सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 70, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 70

श्लो० ५१-५५ ] अवलोकसमेतम् । ५९
अथ नर्मगर्भः—
छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अङ्गैः सहास्यनिर्ह्रासैरेभिरेषात्र कैशिकी ॥ ५२ ॥
यथाऽमरुशतके (श्लो० १९)—
'दृष्ट्रैकासनसंस्थिते प्रियतमे पश्चादुपैत्यादरा-
देकस्या नयने विमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'
यथा प्रियदर्शिकायां गर्भाङ्के वत्सराजवेषसुसंगतास्थाने साक्षाद्वत्सराज-
प्रवेशः ।
अथ सात्त्वती—
विशोका सात्त्वती सत्त्वशौर्यत्यागदयार्जवैः ।
संलापोत्थापकावस्यां सङ्घात्यः परिवर्तकः ॥ ५३ ॥
शोकहीनः सत्त्वशौर्यत्यागदयाहर्षादिभावोत्परो नायकव्यापारः=सात्त्वती ।
तदङ्गानि च संलापोत्थापकसङ्घात्यपरिवर्तकाख्यानि ।
तत्र—
संलापको गभीरोक्तिर्नानाभावरैसा मिथः ।
यथा वीरचरिते (पृ० ६८-६९)—'रामः—अयं स यः किल सपरिवार-
क्रार्तिकेयविजयावर्जितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं
प्रसादीकृतः परशुः । परशुरामः—राम राम दाशरथे, स एवायमाचार्यपादानां
प्रियः परशुः,—
शस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतो विजित एव मया कुमारः ।
एतावतापि परिरम्य कृतप्रसादः प्रादादमुं प्रियगुणो भगवान्गुरुर्मे ॥'
(वीर० २।३४)
इत्यादिनानाप्रकारभावरसेन रामपरशुरामयोरन्योन्यगम्भीरवचसा संलाप इति ।
अथोत्थापकः—
उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत् परम् ॥ ५४ ॥
यथा वीरचरिते (५।४९)—
'आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा
वैतृष्ण्यं नु कुतोऽद्य संप्रति मम त्वद्दर्शने चक्षुषः ।
त्वत्सांगल्यसुखस्य नास्मि विषयः किं वा बहुव्याहृतै-
रस्मिन्विश्रुतजामदग्न्यविजये बाहौ धनुर्जृम्भताम् ॥'
अथ सङ्घात्यः—
मन्त्रार्थदैवशक्त्यादेः सङ्घात्यः सङ्गभेदनम् ।
१ 'रसात्मकः' इति पाठः.