालस्यः प्रियंवदः ।
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् ॥ ६५ ॥
अर्थशास्त्रार्थतत्त्वज्ञो ह्यनुरक्तः कुले वृतः ।
देशवित् कालविच्चैव भवेत् सेनापतिर्गुणैः ॥ ६६ ॥
कुलीना बुद्धिसंपन्नाः श्रुतिनीतिविशारदाः ।
स्वदेश्याश्चानुरक्ताश्च शुचयो धार्मिकास्तथा ॥ ६७ ॥
अमात्या मन्त्रिणश्चैव गुणैरेतैर्भवन्ति हि ।
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ६८ ॥
मध्यस्था धार्मिका रक्ताः कार्याकार्यविचक्षणाः ।
शान्ता दान्ता जितक्रोधा नोद्धताः समदर्शिनः ॥ ६९ ॥
ईदृशाः प्राड्विवाकाश्च स्थाप्या धर्मासनेष्वथ ।
उत्थिताश्चाप्रमत्ताश्च त्यक्तालस्या जितक्लमाः ॥ ७० ॥
स्निग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा ।
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ७१ ॥
नानारूपैः समायुक्ता गुणैरेतैर्भवन्ति हि ।
बृहस्पतिमतादेशाद् गुणानां प्रविभावकम् ॥ ७२ ॥
२८ परिशिष्टम् [ नाट्यशास्त्रे
विज्ञेयं वाचि कर्मज्ञैः समास्तारादिकत्थनम् ।
अत्रोच्यते यथानाट्यमाहार्यगुणसंभवम् ॥ ७३ ॥
कथं राजगुणाः कार्या नटैरल्पपरिच्छदैः ।
अत्रोच्यते यदा लोके नाट्यधर्माः प्रवर्तिताः ।
तदेव सर्वसंपन्नं नाट्यमेतन्मया कृतम् ॥ ७४ ॥
वर्णकैश्छादितस्तत्र भूषणैश्चाप्यलंकृतः ।
गाम्भीर्यौदार्यसंपन्नो राजवत्तु भवेन्नटः ॥ ७५ ॥
सप्तद्वीपाश्रयश्चैव एवमेको नटो भवेत् ।
वर्णकैश्छादितैर्नेह कार्यं त्वर्थविचेष्टितम् ॥ ७६ ॥
आचार्यबुद्ध्या शान्तस्तु सौष्ठवाङ्गपुरस्कृतः ।
राजवद्भरतस्तस्माद् राजापि नटवद्भवेत् ॥ ७७ ॥
यथा नटस्तथा राजा तथा च नट उच्यते ।
उभाभ्यां भावनिष्पत्तिः समलीलाङ्गसौष्ठवा ॥ ७८ ॥
यथाचार्योपदेशेन रङ्गशोभी भवेन्नटः ।
एवं स्वभावतो राजा नित्यमेवोज्ज्वलो भवेत् ॥ ७९ ॥
दिव्यानां यः परिवारः पार्थिवानां भवेदिह ।
नाटके संप्रयोक्तव्यो वेषभाषाक्रियान्वितः ॥ ८० ॥
यादृशं यस्य यद्रूपं प्रकृत्या तस्य तादृशम् ।
वयोवेषविधानेन कर्तव्यं प्रयुयुक्षुणा ॥ ८१ ॥
एवं राजोपचारेषु कार्यः पुरुषसंग्रहः ।
अत ऊर्ध्वं प्रवक्ष्यामि नानापुरुषलक्षणम् ॥ ८२ ॥
नानाशीलगुणे लोके उत्तमाधममध्यमे ।
प्रयोक्तव्याः पृथग्भावैर्विज्ञेया प्रकृतिर्बुधैः ॥ ८३ ॥
नानाशिल्पादिसंपन्ना ज्ञानवन्तो जितेन्द्रियाः ।
लोकक्रियाविशेषज्ञा धर्माधर्मविचक्षणाः ॥ ८४ ॥
शास्त्रेतिहासकुशलाः शीलवृत्तव्यवस्थिताः ।
अहिंसासत्त्वसंपन्नाः प्रकृत्या तूत्तमाः स्मृताः ॥ ८५ ॥
लोकोपचारतत्त्वज्ञाः शिल्पशास्त्रविचक्षणाः ।
मध्यप्रायगुणोपेताः प्रकृत्या मध्यमाः स्मृताः ॥ ८६ ॥
रूक्षवाक्या दुराचारा निःसत्त्वाः खल्पबुद्धयः ।
क्रोधना घातकाश्र्चैव कृतघ्नाश्छिद्रदर्शिनः ॥ ८७ ॥
वृथारम्भप्रसक्ताश्च यत्किंचिद्वादिनोऽल्पकाः ।
पिशुनाः पापनिरताः स्त्रीलोलाः कलहप्रियाः ॥ ८८ ॥
मान्यामान्यविशेषाणामनभिज्ञाश्च तस्कराः ।
एभिर्दोषैश्च संयुक्ताः प्रकृत्यैवाधमाः स्मृताः ॥ ८९ ॥
अध्यायः २४ ] दशरूपकस्य २९
एवं तु शीलतो ज्ञेया प्रकृतिस्त्रिविधा बुधैः ।
अतः परं प्रवक्ष्यामि प्रयोक्तॄणां तु सद्गुणान् ॥ ९० ॥
तत्र सूत्रधारगुणान् वक्ष्यामः—अस्यादित एव तावल्लक्ष-
णज्ञता, अहीनो वाक्यसंस्कारः, तथा गीतकालविधानज्ञता,
स्वरवादित्रतत्त्ववादः।
चतुरो नाट्यकुशलः शास्त्ररीतिप्रतिष्ठितः ।
नानापाषण्डकार्यज्ञो नीतिशास्त्रार्थवित्तथा ॥ ९१ ॥
वैश्योपचारनिपुणः काव्यशास्त्रविचक्षणः ।
नानागतिप्रचारज्ञो रसभावविशारदः ॥ ९२ ॥
नाट्यप्रयोगकुशलो नानाशिल्पसमन्वितः ।
छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः ॥ ९३ ॥
ग्रहनक्षत्रतत्त्वज्ञो देशव्याहारतत्त्ववित् ।
पृथिवीद्वीपवर्षाणां पर्वतानां जनस्य च ॥ ९४ ॥
प्रमाणाचारतज्ज्ञश्च राजवंशप्रसूतिवित् ।
३० परिशिष्टम् [ नाट्यशास्त्रे
एवंगुणैस्तु संयुक्तो यतजैश्चेतरैस्तथा ।
अन्तःपु(तः प)रं प्रवक्ष्यामि स्त्रीणां च प्रकृतिं पुनः ॥ १०५॥
मितभाषा विदग्धा च सलज्जा न च निष्ठुरा ।
कुलशीलगुणोपेता गुरूणां शासने रता ॥ १०६ ॥
धैर्यगाम्भीर्यसम्पन्ना उत्तमा प्रकृतिः स्मृता ।
नानाशिल्पप्रयोगज्ञा नानाशास्त्रविचक्षणा ॥ १०७ ॥
कलोपभोग(?)राचार्यशुश्रूषाभिरता सदा ।
लीलया भावहावाभ्यां सत्त्वेन विनयेन च ॥ १०८ ॥
माधुर्येण चं संयुक्ता चतुःषष्टिकलान्विता ।
नृत्तोपचारकुशला स्त्रीदोषैस्तु विवर्जिता ॥ १०९ ॥
प्रियवादी प्रियकथा स्फुटा दक्षा जितश्रमा ।
एभिर्गुणैस्तु संयुक्ता गणिका परिकीर्तिता ॥ ११० ॥
रूपगुणशील यौवनसुवर्णमाधुर्य...संपन्ना ।
विशदा स्निग्धा मधुरा पेशलशुभ्रक्त
दशरूपकावलोके प्रमाणत्वेन समुपन्यस्तानां
ग्रन्थानां ग्रन्थकाराणां च नामानि ।
अमरुशतकम्—३९, ४५, ४६, ४७, ४९, ५०, ५६, ५९, ८१, ८५,
८८, १०४.
उत्तरचरितम् (उत्तररामचरितं वा)—२३, ३२, ६५, ६७, ८०, ८३, ८६,
९९, १०२, १०५. .
उदात्तराघवम्—६०, ६३, ७०, ८१, ८७.
कर्पूरमञ्जरी—६६.
कादम्बरी—१०५.
कामसूत्रम्—१०१.
काव्यनिर्णयः—९५.
किरातम्—८६.
कुमारसंभवम्—५२, ५४, ८६, ८९, ९३, ९९, १०१, १०८.
छलितरामम्—२२, ६६, ६८.
धनिकः—(अवलोककृत्)—३९, ४१, ४२, ४३, ४५, ५२, ५३, ५४, ५५,
५६, ५८, ७८, ८६, ८७, १०२, १०३, १०६, १०७.
नागानन्दम्—३७, ४०, ४२, ४७, ५७, ९९, १०६.
पद्मगुप्तः—५५.
पाण्डवानन्दम्—६५.
प्रियदर्शिका (प्रियदर्शना वा)—५९, ६१.
बृहत्कथा (गुणाढ्यनिर्मिता)—३४, ९०.
भट्टबाणः—५३.
भरतमुनिः—७४.
भर्तृहरिः—७७.
भर्तृहरिशतकम्—३६, ८१.
भवभूतिः—३८
भोजप्रबन्धः—८२.
महाभारतम्—७०.
माघम्—४५, ८०, ८२, ८५, १०४.
मालतीमाधवम्—९, ३७, ४०, ५०, ५४, ५८, ६०, ८४, ९१, ९९,
१०५, १०७.
मालविकाग्निमित्रम्—३२, ३६, ५०, ५७, ५८, ६२, १००.
मुञ्जः—१०३.
मुद्राराक्षसम्—(बृहत्कथामूलम्)—३४, ६०, ६८.
२
मृच्छकटिका—२४, ३७, ४८, ७२.
मेघदूतम्—१०५.
रघुः ( रघुवंशो वा )—३५, ८८, १०५.
रत्नावली—४, ५, ६, ७, ८, १०, ११, १२, १३, १४, १५, १६, १७,
१८, १९, २०, २१, २२, २३, २४, २५, २६, २७, २८, २९,
३०, ३६, ४७, ५८, ६१, ६३, ६४, ६७, ८०, ८१,
१०६, १०९.
रामाभ्युदयम्—२४.
रामायणम्—४, ३३, ४०, ६०, ७०, ९७.
रुद्रः—१०३.
वाक्पतिराजदेवः—१०२.
विकटनितम्बा—९०.
विक्रमोर्वशी—६५, ६६, १०५.
विद्धशालभञ्जिका—१०१.
वीरचरितम्—( महावीरचरितं ) ८, ३२, ३५, ४१, ४२, ५९, ६०,
७०, ८०, ८२, ८३, ८४, ८५, ८८, ८९, १०७, १०८.
वेणीसंहारम्—५, ८, ९, १०, ११, १२, १३, १९, २०, २१, २२,
२३, २५, २६, २७, २८, २९, ३०, ३१, ६४, ८३, १०८.
शाकुन्तलम्—५२, ५३, ६३, ६९, १०१.
षट्सहस्रीकृत्—७७.
हनुमन्नाटकम्—३६, ४१, ७९, ८४.
३
दशरूपके ह्युदाहरणत्वेनोपन्यस्तश्लोकानां सूचिः ।
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
अकृपणमतिः कामं जीव्यात् ... वेणीसंहारे ... ... ३१
अच्छिन्नं नयनाम्बु ... [अमरुशतके] ... ८९
अण्णहुणाहमहेलिअ ... ... ... ९१
अत्रान्तरे किमपि वाग्विभ ... मालतीमाधवे ... ५४
अद्यैव किं न विसृजेयमहं ... वेणीसंहारे ... २५
अद्वैतं सुखदुःखयोरनु ... [उत्तररामचरिते] ... ३९
अनाघ्रातं पुष्पं किसलय ... शाकुन्तले ... ५२
अन्त्रैः स्वैरपि संयताग्र ... मम (धनिकस्य) ... ४१
अन्त्रैः कल्पितमङ्गल ... [मालतीमाधवे] ... ९१
अन्यासु तावदुपमर्द ... विकटनितम्बायाः ... ९०
अन्योन्यास्फालभिन्नद्विप ... वेणीसंहारे ... ११
अप्रियाणि करोत्येष ... वेणीसंहारे ... २५
अभिव्यक्तालीकः सकल ... मम (धनिकस्य) ... ५८, १०४
अभ्युद्गते शशिनि ... ... ... ५४
अभ्युन्नतस्तनमुरो नयने ... मम (धनिकस्य) ... ४५
अयमुदयति चन्द्रः ... ... ... ७७
अयि जीवितनाथ ... कुमारसंभवे ... ११०
अर्चिष्मन्ति विदार्य ... ... ... ६८
अर्थित्वे प्रकटीकृतेऽपि ... वीरचरिते ... ८३
अलसलुलितमुग्धान्यध्व ... उत्तररामचरिते ... ८०
अशोकनिर्भर्त्सितपद्म ... कुमारसंभवे ... ९९
असंशयं क्षत्रपरिग्रह ... शाकुन्तले ... १०१
असूत सद्यः कुसुमान्यशोकः ... कुमारसंभवे ... ९९
अस्तमितविषयसङ्गा ... [गोवर्धनस्य] ... ८२
अस्तापास्तसमस्तभासि ... रत्नावल्याम् ... ७
अस्मिन्नेव लतागृहे ... उत्तररामचरिते ... १०२
अस्याः सर्गविधौ ... [विक्रमोर्वश्याम्] ... ७७
आगच्छागच्छ सज्जं कुरु ... मम (धनिकस्य) ... ८७
आताप्रतामपनयामि ... रत्नावल्याम् ... १९
आत्मानमालोक्य च ... कुमारसंभवे ... ८९
४
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
आदृष्टिप्रसरान्प्रियस्य ... ... अमरुशतके ... ... ... ४९
आनन्दाय च विस्मयाय ... वीरचरिते ... ... ... ५९
अन्त्रप्रोतबृहत्कपाल ... ... वीरचरिते ... ... ... १०७
आयस्ता कलहं पुरेव ... ... [ अमरुशतके ] ... ... ४६
आयाते दयिते मरु ... ... [ अमरुशतके ] ... ... ८१
आलापान्भ्रूविलासो ... ... ... ... ... ... ४४
आशस्त्रग्रहणादकुण्ठपरशोः ... वेणीसंहारे ... ... ... १२
आश्लिष्टभूमिं रसितारं ... ... माघे ... ... ... ८६
आसादितप्रकटनिर्मल ... ... ... ... ... ६३,६५
आहूतस्याभिषेकाय ... ... ... ... ... ३७
इन्दीवरेण नयनं ... ... ... ... ... १०३
इयं गेहे लक्ष्मीरियममृतं ... उत्तरचरिते ... ... ... ६७
इयं सा लोलाक्षी त्रिभु ... ... ... ... ... ९१
उचितः प्रणयो वरं विहन्तुं ... [ मालविकाग्निमित्रे ] ... ३९
उच्छ्वसन्मण्डलप्रान्तरेखं ... मम ( धनिकस्य ) ... ... ४३
उज्जृम्भाननमुल्लसत् ... ... मम ( धनिकस्य ) ... ... ७८
उत्कृत्योत्कृत्य कृत्तिं ... ... मालतीमाधवे ... ... १०७
उत्कृत्योत्कृत्य गर्भानपि ... वीरचरिते ... ... ... ८२
उत्तालताडकोत्पातदर्शने ... वीरचरिते ... ... ... ४१
उत्तिष्ठ दूति यामो यामो ... ... ... ... ... ४९
उत्पत्तिर्जमदग्नितः स ... ... वीरचरिते ... ... ... ३५
उत्सङ्गे वा मलिनवसने ... मेघदूते ... ... ... १०५
उद्दामोत्कलिकां विपाण्डुर ... [ रत्नावल्याम् ] ... ... ४
उन्मीलद्वदनेन्दुदीप्ति ... ... ... ... ... ५३
उरसि निहितस्तारो हारः ... अमरुशतके ... ... ... ५०
एकत्रासनसंस्थितिः ... ... अमरुशतके ... ... ... ४६
एकं ध्याननिमीलना ... ... ... ... ... ९१
एकेनाक्ष्णा प्रवितत ... ... [ चन्द्रकस्य ] ... ... ९१
एक्कत्तो रुअइ पिओ ... ... ... ... ... ९१
एतां पश्य पुरःस्थली ... ... ... ... ... ४१
एते वयममी दाराः ... ... [ कुमारसंभवे ] ... ... ४२
एवंवादिनि देवर्षौ ... ... [ कुमारसंभवे ] ... ... ८९
एवमालि निगृहीतसाध्वसं ... कुमारसंभवे ... ... ८१
एष राजेव दुष्यन्तः ... ... ... ... ... ६५
एह्येहि वत्स रघुनन्दन ... वीरचरिते ... ... ... ८८
औत्सुक्येन कृतत्वरा ... ... [ रत्नावल्याम् ] ... ... ६३
५
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
कः समुचिताभिषेकादार्यं ... ... ... ... ८८
कण्ठे कुलावशेषं कनक ... रत्नावल्याम् ... ... ६१
कपोले जानक्याः करि ... [ हनुमन्नाटके ] ... ... ४१
कर्णदुःशासनवधात् ... ... वेणीसंहारे ... ... ... २२
कर्णार्पितो रोध्रकषाय ... ... कुमारसंभवे ... ... ५४
कर्ता द्यूतच्छलानां जतुमय ... वेणीसंहारे ... ... ६६
कस्त्वं भोः कथयामि ... ... ... ... ... ... ७९
का त्वं शुभे कस्य ... ... रघौ ... ... ... ३५
कान्ते तल्पमुपागते ... ... [ अमरुशतके ] ... ... ४५
का श्लाघ्या गुणिनां ... ... पाण्डवानन्दे ... ... ६५
किं लोभेन विलङ्घितः ... ... ... ... ... ८८
किं गतेन न हि युक्त ... ... [ किरातार्जुनीये ] ... १०४
किं धरणीए मिअंको ... ... रत्नावल्याम् ... ... २४
किमपि किमपि मन्दं ... ... उत्तररामचरिते ... ... १०५
कुलबालिआए पेच्छह ... ... ... ... ... ४३
कृतगुरुमहदादिक्षोभ ... ... वेणीसंहारे ... ... ३०
कृतेऽप्याज्ञाभङ्गे कथमिव ... मम ( धनिकस्य ) ... ... १०४
कृशाश्वान्तेवासी जयति ... वीरचरिते ... ... ३२
कृष्टा केशेषु भार्या ... ... वेणीसंहारे ... ... २५
केलीगोत्तक्खलणे ... ... ... ... ... १०३
कैलासोद्धारसार ... ... [ वीरचरिते ] ... ... ३८
कोपात्कोमललोलबाहू ... ... अमरुशतके ... ... ४६
कोऽपि सिंहासनस्थः ... ... छलितरामे ... ... ६६
कोपो यत्र भ्रुकुटिरचना ... [ अमरुशतके ] ... ... ४६
क्रोधान्धैर्यस्य मोक्षात्क्षत ... वेणीसंहारे ... ... ३०
क्वचित्ताम्बूलाक्तः क्वचिद ... [ अमरुशतके ] ... ... ४६
क्षिप्तो हस्तावलग्नः प्रसभ ... अमरुशतके ... ... ८८
खर्वग्रन्थिविमुक्तसंधि ... ... ... ... ... १०६
गमनमलसं शून्या ... ... मालतीमाधवे ... ... ५८
चक्षुर्लक्ष्मणीकरणं ... ... ... ... ... ९९
चञ्चद्भुजभ्रमितचण्डगदा ... वेणीसंहारे ... ... ९,२७
चलति कथंचित्पृष्ठा ... ... मम ( धनिकस्य ) ... ... ८६
चाणक्यनाम्ना तेनाथ ... ... बृहत्कथायाम् ... ... ३४
चित्रवर्तिन्यपि नृपे ... ... पद्मगुप्तस्य ... ... ५५
द० १३
६
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
चिररतिपरिखेदप्रास ... ... माघे ... ... ... ... ८५
चूर्णिताशेषकौरव्यः ... ... वेणीसंहारे ... ... ... २६
जगति जयिनस्ते ते ... ... मालतीमाधवे ... ... ९९
जं किं पि पेच्छमाणं ... ... मम ( धनिकस्य ) ... ... ५२
जन्मेन्दोरमले कुले ... ... वेणीसंहारे ... ... ... २३
जातं मे परुषेण भस्स ... ... ... ... ... ... १०८
जीयन्ते जयिनोऽसान्द्र ... ... उदात्तराघवे ... ... ६०
ज्ञातिप्रीतिर्मनसि न कृता ... ... वेणीसंहारे ... ... २३
ज्वलतु गगने रात्रौ रात्रा ... ... मालतीमाधवे ... ... ५४
णेउरकोडिविलग्गं ... ... [ गाथासप्तशत्याम् ] ... १०४
तं वीक्ष्य वेपथुमती ... ... कुमारसंभवे ... ... १०१
तं चिअ वअणं ते चेअ ... ... मम ( धनिकस्य ) ... ... ५२
तत उदयगिरेरिवैक ... ... मालतीमाधवे ... ... ३७
ततश्चाभिज्ञाय स्फुरद ... ... अमरुशतके (?) ... ... ८९
तथा व्रीडाविधेयापि ... ... मम ( धनिकस्य ) ... ... ५३
तदवितथमवादीर्धन्मम ... ... [ माघे ] ... ... ... ५८
तनुत्राणं तनुत्राणं शस्त्रं ... ... ... ... ... ... ८७
तवास्मि गीतरागेण ... ... शाकुन्तले ... ... ... ६३
तह झत्ति से पअत्ता ... ... मम ( धनिकस्य ) ... ... ५२
तह दिट्ठं तह भणिअं ... ... मम ( धनिकस्य ) ... ... ५४
तां प्राङ्मुखीं तत्र निवेश्य ... ... कुमारसंभवे ... ... ५२
ताव चिअ वइसमए ... ... [ गाथासप्तशत्याम् ] ... ४४
तावन्तस्ते महात्मानो ... ... उदात्तराघवे ... ... ८१
तिष्ठन्भाति पितुः पुरो... ... [ नागानन्दे ] ... ... ३७,३८
तीर्णे भीष्ममहोदधौ ... ... वेणीसंहारे ... ... २१
तीव्रः स्मरसंतपो न ... ... रत्नावल्याम् ... ... १७
तीव्राभिषङ्गप्रभवेन ... ... कुमारसंभवे ... ... ८६
तेनोदितं वदति याति ... ... ... ... ... ... ५४
त्यक्तोत्थितः सरभसं ... ... वेणीसंहारे ... ... २४
त्रय्याम्नाता यस्तवार्यं ... ... वीरचरिते ... ... ३५
त्रस्यन्ती चलशफरी ... ... माघे ... ... ... ८२
त्रैलोक्यैश्वर्यलक्ष्मी ... ... वीरचरिते (?) ... ... ३८
त्वं कर्णः शिबिर्मांसं ... ... ... ... ... ... ३५
त्वं जीवितं त्वमसि मे ... ... उत्तरचरिते... ... ... ६७
त्वं ब्रह्मवर्चसधरो ... ... वीरचरिते ... ... १०८
७
श्लोकाः । क॒विनाम ग्रन्थनाम वा । पृष्ठे ।
दाक्षिण्यं नाम बिम्बोष्ठि ... मालविकाग्निमित्रे ... ... ५०
दिअहं खु दुक्खिआए ... [ गाथासप्तशत्याम् ] ... ५३
दीर्घाक्षं शरदिन्दुकान्ति ... मालविकाग्निमित्रे ... १००
दुःशासनस्य हृदयक्षतज ... वेणीसंहारे ... ... ११
दुल्हहजणाणुराओ लज्जा ... रत्नावल्याम्... ... १३
दूराद्दवीयो धरणीधराभं ... वीरचरिते ... ... ८०
दृष्टिं हे प्रतिवेशिनि ... ... [ विजकायाः ] ... ... ४७
दृष्टिः सालसतां विभर्ति ... ... ... ४३, ५१
दृष्टिस्तृणीकृतजगत्त्रय ... ... [ उत्तररामचरिते ] ... ४१
दृष्ट्रैकासनसंस्थिते प्रिय ... अमरुशतके ... ... ४७, ५९
देआ पसिअ णिअंतसु ... ... ... ... ५३
देवे वर्षत्यशनपवन ... ... ... ... ८७
देव्या मद्वचनाद्यथाभ्युप ... रत्नावल्याम् ... २६
देशैरन्तरिता शतैश्च ... अमरुशतके... ... १०५
दोर्दण्डाञ्चितचन्द्रशेखर ... ... ... १०९
द्रक्ष्यन्ति न चिरात्सुप्तं ... ... वेणीसंहारे ... ... २५, ६७
द्वैपादन्यस्मादपि ... ... रत्नावल्याम् ... ५, ७, ६३, ६४
धिग्धिक्शक्रजितं ... ... [ हनुमन्नाटके ] ... ७९
धुतायुधो यावदहं ... वेणीसंहारे... ... १९
न खलु वयममुष्य ... ... माघे ... ... ४५
न च मेऽवगच्छति यथा ... [ माघे ] ... ... ५०
न जाने संमुखायाते ... ... [ अमरुशतके ] ... ४५
नन्वेष राक्षसपतेः स्खलितः ... वीरचरिते ... ... ८९
न पण्डिताः साहसिका ... ... ... ... ८६
न मय्ये संस्कारं कुसुम ... ... ... ४४
नवजलधरः संनद्धोऽयं... ... [ विक्रमोर्वश्याम् ] ... ८९
नवनखपदभङ्गं गोप ... ... [ माघे ] ... ... ४९, १०३
नष्टं वर्षसुरैर्मनुष्यगणना ... रत्नावल्याम्... ... ६१, १०९
नान्दीपदानि रतिनाटक ... ... ... ५५
निःश्वासा वदनं दहन्ति ... [ अमरुशतके ] ... ४९
निजपाणिपल्लवतट ... ... [ माघे ] ... ४८
निद्रार्धमीलितदृशो ... ... [ बिल्हणस्य ] ... ८५
निर्मग्नेन मयाम्भसि ... ... रुद्रस्य ... ... १०३
निर्वाणवैरदहनाः प्रशमा ... वेणीसंहारे... ... ६४
नूनं तेनाथ वीरेण ... ... वेणीसंहारे... ... २५
८
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
पक्ष्माग्रग्रथिताश्रुबिन्दु ... ... ... ... ... ८२
पञ्चानां मन्यसेऽस्माकं ... ... वेणीसंहारे ... ... ... २३
पटालग्ने पल्यौ नमयति ... अमरुशतके ... ... ... ८५
पणअकुविआण दोहवि ... [ गाथासप्तशत्याम् ] ... १०२
पत्युः शिरश्चन्द्रकलाम् ... [ कुमारसंभवे ] ... ५७
परिच्युतस्तत्कुचकुम्भ ... रत्नावल्याम् ... ... १४
परिषदियमृषीणामेष ... ... वीरचरिते ... ... ... १५
पशुपतिरपि तान्यहानि ... कुमारसंभवे ... ... ७
पादाङ्गुष्ठेन भूमिं किस ... ... [ अमरुशतके ] ... ... ५६
पित्रोर्विधातुं शुश्रूषां ... ... [ नागानन्दे ] ... ... ३७
पुण्या ब्राह्मणजातिः ... ... [ वीरचरिते ] ... ... ३८,६०
पुरस्तन्व्या गोत्रस्खलन ... अमरुशतके... ... ... ८३
पूर्णन्तां सलिलेन रत्न ... ... वेणीसंहारे ... ... ... ३५
पौलस्त्यपीनभुजसंपदु ... ... ... ... ... ८७
प्रणयकुपितां दृष्ट्वा देवीं { श्रीवाक्पतिराजदेवस्य १०२
{ श्रीमुञ्जस्य ... ... १०३
प्रणयविशदां दृष्टिं वक्त्रे ... रत्नावल्याम् ... ... १७
प्रथमजनिते बाला मन्यौ ... ... ... ... ... ४४
प्रयत्नपरिवोधिता ... ... वेणीसंहारे ... ... ... १९
प्रसीद्यालोके किमपि ... मम ( धनिकस्य ) ... ... ३९
प्रसीदेति ब्रूयामिदमति ... रत्नावल्याम् ... ... १४
प्रहरकमपनीय स्वं ... ... माघे ... ... ... ८५
प्रहरविरतौ मध्ये ... अमरुशतके ... ... १०४
प्राप्ताः श्रियः सकलकाम ... [ भर्तृहरिशतके ] ... ७९
प्राप्ता कथमपि दैवात् ... रत्नावल्याम् ... ... १४
प्राप्य मन्मथरसादति ... ... माघे ... ... ... ८०
प्रायश्चित्तं चरिष्यामि ... ... वीरचरिते ... ... ३६,४२,८३
प्रारब्धां तरुपुत्रकेषु ... ... ... ... ... ८७
प्रारभ्यते न खलु विघ्न ... भर्तृहरिशतके ... ३६
प्रारम्भेऽस्मिन्स्वामिनो ... ... रत्नावल्याम्... ... ... ५,७
बाले नाथ विमुञ्च ... ... अमरुशतके... ... ... ४५
बाह्नोर्बलं न विदितं ... ... हनुमन्नाटके... ... ... ३६
ब्राह्मणातिक्रमत्यागो ... ... वीरचरिते ... ... ३८,८४
ब्रूत नूतनकूष्माण्ड ... ... ... ... ... ४३
भम धम्मिअ वीसद्धो ... ... गाथासप्तशत्याम् ... ... ९४
९
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्ठे ।
भिक्षो मांसनिषेवणं ... समस्योचित पद्यमालिका १०६
भुक्ता हि मया गिरयः ... ... ... ६६
भूमौ क्षिप्त्वा शरीरं ... वेणीसंहारे ... २८
भूयः परिभवक्लान्ति ... वेणीसंहारे ... ९
भूयो भूयः सविधनगरी ... मालतीमाधवे ... १००
भ्रूभङ्गे सहसोद्गता ... [ रत्नावल्याम् ] ... ५३
मखशतपरिपूतं गोत्र ... मृच्छकटिकायाम् ... २४, ३७
मज्जइ पडिण्णा एसा ... रत्नावल्याम् ... २४
मत्तानां कुसुमशरेण ... विक्रमोर्वश्याम् (?) ... ६६
मध्नामि कौरवशतं समरे ... वेणीसंहारे ... ८
मधु द्विरेफः कुसुमैकपात्रे ... कुमारसंभवे ... ५९
मध्याह्नं गमय त्यज श्रम ... ... ... ५७
मनोजातिरनाधीना ... विक्रमोर्वश्याम् ... ६५
मन्थायस्तार्णवाम्भःप्लुत ... वेणीसंहारे ... ५
महु एहि किं णिवालअ ... ... ... ५१
मा गर्वमुद्वह कपोल ... ... ... ४८
मातः कं हृदये निधाय ... ... ... ५५
मात्सर्यमुत्सार्य विचार्य ... [ भर्तृहरिशतके ] ... ९१
मुनिरयमथ वीरस्तादृश ... वीरचरिते ... ८४
मुहुअसामलिहोइ ... ... ... ७९
मुहुरुपहसितामिव ... माघे ... १०४
मृगरूपं परित्यज्य ... उदात्तराघवे ... ८७
मृगशिशुदृशस्तस्यास्तापं ... ... ... ५०
मेदश्छेदकृशोदरं लघु ... शाकुन्तले ... ६९
मैनाकः किमयं रणद्धि ... [ हनुमन्नाटके ] ... ८४
यत्सत्यव्रतभङ्गभीरुमनसा ... वेणीसंहारे ... १०
यदि परगुणा न क्षम्यन्ते ... [ महेन्द्रस्य ] ... ८३
यद्ब्रह्मवादिभिरुपासित ... वीरचरिते ... ३५
यद्यत्प्रयोगविषये ... मालविकाग्निमित्रे ... ३६
यद्विस्मयस्तिमित ... मालतीमाधवे ... ९
यातु यातु किमनेन ... ... ... ४५
यातो विक्रमबाहुरात्म ... रत्नावल्याम् ... ३०
यातोऽस्मि पद्मनयने ... रत्नावल्याम् ... ४
यान्त्या मुहुर्वलितकन्धर ... मालतीमाधवे ... ९, १००
युष्मच्छासनलङ्घना ... वेणीसंहारे ... ८३
१०
श्लोकाः । कविनाम ग्रन्थनाम वा । पृष्टे ।
ये चत्वारो दिनकर ... ... [ महानाटकात् ] ... ... ३६
येनावृत्य मुखानि साम ... ... छलतरामे ... ... ... २२
ये बाह्वो न युधि ... ... ... ... ... ... ७९
योगानन्द्यशःशेषे ... ... बृहत्कथायाम् ... ... ३४
रक्षो नाहं न भूतं रिपु ... ... वेणीसंहारे ... ... ... २६
रण्डा चंडा दिक्खिदा ... कर्पूरमञ्जर्याम् ... ... ६६
रतिक्रीडाद्यूते कथमपि ... ... मम ( धनिकस्य ) ... ... ५५
राज्ञो विपद्बन्धुवियोग ... ... ... ... ... ... ७९
राज्यं निर्जितशत्रु ... ... रत्नावल्याम् ... ... ३६,८१
राम राम नयनाभिराम ... वीरचरिते ... ... ... ३५
रामो मूर्ध्नि निधाय कानन ... उदात्तराघवे ... ... ६३
लक्ष्मीपयोधरोत्सङ्ग ... ... मम ( धनिकस्य ) ... ... १०७
लघूनि तृणकुटीरे ... ... [ कमलायुधस्य ] ... ... ८५
लज्जापज्जत्तपसाहणाइं ... ... ... ... ... ... ४३
लाक्षागृहानलविषान्न ... वेणीसंहारे ... ... ६४,१०८
लाक्षालक्ष्म ललाटपट्ट ... अमरुकशतके ... ... ... ३९
लाक्षां वक्त्रासवं वेत्ति ... ... ... ... ... १०७
लावण्यकान्तिपरिपूरित ... ... ... ... ... ... ९४
लावण्यमन्मथविलास ... मम ( धनिकस्य ) ... ... ४२
लावण्यामृतवर्षिणी ... ... मम ( धनिकस्य ) ... ... १०६
लीनेव प्रतिबिम्बितेव ... ... मालतीमाधवे ... ... ८४
लुलितनयनताराः ... ... माघे ... ... ... ८०
वत्सस्याभववारिधेः ... ... उदात्तराघवे ... ... ८७
वयमिह परितुष्टाः ... ... भर्तृहरिशतके ... ... ८१
बाताहतं वसनमाकुलमुक्तं ... ... ... ... ... ८७
विनिष्कर्षणरणत्कठोर ... ... ... ... ... ९०
विनिश्चेतुं शक्यो न ... ... उत्तररामचरिते ... ... ८६,१०६
विरम विरम वह्ने मुञ्च ... ... रत्नावल्याम् ... ... ८८
विरोधो विश्रान्तः प्रसरति ... उत्तरचरिते ... ... २३
विवृण्वती शैलसुतापि ... ... कुमारसंभवे ... ... ९३
विसृज सुन्दरि संगम ... ... मालविकाग्निमित्रे ... ... ५८
विस्तारी स्तनभार एष ... ... ... ... ... ... ४३
वृद्धास्ते न विचारणी ... ... उत्तरचरिते ... ... .. २३
वृद्धोऽन्धः पतिरेष मञ्चक ... भोजप्रबन्धे ... ... ८२
वेवइ सेअदवदनी ... ... ... ... ... ... ७८
vertical line, and THEN ANOTHER vertical line!
Wait, that is 'ना'!
Wait, why did I think it was 'मा'?
In 'न', the loop connects from the left to the stem. In 'म', the line comes down from the top bar on the left, loops, and goes to the stem.
In L36, does the line come down from the top bar on the left?
YES, it comes down from the top bar, loops, and goes right to the stem!
Wait, does 'म' do that? Yes, 'म' has a left vertical that loops. 'न' does NOT have a full left vertical from the top bar, 'न' has a central downward stroke that curves into a loop.
Wait, in this font, look at 'ना' in:
- L3 'नागानन्दे': the 'न' has a stroke coming from the top bar, curving down into a loop, then going to the stem!
- L8 'निष्ठा': 'न' has a stroke from top bar down to loop!
- L9 'नागानन्दे': same!
- L37 'स्तिमितविकसिताना': look at the very last word in L37: 'विकसिताना'! The 'ना' at the end of L37: look at that 'न'! It looks EXACTLY like the letter in L36!
Wait, look at 'ना' in L37 'विकसिताना': it has a stroke from the top bar, looping at the bottom,