सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

६६० बृहत्संहिता
श्लोकांशाः पृष्ठाङ्काः | श्लोकांशाः पृष्ठाङ्काः
श्वेता कण्टकबहुला ९५ | सप्तरात्रोषितैरेतैः ११५
श्वेता गोधार्धनरे पुरुषे ७६ | सप्तर्षीणां मतं यच्च ३७८
श्वेता दिश्यपरस्यां १६१ | सप्ताष्टावध्यर्द्धं त्रयस्त्रयः ५२८
श्वेतो विश्वम्भरकः ८० | सप्ताहं गोमूत्रे हरीतकी ३२३
षड्भिः षड्भिर्हीना ३ | समचतुरस्रो रुचको १५
षड्भिः षड्भिश्चैवं ४ | समवक्षसोऽर्थवन्तः २१३
षड्भिः सितस्य मासै ५२४ | समुद्रवद्दक्षिणपार्श्वशायिनः ४६४
षड्भिर्दन्तैः सिताभै १९३ | सम्पाता वंशानां ३८
षड्विंशतिः सहस्राण्येकस्य ३६८ | सम्पूर्णाङ्गो वामनो भग्नपृष्ठः २६०
षण्णवतिभेदभिन्नः ३१८ | सरःसु नलिनीछत्र १२२
षण्णवतिरङ्गुलानां २४९ | सर्जरसरसामलकानि १३५
षष्टिश्चतुश्रुतृभिर्हीना ३ | सर्जरसश्रीवासकसमन्विता ३२२
षष्ठाश्रिताः शनिदिवाकरराहु ५६९ | सर्पावासः पश्चाद्यदा ८३
षष्ठो भृगुः परिभवरोगतापद्ः ५९८ | सर्वः स्पन्दनरचितो ३४२
षोडशकस्य द्विशती ३६० | सर्वदिक्ष्वशुभा दीप्ता ४५१
षोडशके कच्छपुटे ३२१ | सर्वद्रव्याभेद्यं लघ्वम्भसि ३५४
षोडशके द्रव्यगणे ३१७ | सर्वस्य सर्वकालं ३३८
षोडश बाहू मूले १४४ | सर्वे दुर्भिक्षकर्त्तारः ४०१
संयोगमादौ बहुलेषु विन्द्यात् ५०३ | सर्वेषां वृक्षाणामधः ८१
सकरीरा चेद्कदरी ९३ | सर्वोपकारानुगतस्य लोकः ३०१
सकुशः सित ऐशान्यां ८० | सलिलोद्यानयुक्तेषु १२२
सक्षीरार्जुनवञ्जुलकूल ४७८ | सवितृसुतदिने च कारयेन् ६२३
सङ्कीर्णाः स्युर्न नृपा २४९ | सव्येन खे भ्रमद्भिः ४७६
सचिवालयेऽर्थनाशो ५३ | सशर्करा ताम्रमही कषायं १०२
सञ्चिन्तितप्रार्थितनिर्गतेषु ४२० | सस्योपेते क्षेत्रे विरुवति ४८३
सत्त्वमहीनं सूर्यात् २४७ | साचीति यः सोऽतिविरूपदेहः २६२
सदशांशं विप्राणां ७ | साजमोदलवणा हरीतकी ३०६
सद्रव्यो बलवांश्च स्यात् ४०३ | साध्यमनूकं वक्त्राद् २४१
सपलाशा बदरी चेद् ७७ | सामान्यमिदं समासतो १६७
सपलाशा यत्र शमी ९५ | सायं प्रातश्च घर्मर्तौ ११२
पृषतकण्ठशिरा वा १८३ | सायाश्रयमिति पश्चात् ९१
सप्ततिवर्षो मालव्योऽयं २५१ | सारसकूजितमिष्टफलं ४३६
सप्त भवन्ति च सारा २३९ | सारस्वतेन मुनिना १००
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

श्लोकानुक्रमणी ६६१
श्लोकांशाः पृष्ठाङ्काः श्लोकांशाः पृष्ठाङ्काः
सावित्रपौष्णानिलमैत्रतिष्य ५३८ | सूर्यः षट्त्रिदशस्थितस्त्रिदश ५७७
सास्त्राविलरूक्षाक्ष्यो १६८ | सूर्यसुते तृतीयगृहे ६०१
सिंहः सिंहाक्रान्तो १३१ | सूर्यसुतोऽर्कफलसमश्चन्द्रसुत ६१०
सिंहकटिर्मनुजेन्द्रः २०९ | सूर्याग्निभस्मोष्ट्रखरानुवर्णा १०२
सिंहलकपारलौकिक ३५७ | सूर्येन्दुभौमगुरुशुक्रबुधास्तृतीये ५६७
सिंहोऽथ मघा पूर्वा ५६४ | सूर्योदयेऽर्काभिमुखो विरौति ४४२
सितकुसुममत्तवारण ३३९ | सूर्योन्मुखः श्वानलदिक्स्थितश्च ४४२
सितकुसुमाशुचिमांसासने ४८६ | सेनापतिनृपतीनां ९
सितरक्तपीतकृष्णा ५६ | सोमस्तासामदाच्छौचं २९२
सितवर्णः पिङ्गाक्षः १७३ | सौगन्धिककुरुविन्द ३६७
सितसर्षपाष्टकं ३५३ | सौगन्धिकगोमेदक ३५१
सिद्धार्थमपरयाम्ये २१ | सौभाग्यं विजयमथोन्नतिं च ५८९
सीमागता वन्यमृगा रुवन्तः ४५६ | सौम्या तु हस्तमात्रा १५१
सुखमिच्छन् ब्रह्मणं ४१ | सौरारजीवबुधराहुरवीन्दुशुक्राः ५६९
सुतधनपरिहीणः पञ्चमस्थे ६०२ | सौरोऽर्करश्मियोगात् ६१२
सुतपीडा रिपुवृद्धिर्न ४४ | सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः ६१५
सुप्तां सगीतनृत्यैः १६५ | स्कन्धाच्च्युते शिरोरुक् ६१
सुभगा भवन्त्यनुद्वद्ध २१२ | स्कन्धावारादीनां ४८७
सुभगो विद्याप्तधनो ५५८ | स्कन्धासनांसज्वलनं जयाय ४६१
सुभ्रूकेशो रक्तश्यामः २५८ | स्खलितगतिरकस्मात् ४७१
सुरगुरुदिवसे कनकं रजतं ६२१ | स्तनवदवलम्बते यः १८२
सुरदारुचन्दनशमी १५७ | स्तनौ सरोमौ मलिनोल्बणौ २७५
सुरपतिहुतवहयमनिर्र्ऋत्ति ४०६ | स्तम्भं विभज्य नवधा १५
सुरपितृपिशाचराक्षस १५८ | स्तम्भकुसूलार्चानां ५२५
सुरभूषणं लतानाम् ३६५ | स्तम्भसमं बाहुल्यं १६
सुरसं जलमादौ दक्षिणा ९२ | स्त्रियः पवित्रमतुलं २९३
सुषिरोऽथवा विवर्णे ३४६ | स्त्रीणां गुणा यौवनरूपवेष ३३२
सुस्निग्धपत्रपल्लव ४८४ | स्त्रीणां विकल्पा बृहती कुमारी ४०८
सुहृद्युतिश्च मित्रभे २७८ | स्त्रीदोषाः सुतमरणं ४२
सूकरनयनं विषमं ३४७ | स्त्रीमुखमनपत्यानां २२३
सूकरिकमाषपर्णी ९६ | स्त्रीरत्नभोगोऽस्ति नरस्य २९५
सूत्रच्छेदे मृत्युः कीले ६१ | स्त्रीरूपे धननाशो ३४४
सूत्रे प्रसार्यमाणे ६० | स्त्रीरूपेऽश्वविनाशो ४६८
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

६६२ | बृहत्संहिता

श्लोकांशाःपृष्ठाङ्काःश्लोकांशाःपृष्ठाङ्काः
स्त्रीसंज्ञा भासभषक३९२स्रोतस्तडागभेदैकपुत्रकः४२६
स्थलसलिलचराणां४९२स्वकाले गिरितोयस्थाः३८५
स्थानकल्प्यधनहा दशर्क्षग-५९५स्वजनविभवजीवितक्षयं३५५
स्थानभ्रंशात् कार्यविधाताच्च५९२स्वल्पं पयः स्रवति५६८
स्थानेऽष्टमे गुरुबुधौ५७०स्वल्पवक्त्ररुहमत्कुणषण्ढान्१९८
स्थापकदैवज्ञद्विजसभ्यस्थपतीन्१६५स्वैरङ्गुलप्रमाणैर्द्वादश१३८
स्थिरप्रदेशोपलमन्दिरेषु४९६हंसकारण्डवक्रौञ्च१२२
स्थूलशकृन्मणिभृङ्गः१७०हनुलोचनबाहुनासिकाः२३३
स्थूलाभिर्धनरहिता२१६हयनरभुजगोष्ट्रद्वीपिसिंहर्क्ष४२५
स्थूलास्थिरस्थिसारो२४०हरितमणिमहीसुगन्धीनि६१९
स्नातामभुक्तवस्त्रां१६४हरिणाक्षा मण्डललोचनाश्च२२६
स्निग्धः प्रभानुलेपी३६७हरीतकीशङ्खनद्रवाम्बुभिः३१३
स्निग्धतरूणां याम्ये९८हर्म्यपृष्ठमुडुनाथरश्मयः३०३
स्निग्धत्वक्का धनिनो२३९हर्म्यप्रासादमङ्गल्य३८५
स्निग्धद्विजत्वङ्नखरोम२३६हलमुशलगदासिशङ्खचक्र२५३
स्निग्धद्विजस्य सन्दर्शनं४११हसितं शुभदमकम्पं२२९
स्निग्धाः प्रलम्बशाखा८६हस्तचतुष्के मध्यात्९४
स्निग्धा निम्ना रेखा२१८हस्तत्रयं मृगशिराः श्रवणत्रयं५३५
स्निधा यतः पादपगुल्मवल्ल्यो१००हस्तद्वात्रिंशादिषु चतुश्चतु९०
स्निग्धा सिताच्छहरिता नयना२३६हस्ताङ्गुलयो दीर्घाश्चिरायुषा२१६
स्निग्धोन्नताग्रतनुताम्रनखौ२६४हस्तायतं तद्द्विगुणं गभीरं११७
स्नेहं मनोभवकृतं कथयन्ति३२७हस्तो मघानुराधा१०८
स्नेहः पञ्चसु लक्ष्यो२४०हस्तो मूलं श्रवणा५३८
स्नेहो मृदुत्वं बहुवालता२८४हस्त्यारोहभयं स्याद्४२३
स्पृक्कात्वक्तगराणां३२०हारीतस्य तु शब्दो४२९
स्पृष्ट्वाऽथवालोक्य धुनोति गात्रं३२९हुंहुंगुग्लुगिति प्रियमभिलषन्४३५
स्फटिकरजतवर्णो नीलराजी१८०हृदयं समुन्नतं पृथु२१३
स्फुटवाग्व्यसनी रिपुहा५६१हौतभुजं सविशाखं मृदुतीक्ष्णं५३४
स्रग्गन्धधूपाम्बरभूषणाद्यं३१०ह्रस्वयातिनिःस्वता२७३

वस्तुनिष्ठप्रश्नाः
१. कस्मिन् युगे वास्तुपुरुषोत्पत्तिः?
(अ) कृतयुगे (स) द्वापरे
(ब) त्रेतायाम् (द) कलियुगे
२. विचित्रमपरिचितपुरुषं कैः गृहीतम्?
(अ) असुरैः (स) किन्नरैः
(ब) देवैः (द) मनुजैः
३. तं पुरुषममरगणेन कुत्र न्यस्तम्?
(अ) आकाशे (स) जले
(ब) भूमौ (द) गर्ते
४. तं कथं न्यस्तवन्त अमराः?
(अ) ऊर्ध्वमुखं कृत्वा (स) अधोमुखं कृत्वा
(ब) तीर्यङ्मुखं कृत्वा (द) दक्षिणवक्रमुखं विधाय
५. देवैः विन्यस्तस्य पुरुषस्य किन्नाम कल्पितम्?
(अ) वास्तुपुरुषः (स) असुरः
(ब) दानवः (द) मानवः
६. तं पुरुषं 'वास्तुपुरुष' इति केन समुद्धोषितम्?
(अ) देवैः (स) दानवैः
(ब) मुनिभिः (द) ब्रह्मणा
७. तं पुरुषमधोमुखं विन्यस्य किमकुर्वन् देवगणाः?
(अ) तस्योपरि न्यवसन् (स) तमपूजयन्
(ब) स्वस्थानं कल्पितवन्तः (द) गृहरक्षकं तमकल्पयन्
८. पुरा कृतयुगे ह्यासीन्महद्भूतं समुपस्थितम्।
व्याप्यमानं शरीरेण सकलं भुवनं ततः॥
तद्दृष्ट्वा विस्मयं देवा गताः सेन्द्रा भयावृताः।
ततस्तै क्रोधसन्तप्तैर्गृहीत्वा तमथासुरम्॥
विनिक्षिप्तमधोवक्त्रं स्थितास्तत्रैव ते सुराः।
तमेव वास्तुपुरुषं ब्रह्मा समभिकल्पयेत्॥
इति कस्य वचनम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६४ बृहत्संहिता
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) बृहस्पतेः (द) शौनकस्य
९. वास्तुपुरुषः असुर आसीदिति केनोक्तम्?
(अ) बृहस्पतिना (स) ब्रह्मणा
(ब) देवैः (द) मुनिभिः
१०. महाद्भुतमसुरं विलोक्य सेन्द्राः सुराः कुत्र गताः?
(अ) ब्रह्मलोकम् (स) शिवलोकम्
(ब) विष्णुलोकम् (द) वरुणलोकम्
११. नृपगृहं कतिहस्तपरिमितं विस्तरेण भवेत्?
(अ) अष्टोत्तरशतं हस्तपरिमितं विस्तृतम्
(ब) सार्द्धशतं हस्तपरिमितं विस्तरेण
(स) द्विशतं हस्तपरिमितं विस्तरेण
(द) सपादशतं हस्तपरिमितं विस्तरेण
१२. अष्टोत्तरशतं हस्तपरिमितं विस्तृतं गृहं कीदृशं भवति?
(अ) उत्तमम् (स) अधमम्
(ब) मध्यमम् (द) निकृष्टम्
१३. कियता दैर्घ्येण राजगृहं भवेदुत्तमम्?
(अ) विस्तराद् दैर्घ्यं सपादपरिमितं भवेत्
(ब) विस्तराद् दैर्घ्यं द्विगुणपरिमितं भवेत्
(स) विस्तराद् दैर्घ्यमर्ध परिमितं भवेत्
(द) विस्तराद् सार्द्धं दैर्घ्यं भवेत्
१४. मध्यमं गृहं कति हस्तपरिमितं भवेत्?
(अ) शतहस्तपरिमितम् (स) सपादशतहस्तपरिमितम्
(ब) पादोनशतहस्तपरिमितम् (द) द्विशतहस्तपरिमितम्
१५. तृतीयगृहस्य विस्तारः कति हस्तपरिमितं स्यात्?
(अ) द्विनवतिहस्तपरिमितम् (स) अशीतिहस्तपरिमितम्
(ब) नवतिहस्तपरिमितम् (द) पञ्चनवतिहस्तपरिमितम्
१६. चतुर्थगृहस्य विस्तारः कति हस्तपरिमितं भवेत्?
(अ) चतुरशीतिहस्तपरिमितम् (स) सप्ततिहस्तपरिमितम्
(ब) अशीतिहस्तपरिमितम् (द) नवतिहस्तपरिमितम्
१७. चतुर्थगृहस्य दैर्घ्यं कति हस्तपरिमितं भवेत्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६५
(अ) पञ्चदशाधिकशतम् (स) सार्द्धशतम्
(ब) सपादशतम् (द) पादोनद्विशतम्
१८. अष्टोत्तरं हस्तशतं विस्तारान्नृपमन्दिरम् ।
कार्यं प्रधानमन्यानि तथाष्टाष्टोनितानि तु ॥
विस्तारं पादसंयुक्तं दैर्घ्यं तेषां प्रकल्पयेत् ।
एवं पञ्च नृपः कुर्याद् गृहाणाञ्च पृथक्पृथक् ॥
इति केनोक्तम्?
(अ) कश्यपेन (स) शौनकेन
(ब) वसिष्ठेन (द) नारदेन
१९. पञ्चमं गृहं कति हस्तविस्तृतं भवेत्?
(अ) षट्सप्ततिहस्तपरिमितम् (स) षष्टिहस्तपरिमितम्
(ब) सप्ततिहस्तपरिमितम् (द) अशीतिहस्तपरिमितम्
२०. सेनापतेः प्रथमगृहस्य विस्तारः कति हस्तपरिमितः भवेत्?
(अ) चतुःषष्टिहस्तपरिमितम् (स) पञ्चषष्टिहस्तपरिमितम्
(ब) पञ्चाशद्धस्तपरिमितम् (द) पञ्चपञ्चाशद्धस्तपरिमितम्
२१. सेनापतेः प्रथमगृहस्य दैर्घ्यं कियद्धस्तपरिमितं भवेत्?
(अ) षोडशाङ्गुलोत्तरं चतुःसप्ततिहस्तपरिमितम्
(ब) पञ्चदशाङ्गुलाधिकं सप्ततिहस्तपरिमितम्
(स) पञ्चाङ्गुलोत्तरं पञ्चाशद्धस्तपरिमितम्
(ब) सप्तदशाङ्गुलोत्तरं द्विसप्ततिहस्तपरिमितम्
२२. सेनापतेः द्वितीयगृहस्य विस्तारः कति हस्तपरिमितः स्यात्?
(अ) अष्टपञ्चाशद्धस्तपरिमितः (स) चत्वारिंशद्धस्तपरिमितः
(ब) पञ्चपञ्चाशद्धस्तपरिमितः (द) पञ्चचत्वारिंशद्धस्तपरिमितः
२३. सेनापतेः तृतीयगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) द्विपञ्चाशद्धस्तपरिमितः (स) अष्टाचत्वारिंशद्धस्तपरिमितः
(ब) पञ्चाशद्धस्तपरिमितः (द) सप्तचत्वारिंशद्धस्तपरिमितः
२४. सेनापतेः चतुर्थगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) षट्चत्वारिंशद्धस्तपरिमितः (स) पञ्चचत्वारिंशद्धस्तपरिमितः
(ब) चत्वारिंशद्धस्तपरिमितः (द) चतुश्चत्वारिंशद्धस्तपरिमितः
२५. सेनापतेः पञ्चमगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) चत्वारिंशद्धस्तपरिमित (स) पञ्चचत्वारिंशद्धस्तपरिमितः
(ब) द्विचत्वारिंशद्धस्तपरिमितः (द) अष्टाचत्वारिंशद्धस्तपरिमितः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६६ बृहत्संहिता
२६. सचिवगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) षष्टिहस्तपरिमितः (स) पञ्चपञ्चाशद्धस्तपरिमितः
(ब) द्विषष्टिहस्तपरिमितः (द) सप्तपञ्चाशद्धस्तपरिमितः
२७. सचिवस्य प्रथमगृहस्य दैर्घ्यं कति हस्तपरिमितं भवेत्?
(अ) द्वादशाङ्गुलोत्तरं षट्षष्टिहस्तपरिमितम्
(ब) पञ्चषष्टिहस्तपरिमितम्
(स) द्विषष्टिहस्तपरिमितम्
(द) एकषष्टिहस्तपरिमितम्
२८. सचिवस्य द्वितीयगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) षट्पञ्चाशद्धस्तपरिमितः (स) द्विपञ्चाशद्धस्तपरिमितः
(ब) पञ्चपञ्चाशद्धस्तपरिमितः (द) पञ्चाशद्धस्तपरिमितः
२९. सचिवस्य तृतीयगृहस्य विस्तारो भवेत्?
(अ) द्विपञ्चाशद्धस्तपरिमितः (स) पञ्चपञ्चाशद्धस्तपरिमितः
(ब) पञ्चाशद्धस्तपरिमितः (द) एकपञ्चाशद्धस्तपरिमितः
३०. सचिवस्य चतुर्थगृहस्य विस्तारो भवेत्?
(अ) अष्टाचत्वारिंशद्धस्तपरिमितः (स) अष्टात्रिंशद्धस्तपरिमितः
(ब) चत्वारिंशद्धस्तपरिमितः (द) एकचत्वारिंशद्धस्तपरिमितः
३१. सचिवस्य पञ्चमगृहस्य विस्तारो भवेत्—
(अ) द्वाविंशतिहस्तपरिमितः (स) चतुर्विंशतिहस्तपरिमितः
(ब) त्रयोविंशतिहस्तपरिमितः (द) पञ्चविंशतिहस्तपरिमितः
३२. युवराजस्य कति गृहाणि भवेयुः?
(अ) त्रीणि गृहाणि (स) पञ्च गृहाणि
(ब) चत्वारि गृहाणि (द) द्वे गृहे
३३. युवराजस्य प्रथमगृहस्य विस्तारः कति हस्तपरिमितः?
(अ) सप्ततिहस्तपरिमितः (स) अशीतिहस्तपरिमितः
(ब) नवतिहस्तपरिमितः (द) शतं हस्तपरिमितः
३४. राजवैद्यस्य गृहस्य विस्तारो भवेत्—
(अ) चत्वारिंशद्धस्तपरिमितः (स) एकोनचत्वारिंशद्धस्तपरिमितः
(ब) अष्टात्रिंशद्धस्तपरिमितः (द) अष्टाचत्वारिंशद्धस्तपरिमितः
३५. गृहाणामुच्छ्रायः कति हस्तपरिमितः भवेत्?
(अ) विस्तारतुल्यम्भवेत् (स) विस्तारादर्धं भवेत्
(ब) विस्ताराद्विगुणम्भवेत् (द) विस्तारात्किञ्चिन्न्यूनं भवेत्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६७
३६. हस्तद्वात्रिंशता युक्तो विस्तारः स्याद् द्विजालये।
विस्तारं सदशांशं तु दैर्घ्यं तस्य प्रकल्पयेत्॥
त्रयाणां क्षत्रियादीनां मानं यत् पूर्वचोदितम्।
तच्चतुर्भिः करैस्ताश्चर्य ह्रासयेदनुपूर्वशः॥
इति वाक्यं कुतः गृहीतम्?
(अ) किरणाख्यतन्त्रात् (स) मेरुतन्त्रात्
(ब) डामरतन्त्रात् (द) शारदातिलकात्
३७. शतहस्तोच्छ्रितं कार्यं चतुःशालगृहं बुधैः।
अपि तत्त्वेकशालं तु शुभदं तत्प्रकीर्तितम्॥
कस्येदं वाक्यम्?
(अ) गर्गस्य (स) वसिष्ठस्य
(ब) शौनकस्य (द) नारदस्य
३८. यः शालायास्तृतीयांशस्तेन कार्या तु वीथिका।
यद्यग्रतो भवेद्वीथी सोष्णीषं नाम तद् गृहम्॥
पश्चात्सायाश्रयं नाम सावष्टम्भन्तु पार्श्वयोः।
समन्ताद्यदि जाता सा तदा सुस्थितमुच्यते॥
इति कुतः गृहीतम्?
(अ) किरणाख्यतन्त्रतः (स) रुद्रयामलतः
(ब) डामरतन्त्रतः (द) शारदातिलकतः
३९. यस्य गृहस्य वीथिका पूर्वस्यां दिशि तद् गृहस्य किन्नाम?
(अ) सोष्णीषम् (स) सायाश्रयम्
(ब) सावष्टम्भम् (द) सुस्थितम्
४०. कीदृग्गृहस्य नाम सुस्थितम्?
(अ) यस्योत्तरस्यां दिशि वीथिका (स) यस्य प्रतीच्यां दिशि वीथिका
(ब) यस्य पूर्वस्यां दिशि वीथिका (द) यस्याग्नेयकोणे वीथिका
४१. विस्तारषोडशांशेन गृहभित्तिं प्रकल्पयेत्।
हीनाधिका न कर्तव्या गृहभर्तुर्न शोभना॥
इति कस्योक्तिः?
(अ) व्यासस्य (स) कश्यपस्य
(ब) शौनकस्य (द) गर्गस्य
४२. पक्वेष्टानाामयं व्यासो दारुजानां यथेच्छया।
द्विजादेव गृहं कार्यं तत्स्याच्छुभ्रं स्वदिग्गतम्॥
नवत्रयोदशाशश्चैव करैर्ज्ञात्वा प्रकल्पयेत्॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

६६८ बृहत्संहिता
कुत्रास्ति वचनमिदम्?
(अ) किरणाख्यतन्त्रे (स) रुद्रयामले
(ब) शारदातिलके (द) तन्त्रालोके
४३. 'उदुम्बर' शब्दस्य कोऽर्थः?
(अ) देववृक्षविशेषः (स) शुक्रग्रहस्य समित्
(ब) देहली (द) काष्ठविशेषः
४४. कतिविधा स्तम्भाः भवन्ति?
(अ) पञ्चविधाः (स) त्रिविधाः
(ब) चतुर्विधाः (द) सप्तविधाः
४५. वेदास्त्रो रुचकः स्तम्भो वज्रोष्टास्रियुतो मतः।
द्विवज्रः षोडशास्रिः स्याद्विगुणास्रिः प्रलीनकः।
समन्तवृत्तो वृत्ताख्यः स्तम्भः प्रोक्तो द्विजोत्तमैः॥
कुतः गृहीतं वाक्यमिदम्?
(अ) रुद्रयामलतन्त्रात् (स) शारदातिलकात्
(ब) किरणाख्यतन्त्रात् (द) डामरतन्त्रात्
४६. विभज्य नवधा स्तम्भं कुर्यादुद्वहनं घटम्।
कमलं चोत्तरोष्ठं तु भागे भागे प्रकल्पयेत्॥
कस्मिन् ग्रन्थेऽस्तीदम्?
(अ) किरणाख्यतन्त्रे (स) डामरतन्त्रे
(ब) रुद्रयामलतन्त्रे (द) शारदातिलकग्रन्थे
४७. स्तम्भस्य कति भागाः?
(अ) नव भागाः (स) सप्त भागाः
(ब) अष्टौ भागाः (द) पञ्च भागाः
४८. किन्नाम सर्वतोभद्रवास्तु?
(अ) यस्य चतुर्दिक्ष्वलिन्दः (स) यस्य पूर्वस्यां दिश्यलिन्दः
(ब) यस्य त्रिदिक्ष्वलिन्दः (द) यस्य दक्षिणस्यां दिश्यलिन्दः
४९. अलिन्दानां व्यवच्छेदो नास्ति यत्र समन्ततः।
तद्वास्तु सर्वतोभद्रं चतुर्द्वारसमायुतम्॥
इति कस्य कथनम्?
(अ) गर्गस्य (स) शौनकस्य
(ब) वसिष्ठस्य (द) नारदस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६९
५०. प्रदक्षिणां गतैः सर्वैः शालाभित्तेरलिन्दकैः ।
विना परेण द्वारेण नन्द्यावर्तमिति स्मृतम् ॥
इति कस्य वाक्यम्?
(अ) शौनकस्य (स) नारदस्य
(ब) वसिष्ठस्य (द) गर्गस्य
५१. कतिधा वास्तु भवति?
(अ) पञ्चधा (स) चतुर्धा
(ब) द्विधा (द) त्रिधा
५२. द्वारालिन्दोऽन्तगस्तेषां ये त्रयो दक्षिणाङ्गताः ।
विहाय दक्षिणं द्वारं वर्धमानमिति स्मृतम् ॥
कस्येदं वाक्यम्?
(अ) गर्गस्य (स) शौनकस्य
(ब) कश्यपस्य (द) वसिष्ठस्य
५३. पश्चिमोऽन्तगतोऽलिन्दः प्रागन्तौ द्वौ तदुत्थितौ ।
अन्यस्तन्मध्यविवृतः प्राग्द्वारं स्वस्तिकं शुभम् ॥
कस्य वाक्यमिदम्?
(अ) गर्गस्य (स) कश्यपस्य
(ब) शौनकस्य (द) नारदस्य
५४. प्राक्पश्चिमावालिन्दौ यावन्तगौ तद्भवौ परौ ।
सौम्यं द्वारं विना यत्स्याद्रुचकाख्यं तु तत्स्मृतम् ॥
कस्योक्तिरियम्?
(अ) गर्गस्य (स) शौनकस्य
(ब) वसिष्ठस्य (द) नारदस्य
५५. शस्तं हिरण्यनाभाख्यं हीनं चोत्तरशालया ।
सुक्षेत्रं पूर्वतो हीनं शालया वृद्धिदं मतम् ॥
चुल्ली दक्षिणया हीनं धनार्थप्राणनाशनम् ।
यत्स्यादपरया हीनं पक्षघ्नं तत्सुतान्तकृत् ॥
इति कस्य मतम्?
(अ) किरणाख्यतन्त्रकारस्य (स) रुद्रयामलतन्त्रकारस्य
(ब) डामरतन्त्रकारस्य (द) शारदातिलकग्रन्थकारस्य
५६. कति कोष्ठस्य वास्तुमण्डलं विधेयम्?
(अ) एकाशीतिकोष्ठस्य (स) नवतिकोष्ठस्य
(ब) सप्ततिकोष्ठस्य (द) चतुरशीतिकोष्ठस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७० बृहत्संहिता
५७. बहिर्गतेषु कोष्ठेषु कतिसङ्ख्याकाः देवताः पूज्यन्ते?
(अ) द्वात्रिंशत्सङ्ख्याकाः (स) पञ्चविंशतिसङ्ख्याकाः
(ब) त्रिंशच्छङ्ख्याकाः (द) द्वाविंशतिसङ्ख्याकाः
५८. एकाशीतिपदात्मकं मण्डलं कति रेखाभिर्भवति?
(अ) प्रागुदिग्गताभिः दक्षिणोत्तरगताभिः दशरेखाभिः
(ब) प्रागुदिग्गताभिः दक्षिणोत्तरगताभिः पञ्चदशरेखाभिः
(स) प्रागुदिग्गताभिः दक्षिणोत्तरगताभिः अष्टादशरेखाभिः
(ब) प्रागुदिग्गताभिः दक्षिणोत्तरगताभिः दशरेखाभिः
५९. 'तत्र बहिर्देवताः प्राक्पर्जन्यकरग्रहमहेन्द्ररविसत्यभृशान्तरिक्षपवनाः।
दक्षिणतः पूषावितथवृहत्क्षतयमभृङ्गगन्धर्वमृगपितरश्चेति।'—
कस्योक्तिरियम्?
(अ) पराशरस्य (स) शौनकस्य
(ब) व्यासस्य (द) गर्गस्य
६०. वास्तुपुरुषस्य शिरः कस्यां दिशि भवति?
(अ) ईशानकोणे (स) नैर्ऋत्यकोणे
(ब) वायव्यकोणे (द) आग्नेयकोणे
६१. कस्मिन् भागे वास्तुपुरुषस्य मुखम्?
(अ) अधोभागे (स) दक्षिणे भागे
(ब) ऊर्ध्वभागे (द) पश्चिमे भागे
६२. रुद्रा हुताशनश्चैव पिता चानल एव च।
एते कोणगता देवा एकाशीतिपदे स्थिताः॥
चतुःषष्टिपदेऽप्येवं पापयक्ष्मात्र न स्थितः।
एभ्योऽन्ये सदृशा ज्ञेयाः सुराः सर्वपदाश्रिताः॥
इति कस्य वाक्यम्?
(अ) गर्गस्य (स) शौनकस्य
(ब) पराशरस्य (द) व्यासस्य
६३. वास्तुपुरुषस्य शिरसि तिष्ठति?
(अ) शिखि (स) अर्यमा
(ब) इन्द्रः (द) वरुणः
६४. वास्तुपुरुषस्य मुखे कस्तिष्ठति?
(अ) आपः (स) आपवत्सः
(ब) अर्यमा (द) पर्जन्यः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६७१
६५. वास्तुपुरुषस्य कर्णे कस्तिष्ठति?
(अ) जयन्तः (स) सत्यः
(ब) पर्जन्यः (द) भृशः
६६. वास्तुपुरुषस्य उदरे कस्तिष्ठति?
(अ) यमः (स) भृङ्गराजः
(ब) विवस्वान् (द) सत्यः
६७. वास्तुपुरुषस्य वामस्तने कस्तिष्ठति?
(अ) पृथ्वीधरः (स) अदितिः
(ब) दितिः (द) भल्लाटः
६८. वास्तुपुरुषस्य कस्मिन्नङ्गे तिष्ठति भुजगः?
(अ) वक्षसि (स) बाहौ
(ब) ललाटे (द) मूर्ध्र्नि
६९. दक्षिणे भुजे कति देवताः तिष्ठन्ति वास्तुपुरुषस्य?
(अ) पञ्चदेवताः (स) सप्त देवताः
(ब) चत्वारो देवताः (द) अष्टौ देवताः
७०. सोमः वास्तुपुरुषस्य कस्मिन्नङ्गे वसति?
(अ) कन्धे (स) कर्णे
(ब) शिरसि (द) उरसि
७१. पापयक्ष्मा कस्मिन्नङ्गभागे तिष्ठति वास्तुपुरुषस्य?
(अ) बाहौ (स) चरणे
(ब) नेत्रे (द) वक्षसि
७२. वास्तुपुरुषस्य हृदि कस्तिष्ठति?
(अ) ब्रह्मा (स) पर्जन्यः
(ब) अर्यमा (द) इन्द्रः
७३. रुद्रः वास्तुपुरुषस्य कस्मिन्नङ्गभागे विराजते?
(अ) हस्ते (स) उरौ
(ब) पादौ (द) जङ्घे
७४. चतुःषष्ठिकोष्ठात्मके वास्तुमण्डले कति रेखा विधातव्या?
(अ) नव-नवसङ्ख्याका (स) अष्टाऽष्टसङ्ख्याका
(ब) सप्त-सप्तसङ्ख्याका (द) दश-दशसङ्ख्याका
७५. गन्धर्वः वास्तुपुरुषस्य कस्मिन्नङ्गे विराजते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७२ बृहत्संहिता
(अ) जानुनि (स) बाहौ
(ब) शिरसि (द) पादयोः
७६. एकाशीतिपदे क्षेत्रे कर्तव्यं वृत्तपञ्चकम् ।
बाह्ये वृत्तद्वयं यत्तत्पदद्वात्रिंशता युतम् ॥
तृतीयं द्वादशपदं चतुर्थं तु चतुष्पदम् ।
केवलं पञ्चमं कार्यं ब्रह्मा पञ्चस्ववस्थितः ॥
इति कस्य वाक्यम्?
(अ) वराहमिहिरस्य (स) गर्गस्य
(ब) पराशरस्य (द) कश्यपस्य
७७. वास्तुमण्डलं कतिविधं भवति?
(अ) चतुर्विधम् (स) द्विविधम्
(ब) त्रिविधम् (द) एकविधम्
७८. वृत्तानि चत्वारि समानि कृत्वा वास्तोश्चतुःषष्टिपदस्य सम्यक् ।
अधस्तदर्धेन च सूर्यवेदैर्विभज्यते वृत्तचतुष्टयञ्च ॥
इति कस्य वचनम्?
(अ) वराहमिहिरस्य (स) कमलाकरभट्टस्य
(ब) लल्लाचार्यस्य (द) आर्यभट्टस्य
७९. रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् ।
मुख्याद् भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम् ॥
इति कस्य वाक्यम्?
(अ) गर्गस्य (स) कश्यपस्य
(ब) शौनकस्य (द) गौतमस्य
८०. रोगाद्वायुं नयेत्सूत्रं पितृतोऽथ हुताशनम् ।
एतत् सूत्रद्वयं प्रोक्तं मुनिभिर्वंशसंज्ञितम् ॥
इति कस्य वाक्यम्?
(अ) महीधरस्य (स) आर्यभट्टस्य
(ब) वराहमिहिरस्य (द) लल्लाचार्यस्य
८१. काष्ठशल्येन किं भवति?
(अ) धनहानिः (स) रोगभयम्
(ब) पशुपीड़ा (द) शस्त्रभयम्
८२. कस्य शल्येन मृत्युभयं जायते?
(अ) केशशल्येन (स) काष्ठशल्येन
(ब) लौहशल्येन (द) अस्थिशल्येन
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६७३
८३. केन शल्येन चौरभयं जायते?
(अ) लौहशल्येन (स) अङ्गारशल्येन
(ब) अश्मशल्येन (द) काष्ठशल्येन
८४. कति वंशसूत्राणि वास्तुमण्डलस्थदेवतान्?
(अ) षडङ्गानि (स) सप्ताङ्गानि
(ब) पञ्चाङ्गानि (द) चत्वार्यङ्गानि
८५. षट्सूत्रेषु कियन्ति परस्परसम्पातस्थानानि?
(अ) अष्टौ (स) दश
(ब) नव (द) सप्त
८६. एकपदे कतमांशतुल्यं मर्मस्थानं भवति?
(अ) पञ्चमांशतुल्यम् (स) अष्टमांशतुल्यम्
(ब) षष्ठमांशतुल्यम् (द) दशमांशतुल्यम्
८७. पूर्वककथितानां केषां वंशसंज्ञा?
(अ) षट्सूत्राणाम् (स) चतुःसूत्राणाम्
(ब) पञ्चसूत्राणाम् (द) सप्तसूत्राणाम्
८८. दक्षिणभुजाविकलः वास्तु किं करोति?
(अ) धननाशं करोति (स) स्त्रीदोषं जनयति
(ब) रोगभयं करोति (द) दास्यं करोति
८९. पुत्रमरणं कीदृग्वास्तुः करोति?
(अ) चरणहीनम् (स) नेत्रहीनम्
(ब) भुजाहीनम् (द) कर्णहीनम्
९०. सर्वाङ्गपूर्णवास्तु किं ददाति गृहस्वामिनम्?
(अ) धनधान्यं सुखं ददाति (स) मानं ददाति
(ब) ऐश्वर्यं ददाति (द) सर्वसौख्यं ददाति
९१. ब्राह्मणः निवासस्थानं कस्यां दिशि रचयेत्?
(अ) उत्तरस्यां दिशि (स) पूर्वस्यां दिशि
(ब) पश्चिमस्यां दिशि (द) दक्षिणस्यां दिशि
९२. पूर्वस्यां दिशि कः निवासस्थानं रचयेत्?
(अ) वैश्यः (स) शूद्रः
(ब) ब्राह्मणः (द) क्षत्रियः
९३. शिख्याद्यात्समारभ्य अष्टौ देवता कस्यां दिशि?
बृ० भ० द्वि०-४३
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७४ बृहत्संहिता
(अ) पूर्वस्याम् (स) उत्तरस्याम्
(ब) दक्षिणस्याम् (द) पश्चिमायाम्
९४. पूर्वस्यां दिशि कियन्तः सन्ति देवताः?
(अ) अष्टौ (स) दश
(ब) नव (द) एकादश
९५. अष्टासु देवासु कस्योपरि कृते द्वारे शुभं भवति?
(अ) इन्द्रस्योपरि (स) पर्जन्यस्योपरि
(ब) अन्तरिक्षस्योपरि (द) सूर्यस्योपरि
९६. अल्पसुतत्वं कस्यां दिशि गतस्य द्वारफलम्?
(अ) दक्षिणस्यां दिशि (स) उत्तरस्यां दिशि
(ब) पूर्वस्यां दिशि (द) पश्चिमायां दिशि
९७. रिपुवृद्धिः कस्यां दिशि गतस्य द्वारस्य फलम्?
(अ) पश्चिमायां दिशि (स) उत्तरस्यां दिशि
(ब) पितुरुपरि (द) दक्षिणस्यां दिशि
९८. स्तम्भतरुभ्रमकोणैर्विद्धं वेधश्च न शुभकरद्वारम्।
वेधोच्छायाद् द्विगुणां भूमिं त्यक्त्वा न दोषाय॥
इति कस्य वाक्यम्?
(अ) समाससंहिताकारस्य (स) गर्गसंहिताकारस्य
(ब) बृहत्संहिताकारस्य (द) सनत्कुमारसंहिताकारस्य
९९. द्वारोच्छ्रायद्विगुणितां त्यक्त्वाभूमिं बहिःस्थितः।
न दोषाय भवेद्वेधो गृहस्य गृहिणोऽथ वा॥
इति कस्य वचनम्?
(अ) गर्गस्य (स) पराशरस्य
(ब) कश्यपस्य (द) वसिष्ठस्य
१००. केन वेधेन गृहस्वामिनो मृत्युर्भवति?
(अ) मार्गेण (स) पङ्केन
(ब) वृक्षेण (द) कूपेन
१०१. कूपेन विद्धं द्वारं किं करोति?
(अ) अपस्मारं रचयति (स) चौरभयं करोति
(ब) शोकं करोति (द) राजभयं करोति
१०२. पृच्छाकाले गृहस्वामी यदङ्गं स्पृशति स्वकम्।
भुवो हस्तप्रमाणेन शल्यं ब्रूयात्तदङ्गजम्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७५
कुत्र लिखितमस्ति पद्यमिदम्?
(अ) समाससंहितायाम् (स) गर्गसंहितायाम्
(ब) बृहत्संहितायाम् (द) आगमान्तरे
१०३. प्रश्नकाले गृहपतिः कस्मिन्नङ्गे समास्थितः ।
किमङ्गं संस्पृशेद्वापि व्याहरेद्वा शुभाशुभम् ॥
कस्य वाक्यमिदम्?
(अ) कश्यपस्य (स) शौनकस्य
(ब) वसिष्ठस्य (द) गर्गस्य
१०४. प्रथमं कुत्र पूजां विधाय शिलान्यासं कुर्यात्?
(अ) पूर्वे (स) पश्चिमायां
(ब) उत्तरे (द) ईशानकोणे
१०५. स्निग्धादिभूभागसमुत्थितानां न्यग्रोधबिल्वद्रुमखादिराणाम् ।
शमीवटोदुम्बरदेवदारुक्षीरिस्वदेशोत्थफलद्रुमाणाम् ॥
उपोषितं शिल्पिजनस्त्वथैषां मध्यात्तु तीक्ष्णेन कुठारकेण ।
मीत्वा ततो दिक्पतिनोत्तरस्यां शुभे च लग्ने परिगृह्य शङ्कुम् ॥
इति कस्य वाक्यम्?
(अ) गर्गस्य (स) वसिष्ठस्य
(ब) शौनकस्य (द) नारदस्य
१०६. प्रागुत्तरे समुन्नतायां वास्तुभूमौ किं भवति?
(अ) धनक्षयः (स) धनसुतक्षयः
(ब) सुतक्षयः (द) बन्धुनाशः
१०७. चतुःशालगृहे देवस्थानं कस्यां दिशि भवेत्?
(अ) पूर्वस्याम् (स) पश्चिमायाम्
(ब) उत्तरस्याम् (द) ईशानकोणे
१०८. पूर्वस्यां श्रीगृहं प्रोक्तमाग्नेय्यां स्यान्महानसम् ।
शयनं दक्षिणायाञ्च नैर्ऋत्यामायुधाश्रयम् ॥
भोजनं पश्चिमायां च वायव्यां धनसञ्चयम् ।
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहम् ॥
कुत्रास्ति वाक्यमिदम्?
(अ) शास्त्रान्तरे (स) बृहत्संहितायाम्
(ब) वसिष्ठसंहितायाम् (द) शारदातिलके
१०९. वास्तोरुत्तरस्यां दिशि सति जलाशये किम्फलम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७६ बृहत्संहिता
(अ) धनवृद्धिः (स) शत्रुवृद्धिः
(ब) सन्तावृद्धिः (द) अग्निभयम्
११०. शय्यानुवंशविन्यस्ता तुला हन्यात् कुटुम्बिनः ।
कर्तुः शय्या स्वतानस्था नागदन्ताः क्षयावहाः ॥
इति कस्य वचनम्?
(अ) शौनकस्य (स) पराशरस्य
(ब) अगस्त्यस्य (द) विश्वकर्मणः
१११. ज्येष्ठस्य कर्मसिद्धयर्थं नव पञ्चगुणाः सुराः ।
यतस्तत्र वसन्त्येते मूर्धाद्यङ्गेषु कृत्स्नशः ॥
वाक्यमिदं कुत्रास्ति?
(अ) वसिष्ठसंहितायाम् (स) भृगुसंहितायाम्
(ब) कुमारसंहितायाम् (द) तन्त्रान्तरे
११२. द्वारदेशे कं देवं स्थापयेत्?
(अ) उमापतिम् (स) धर्मराजम्
(ब) प्रजापतिम् (द) गणेशम्
११३. बलदेवः कुत्र भवेत्?
(अ) दक्षिणस्यां दिशि (स) पश्चिमे दले
(ब) उत्तरे दले (द) पूर्वे दले
११४. बाह्याभ्यन्तरदेवांस्तु वास्तुमध्ये यथास्थिताम् ।
तथा च सर्वान् सम्पूज्य विधिनैव पुरोहितः ॥
इति वाक्यं कुत्राऽस्ति?
(अ) अन्यतन्त्रे (स) रुद्रयामलतन्त्रे
(ब) डामरतन्त्रे (द) शारदातिलके
११५. वेतसः वृक्षस्य कस्यां दिशि जलं लभ्यते?
(अ) पश्चिमायां दिशि (स) दक्षिणस्यां दिशि
(ब) पूर्वस्यां दिशि (द) उत्तरस्यां दिशि
११६. पश्चिमायां दिशि कियन्नीचैः लभ्यते जलम्?
(अ) सार्धपुरुषप्रमाणैर्नीचैः (स) त्रिहस्तनीचैः
(ब) द्विहस्तनीचैः (द) चतुर्हस्तनीचैः
११७. कियदङ्गुलपरिमितं पुरुषप्रमाणम्?
(अ) विंशत्यधिकशताङ्गुलप्रमाणम् (स) सपादशताङ्गुलप्रमाणम्
(ब) सार्द्धशताङ्गुलप्रमाणम् (द) पादोनशताङ्गुलप्रमाणम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७७
११८. निर्जले वेतसं दृष्ट्वा तस्माद् वृक्षादपि त्रयम्।
पश्चिमायां दिशि ज्ञेयमधः सार्धेन वै जलम् ॥
नरोऽत्र षष्टिर्द्विगुणा चाङ्गुलानां प्रकीर्तितः ।
तत्र खात्वाऽर्धपुरुषमेकः पाण्डुरवर्णकः ॥
मृत्पीता पुटभेदश्च पाषाणोऽधस्ततो जलम्।
शिरा पश्चिमदिक्स्थाऽत्र वहतीति विनिर्दिशेत् ॥
इति कस्य वचनम्?
(अ) सारस्वतस्य (स) वसिष्ठस्य
(ब) शौनकस्य (द) गर्गस्य
११९. जम्बूवृक्षस्य कस्यां दिशि भवति जलम्?
(अ) उत्तरस्यां दिशि (स) पश्चिमायां दिशि
(ब) दक्षिणस्यां दिशि (द) पूर्वस्यां दिशि
१२०. वृक्षात् कियद्धस्तपरिमितं दूरं भवति जलस्रोत:?
(अ) त्रिहस्तपरिमितं दूरं (स) चतुर्हस्तपरिमितं दूरम्
(ब) द्विहस्तपरिमितं दूरं (द) पञ्चहस्तपरिमितं दूरम्
१२१. जम्बूवृक्षस्य कस्यां दिशि सति वल्मीके जलं भवति?
(अ) पूर्वस्याम् (स) उत्तरस्याम्
(ब) दक्षिणस्याम् (द) पश्चिमायाम्
१२२. वल्मीकात् कस्यां दिशि कियद् दूरं भवति जलम्?
(अ) वल्मीकात् दक्षिणस्यां दिशि त्रिहस्तपरिमिते दूरे
(ब) वल्मीकात् पूर्वस्यां दिशि द्विहस्तपरिमिते दूरे
(स) वल्मीकात् पश्चिमायामेकहस्तपरिमिते दूरे
(द) वल्मीकाच्चतुर्हस्तपरिमिते दूरे ईशाने
१२३. उदुम्बरवृक्षस्य कस्यां दिशे जलं लभ्यते?
(अ) पश्चिमायां दिशि (स) पूर्वस्यां दिशि
(ब) उत्तरस्यां दिशि (द) दक्षिणस्यां दिशि
१२४. अर्जुनवृक्षस्य कियद् दूरं भवेत् वल्मीक:?
(अ) उत्तरस्यां दिशि त्रिहस्तपरिमितं दूरम्
(ब) पश्चिमायां द्विहस्तपरिमितं दूरम्
(स) पूर्वस्यामेकहस्तपरिमितं दूरम्
(द) ईशानकोणे चतुर्हस्तपरिमितं दूरम्
१२५. निर्गुण्डीवृक्षस्य कस्यां दिशि जलं लभ्यते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७८ बृहत्संहिता
(अ) दक्षिणस्याम् (स) पूर्वस्याम्
(ब) उत्तरस्याम् (द) पश्चिमायाम्
१२६. बदर्या कस्यां दिशि वल्मीको भवेत्तदा जलं लभ्यते?
(अ) पूर्वस्यां दिशि (स) प्रतीच्यां दिशि
(ब) दक्षिणस्यां दिशि (द) उदीच्यां दिशि
१२७. पूर्वभागं बदर्याश्चेद्वल्मीको दृश्यते जलम्।
पश्चाद्धस्तत्रये वाच्यं खाते तु पुरुषत्रये॥
कस्य वाक्यमिदम्?
(अ) सारस्वतस्य (स) वसिष्ठस्य
(ब) शौनकस्य (द) गर्गस्य
१२८. पलाशयुक्ता बदरी यत्र दृश्या ततोऽपरे।
हस्तत्रयादधस्तोयं सपादे पुरुषत्रये॥
नरे तु डुण्डुभः सर्पो निर्विषश्चिह्नमेव च।
अधस्तोयं च सुस्वादु दीर्घकालं प्रवाहितम्॥
इति कस्य वाक्यम्?
(अ) सारस्वतस्य (स) गर्गस्य
(ब) शौनकस्य (द) वसिष्ठस्य
१२९. बिल्वोदुम्बरयोगे कस्यां दिशि जलं भवति?
(अ) दक्षिणस्यां दिशि (स) पश्चिमायां दिशि
(ब) उत्तरस्यां दिशि (द) पूर्वस्यां दिशि
१३०. निर्मले यत्र कम्पिल्लो दृश्यस्तस्मात् करत्रये।
प्राच्यां त्रिभिर्नरैर्वारि सा भवेद्दक्षिणा शिरा॥
अधो नीलोत्पलाभासा मृत्कापोतप्रभा क्रमात्।
हस्तेऽजगन्धको मत्स्यो जलमल्पमशोभनम्॥
इति कस्य वचनम्?
(अ) सारस्वतवचनम् (स) अत्रिवचनम्
(ब) कश्यपवचनम् (द) शौनकवचनम्
१३१. विभीतकस्य याम्यायां वल्मीको यदि दृश्यते।
करद्वयान्तरे पूर्वे सार्धे च पुरुषे जलम्॥
इति वाक्यं कस्य?
(अ) वसिष्ठस्य (स) सारस्वतस्य
(ब) शौनकस्य (द) नारदस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७९
१३२. भुजङ्गगृहसंयुक्तो यत्र स्यात्सप्तपर्णकः।
ततः सौम्ये हस्तमात्रात्पञ्चभिः पुरुषैरधः ॥
वाच्यं जलं नरार्धे तु मण्डूको हरितो भवेत्।
हरितालनिभा भूश्च मेघाभोऽश्मा ततः शिरा ॥
उत्तरा सुजला ज्ञेया दीर्घा मृष्टाम्बुवाहिनी ॥
इति कस्य वाक्यम्?
(अ) शौनकस्य (स) कश्यपस्य
(ब) पराशरस्य (द) सारस्वतस्य
१३३. तरूणां यत्र सर्वेषामधःस्थो दर्दुरो भवेत्।
वृक्षादुदग्दिशि जलं हस्तात् सार्धैर्नरैरधः ॥
चतुर्भिः पुरुषे खाते नकुलो नीलमृत्तिका।
पीतश्वेता ततो भेकसदृशोऽश्मा प्रदृश्यते ॥
इति कस्य वचनम्?
(अ) शौनकस्य (स) गर्गस्य
(ब) गालवस्य (द) सारस्वतस्य
१३४. कस्य वृक्षस्य कस्यां दिशि जलं भवति?
(अ) पश्चिमायाम् (स) पूर्वस्याम्
(ब) उत्तरस्याम् (द) दक्षिणस्याम्
१३५. मधूकवृक्षस्य कस्यां दिशि तोयं भवति?
(अ) पश्चिमायाम् (स) पूर्वस्याम्
(ब) दक्षिणस्याम् (द) उत्तरस्याम्
१३६. तिलकाद्दक्षिणे स्निग्धः कुशदूर्वासमायुतः।
वल्मीकाच्चोत्तरे पञ्चहस्तान् सन्त्यज्य पश्चिमे ॥
नरैः पञ्चभिरम्भोऽधः शिरा पूर्वात्र विद्यते ॥
कस्य वाक्यानीमानि?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) पराशरस्य (द) सारस्वतस्य
१३७. कपित्थस्य कस्यां दिशि तोयं भवति?
(अ) दक्षिणस्याम् (स) उत्तरस्याम्
(ब) पूर्वस्याम् (द) पश्चिमायाम्
१३८. हरिद्रतरोः कस्यां दिशि जलम्?
(अ) पूर्वस्याम् (स) उत्तरस्याम्
(ब) दक्षिणस्याम् (द) पश्चिमायाम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA