दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
DevanagariHindipublished168 पृष्ठ
पृष्ठ 72, कुल 168 में से
संदर्भ में पढ़ेंपृष्ठ 72
adi... हास्यादीनां भार-
त्यात्मकत्वात् । नीरसस्य च काव्यार्थस्य चाभावात् । तिस्र एवैता अर्थवृत्तयः ।
भारती तु शब्दवृत्तिरामुखसङ्गत्वात्तत्रैव वाच्या ।
वृत्तिनियममाह—
शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ ६२ ॥
देशभेदभिन्नवेषादिस्तु नायकादिव्यापारः प्रवृत्तिरित्याह—
देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः ।
लोकादेवावगम्यैता यथौचित्यं प्रयोजयेत् ॥ ६३ ॥
तत्र पाठ्यं प्रति विशेषः—
पाठ्यं तु संस्कृतं नृणामनीचानां कृतात्मनाम् ।
लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित् ॥ ६४ ॥
क्वचिदिति देवीप्रभृतीनां संबन्धः ।
स्त्रीणां तु प्राकृतं प्रायः शौरसेन्यधमेषु च ।
१ 'अधिगम्य