सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 73, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 73

६२ दशरूपकं [ प्रकाशः २
प्रकृतेरागतं प्राकृतम् । प्रकृतिः संस्कृतं तद्भवं तत्समं देशीत्यनेकप्रकारम् ।
शौरसेनी मागधी च स्वशास्त्रनियते ।
पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ ६५ ॥
यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम् ।
कार्यतश्चोत्तमादीनां कार्यों भाषाव्यतिक्रमः ॥ ६६ ॥
स्पष्टार्थमेतत् ।
आमन्त्रणामन्त्रणौचित्येनामन्त्रणमाह—
भगवन्तो वरैर्वाच्या विप्रदेवर्षिलिङ्गिनः ।
विप्रामात्याग्रजाश्चाऽऽर्या नटीसूत्रभृतौ मिथः ॥ ६७ ॥
आर्याविति संबन्धः ।
रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः ।
वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः ॥ ६८ ॥
अपिशब्दात् पूज्येन शिष्यात्मजानुजास्तातेति वाच्याः । सोऽपि तैस्तातेति
सुगृहीतमाना चेति ।
भावोऽनुगेन सूत्री च मार्षेयेतेन सोऽपि च ।
सूत्रधारः पारिपार्श्वकेन भाव इति वक्तव्यः । स च सूत्रिणा मार्ष इति ।
देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः ॥ ६९ ॥
आमन्त्रणीयाः पतिवज्ज्येष्ठमध्याधमैः स्त्रियः ।
विप्रदेवादिस्त्रियो भर्तृवद्देव देवरादिभिर्वाच्याः ।
तत्र स्त्रियं प्रति विशेषः ।
समा हलेति प्रेष्या च हञ्जे वेश्योऽज्जुका तथा ॥ ७० ॥
कुट्टिन्यम्बेत्यनुगतैः पूज्या वा जरती जनैः ।
विदूषकेण भवती राज्ञी चेतीति शब्द्यते ॥ ७१ ॥
पूज्या जरती अम्बेति । स्पष्टमन्यत् ।
चेष्टागुणोदाहृतिसत्त्वभावानशेषतो नेतृदशाविभिन्नान् ।
को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः॥७२॥
दिक्मात्रं दर्शितमित्यर्थः । चेष्टाः=लीलाद्याः, गुणाः=विनयाद्याः, उदाहृतयः=
संस्कृतप्राकृताद्या उक्तयः, सत्त्वं=निर्विकारात्मकं मनः, भावः=सत्त्वस्य प्रथमो
विकारः, तेन हावादयो ह्युपलक्षिताः ॥
इति श्रीविष्णुसूनोधनिकस्य कृतौ दशरूपावलोके
नेतृप्रकाशो नाम द्वितीयः प्रकाशः समाप्तः ।

१ सौरसेनी' इति पाठः. २ 'अर्जका' इति पाठः. ३ 'कुट्टिन्यनुगतैः पूजा अम्बेति
युवतीजनैः' इति पाठः. ४ 'राज्ञा' इति पाठः.