सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

XX. 9. XXI. 1.] एकविंशोऽध्यायः 207
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
समाजसंज्ञे सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥९॥
Sloka 9.—The effects of the two Yogas संवर्त and
समागम are indifferent, i. e., neither good, nor bad, सम्मोह
and कोश are dangerous to people. In समाज Yoga, the year
will be very beneficial, while in सन्निपात there will certainly
be the raging of hostilities.
तथा च काश्यपः ।
संवर्तसङ्गमौ मध्यौ सम्मोहो भयदः स्मृतः ।
कोशश्चानिष्टफलदः समाजाख्यः सुमध्यमः ॥
सन्निपाते महावैरमन्योन्यमुपजायते ।
तथा च समाससंहितायाम् ।
संवर्त्तसमागगयोः साम्यं मोहे भयानि कोशे च ।
सुसमा समाजसञ्ज्ञे वैरण्यथ सन्निपाताख्ये ॥
तथा चात्रायं विशेषः समाससंहितायाम् ।
दुर्भिक्षरोगतस्करशस्त्रावृष्टिक्षुधं ग्रहाः कुर्युः ।
आनलवीथ्यां ज्ञेया अजवीथ्यां नेत्रपरिहानिः ॥
शस्त्रभयं मृगवीथ्यां जारद्गव्यां क्षुधं च रोगांश्च ।
पशुनाशं गोवीथ्यामृषभाराव्यायां च नृपपीडा ॥
सुसुभिक्षमिरावत्यां गजवीथ्यां च ऋतूत्सवामोदाः ।
अतिजलमोक्षं कुर्युर्नागाख्यायां च सर्वे तु ॥
ग्रहोदये प्रवासे च सोमसूर्यग्रहे तथा ।
विचार्य वीथीमार्गांश्च लोके ब्रूयाच्छुभाशुभम् ॥
Thus ends the 20th Adhyaya on "the Planetary Triangle."
गर्भलक्षणम् ॥२१॥ Pregnancy of clouds.
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् ।
यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥१॥
Sloka 1.—As food is the elixir of life to living beings,
and as that food is dependent on the monsoon, it should
be investigated carefully.

208 बृहत्संहितायाम् [Adh. XXI. Sl.; 2-5
तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वेदम् ।
क्रियते गर्गपराशरकाश्यपवज्रादिरचितानि ॥२॥
Sloka 2.—Having read the characteristics enunciated
by ancient sages such as Garga, Parasara, Kasyapa and
Vajra, in their works, I am now giving the properties of
the rainy season.
दैवविदविहितचित्तो ह्यनिशं यो गर्भलक्षणे भवति ।
तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे ॥३॥
Sloka 3.—The prediction of an astrologer who day
and night attentively watches the symptoms of the
pregnancy of clouds will come true like that of a sage
when he determines the fall of rain.
किं वातः परमन्यच्छास्त्रज्यायोऽस्ति यद्विदित्वैव ।
प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥४॥
Sloka 4.—Which science is snperior to this astro-
logical science which determines the exact time of rain,
since by knowing this science alone, one gets the power
of visualising the past, present and the future even in
this Kali age which destroys all good things?
केचिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः स्युः ।
न च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥५॥॥
Sloka 5.—Some sages declare that the days of
pregnancy begin after the full-moon of Kartika month;
but that opinion is not shared by the majority. Here
I shall give the opinion of Garga and others.
तथा च सिद्धसेनः ।
शुक्लपक्षमतिक्रम्य कार्त्तिकस्य विचारयेत् ।
गर्भाणां सम्भवं सम्यक् सस्यसम्पत्तिकारकम् ॥

Adh. XXI. Sl. 6-8] एकविंशोऽध्यायः 209
मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
पूर्वा वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥६॥
Sloka 6.—The symptoms of pregnancy are to be
detected when the Moon transits Purvashadha commenc-
ing from the first day of Margasira.
तथा च गर्गः ।
शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाद्यवस्थिते ।
निशाकरे तु गर्भाणां तत्रादौ लक्षणं वदेत् ॥
कश्यपोऽपि
सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा ।
पूर्वाषाढागते चन्द्रे गर्भाणां धारणं भवेत् ॥
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत्स चन्द्रवशात् ।
पञ्चनवते दिनशते तत्रैव प्रसवमायाति ॥७॥
Sloka 7.—The foetus formed during the Moon's
stay in a particular asterism will be born 195 (Solar)
days hence, the Moon standing again in the same
asterism according to the laws of her revolution.
तथा च समाससंहितायाम् ।
पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः ।
सार्द्धैः षड्भिर्मासैर्गर्भविपाकः स नक्षत्रे ॥
सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ।
नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥
Sloka 8.—The foetuses formed in the bright half
of the month will come out in the dark half and vice
versa, those formed in the day time will come out at
night and vice versa and those which are formed at
dawn in the evening and vice versa.
तथा च गर्गः ।
दिवा भवति यो गर्भो रात्रौ स इति पच्यते ।
शुक्लपक्षे समुद्भूतः कृष्णे पक्षे च वर्षति ॥
ब्र. सं. 27

210 बृहत्संहितायाम् [Adh. XXI. Sl. 9-12.
पौर्णमास्यामथोत्पन्नः सामावास्यां प्रवर्षति ।
अमावास्यां समुद्भूतः पूर्णमास्यां प्रवर्षति ॥
पूर्वसन्ध्यासमुद्भूतः पश्चिमायां प्रवर्षति ।
पश्चिमायां समुद्भूतः पूर्वसन्ध्यां प्रवर्षति ॥
पूर्वार्द्धे यः समुद्भूतः पश्चाद्रात्रौ प्रवर्षति ।
निशायां पश्चिमे यश्च स पूर्वाह्ने प्रसूयते ॥
दिनार्द्धे तु समुत्पन्नः स निशार्द्धे प्रसूयते । इति ।
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।
पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् ॥९॥
माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ।
माघस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम् ॥१०॥
फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः ।
तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्छुक्ले ॥११॥
चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः ।
चैत्रासितसम्भृताः कार्तिकशुक्लेऽभिवर्षन्ति ॥१२॥
Slokas 9-12.—The foetuses formed in the begin-
ning of Margasirsha and Pushya are of little consequence.
Those formed in the dark half of Pushya may come
out in the bright half of Sravana. Similarly, those that
are formed in the bright half of Magha will see the
light of the day in the dark fortnight of Sravana. The
former part of Bhadrapada may be fixed upon as the
time of birth corresponding to the dark half of Magha.
Those that are formed in the first half of Phalguna may
be said to come out in the latter half of Bhadrapada.
But those in the dark fortnight of Phalguna will be born
in the bright half of Aswayuja. The clouds that are
formed in the first half of Chaitra will yield water in
the latter half of Aswayuja ; and those that are formed
in the latter half of Chaitra will rain in the first half
of Kartika.

Adh. XXI. Sl. 13-18. ] एकविंशोऽध्यायः 211
तथा च गर्गः ।
माघेन श्रावणं विन्द्यान्नभस्थं फाल्गुनेन तु ।
चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्तिकम् ॥
शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् ।
रात्र्यह्लोश्च विपर्यासं कार्य काले विनिश्चयम् ॥ इति
पराशरस्याप्येवं मतम् ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ।
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥१३॥
Sloka 13.—The clouds formed in the east will give
water in the west and vice versa. The same rule holds
good in the case of the other pairs of directions. In like
manner, the winds too are reverse at the two periods.
तथा च पराशरः ।
अथ माघेन श्रावणं फाल्गुनेन भाद्रपदं चैत्रेणाश्वयुजं वैशाखेन तु कार्तिकं
शुक्लेन कृष्णं कृष्णेन शुक्लं दिवसेन रात्रिं रात्र्या दिवसं गर्भाः प्रवर्षन्ति ॥
ह्लादिमृदूदक्शिवशक्रादिग्भवो मारुतो वियद्विमलम् ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ ॥१४॥
पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् ।
काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥१५॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
शशिशिवशक्राशास्थाः शान्तरवाः पक्षिम्गसंघाः ॥१६॥
विपुलाः प्रदक्षिणचराः स्निग्धंमयूखा ग्रहा निरुपसर्गाः ।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥१७॥
गर्भाणां पुष्टिकराः सर्वेषामेष योऽत्र तु विशेषः ।
ऋर्तुस्वभावजनितो गर्भविबृद्ध्यै तमभिधास्ये ॥१८॥
Slokas 14-18—The good symptoms at the time of
the conception of clouds are the following : a delightful

212 बृहत्संहितायाम् [Adh. XXI. Sl. 19-22
and cool breeze from the north, north.east, or east ;
a clear sky ; the Sun and the Moon surrounded by
a glossy, bright and thick halo ; the sky covered with
large, bulky, smooth, needle-like or razor-like, red clouds
or having the colour of the crows-eggs or a peacock's neck
when the Moon and the stars shine brightly ; a good
twilight—morning or evening—accompanied by a rain.
bow, good rumbling of thuuder, lightning and a mock
Sun ; groups of birds and animals crying pleasantly in
the north, north-east or east ; the planets being large
beaming brightly moving to the north (of the asterisms)
and unhurt ; trees with their sprouts unimpaired, and
men and quadrupeds happy ; these symptoms nourish
all the embryos. There are however some special rules
tending to the growth of the embryos and arising from
the particular nature of the season which I am now
propounding.
तथा च पराशरः । अथ गर्भसंस्थासु माघादिषु चतुर्षु मासेषु या शुचौ
धारणा । नभोनभस्यौ प्रावृट् तस्या अनु वर्षा येषु प्रसवन्ति । तत्र चापाभ्रविद्यु-
त्स्तनयित्नुवर्षाणि गर्भांस्तांल्लक्षयेत्प्रशस्तानप्रशस्तांश्च । प्रशस्ताभाश्च यस्मिन् काले
सूर्य्येन्दुनक्षत्राश्रयाणां वर्षालिङ्गानां प्रादुर्भावः । पञ्चरूपता गर्भाणां धारम्भ
मासेन शुद्धिरिति ॥
पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषः ।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥१९॥
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥२०॥
फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः ॥२१॥
पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२२॥

Adh. XXI. Sl. 23-24] एकविंशोऽध्यायः 213
तथा च काश्यपः ।
शीतमभ्रं तथा वायुश्चन्द्रार्कपरिवेषणम् ।
माघे मासि परीक्षेत श्रावणे वृष्टिमादिशेत् ॥
फाल्गुने चात्र सञ्जातं वृष्टिस्तनितमेव च ।
पुरो वाताश्च ये प्रोक्ता मासि भाद्रपदे शुभम् ॥
बहुपुष्पफला वृक्षा वाताः शर्करवर्षिणः ।
शीतवर्षं तथाभ्राणि चैत्रेणाश्वयुजं वदेत् ॥
वहन्ति मृदवो वाताः पुरः शीघ्रं प्रदक्षिणाः ।
वैशाखे तानि रूपाणि कार्तिके मासि वर्षति ॥
तथा च समाससंहितायाम् ।
शस्तानि मृगाम्मासाच्छीतहिमवायुमेघकृतानि ।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन ।
रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ॥
मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः ।
जलचरसत्त्वाकारा गर्भेषु घनाः प्रभूतजलाः ॥२३॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥२४॥

214 बृहत्संहितायाम् [Adh. XXI. Sl. 25-26.
Slokas 23-24.—Clouds that resemble pearls, silver,
Kamala flower, lily or collyrium in colour and which are
in the shape of aquatic animals will contain abundant
water in their embryo. Those clouds which have been
scorched by the burning rays of the Sun and fanned by
a gentle breeze will at the time of delivery pour torrents
of water as if they were angry.
तथा च समाससंहितायाम् ।
पृथुघनबहुला जलदा जलचरसत्त्वान्विताः शुभा गर्भाः ।
स्निग्धसितबहुकपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥
नृखगमृगा मुदिता निरुपहतास्तरवः ।
विशदमलं च यदा भवति तदा सुसमा ॥
स्निग्धतडिप्रतिसूर्यकमत्स्यशक्रधनुःप्रथमापरमध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शक्रशशीश्वरदिक्पवनाश्च ॥
गर्भोपघातलिङ्गान्युलकाशनिपांसुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥२५॥
रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः ।
इत्युत्पातैरेतैस्त्रिविधैश्चान्यैर्हतो गर्भः ॥२६॥
Slokas 25-26—The following are the indications for
the miscarrying of the foetus : Fall of meteors, lightning,
dust-storm, false fire in the quarters, earth-quake, appear-
ance of forms of cities in the sky, Thamasa Keelakas,
Ketu, planetary warfare, portentous thunder, unnatural
phenomena in rain, such as blood, a cross line of clouds at
Sunset or Sunrise (vide Adhyaya XLVII-19, infra),
rainbow and eclipse of the Sun or the Moon. By these
and similar portents of three kinds, viz., celestial,
atmospheric and terrestrial, an embryo gets destroyed.
तथा च गर्गः ।
अश्मवर्षं तमोवर्षं मांसशोणितवर्षणम् ।
उल्कानिर्घातकम्पश्च वज्रपातस्तथैव च ॥

Adh. XXI. Sl. 27-29] एकविंशोऽध्यायः 215
परिवेषाः परिधयो वासवस्य धनूंषि च ।
अनभ्रस्तनितं वर्षं दिशां दाहस्तथैव च ॥
अनातवं पुष्पफलं वारणीयेषु वर्षणम् ।
ग्रहयुद्धेषु घोरेषु हतान् गर्भान् विनिर्दिशेत् ॥
तथा च पराशरः। तेषां ग्रहाणामुदयास्तमयोलकानिर्घाताशनिपातगन्धर्व-
नगरदिग्दाहार्करश्मिवर्णविकारभूचलनप्रादुर्भावो वर्षास्ववर्षांय ॥
ऋतुस्वभावजनितैः सामान्यैश्च लक्षणैर्वृद्धिः ।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥२७॥
Sloka 27.—Signs, precisely the reverse of those, both
general and special, for any particular season, by which
the growth of an embryo is assured, produce the con-
trary results.
भद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥२८॥
Sloka 28.—A foetus that develops when the Moon
stands in any of the five asterisms, viz., Purvabhadra,
Uttarabhadra, Purvashadha, Uttarashadha and Rohini in
any season will yield plenty of rain.
शतभिषगाश्लेषार्द्रास्वातिमघासंयुक्तः शुभो गर्भः ।
पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥२९॥
Sloka 29.—An embryo that is formed in Satabhi-
shak, Aslesha, Ardra, Swati or Magha proves fertile and
develops (or rains) for many days; while, being stricken
with three-fold portents (referred to above), it is destroyed.
त्रिविधमुत्पातलक्षणमाचार्येण समाससंहितानिबन्धने स्पष्टतरमुक्तम्-
दिव्यं ग्रहक्षेजतं भुवि भौमं स्थिरचरोद्भवं यच्च ।
दिग्दाहोल्कामारुतपरिवेषाद्यं वियत्प्रभवम् ॥
तथा च गर्गः । प्राजापत्यं मघाऽश्लेषा रौद्रं चानिलवारुणम् ।
आषाढाद्वितयं चैव तथा भद्रपदाद्वयम् ॥

216 बृहत्संहितायाम् [Adh. XXI. Sl. 30-32.
नक्षत्रदशकं चैतद्यदि स्याद्ग्रहदूषितम् ।
न गर्भाः सम्पदं यान्ति योगक्षेमं न कल्पते ॥
उल्काभिहतं वापि केतुना वाप्यधिष्ठितम् ।
न गर्भाः सम्पदं यान्ति वासवश्च न वर्षति ॥
मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता ।
विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः ॥३०॥
Sloka 30.—Foetuses coming into being when the
Moon is in conjunction with any of the aforesaid asterisms
during the month of Margasirsha, Pushya, Magha, Phal-
guna, Chaitra and Vaisakha will yield rain after 195
days for 8, 6, 16, 24, 20 and 3 days respectively.
ऋषिपुत्र आह
माघे षोडशसंख्यास्तु षोडशाष्टौ च फाल्गुने ।
विंशतिश्चैत्रमासे तु त्रयश्चन्द्राग्निवैवते ॥
अष्टौ सौम्येऽथ षट् पौषे संख्यास्तासु च वर्षति ।
पञ्चनिमित्तैः शतयोजनं तदर्द्धार्द्धमेकहान्यातः ।
वर्षति पञ्चनिमित्ताद्रूपेणैकेन यो गर्भः ॥३१॥
Sloka 31.—If an embryo be accompanied by the
five phenomena, viz., wind, water, lightning, thunder and
cloud, it will pour rain over an area of 100 Yojanas and
for every phenomenon less, over half the extent of the
previous one; but if it has only one phenomenon, over
five Yojanas around.
द्रोणः पञ्चनिमित्ते गर्भे त्रीण्याढकानि पवनेन ।
षड् विद्युता नवाभ्रैः स्तनित्रेन द्वादश प्रसवे ॥३२॥
Sloka 32.—The quantity of rainfall will at the season
amount to a Drona if the embryo has the five concomi-
tants; three Adhakas are the result of wind; six, of
ightning; nine, of clouds and twelve, of thunder.

Adh. XXI. Sl. 33-34] एकविंशोऽध्यायः 217
A Drona = 200 Palas. An Adhaka = ¼ th of a Drona or 11
oz. Avoir. According to Parasara, an Adhaka is the capacity of a
vessel with a circular mouth 20 inches in diameter and whose
depth is eight inches.
वृष्टेराढकद्रोणप्रमाणपरिज्ञानं पराशर आह-
आढकांश्चतुरो द्रोणमपां विन्द्यात्प्रमाणतः ।
धनुः प्रमाणं मेदिन्या विन्द्याद्द्रोणातिवर्षणम् ॥
समे विंशांगुलनाहे द्विषत्तुं॰कांगुलोच्छ्रिते ।
भाण्डे वर्षति सम्पूर्ण ज्ञेयमाढकवर्षणम् ॥
तथा चाचार्य आह ।
हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः ।
पञ्चाशत्पलमाढकमानेन मिनुयाज्जलं पतितम् ॥ इति
—Adh. XXIII-2, infra.
तथा च वृद्धगर्गः ।
वाते तु आढकं विन्द्यात्स्तनिते तु द्वादशाढकम् ॥
नवाढकं तथाभ्रेषु द्योतितेषु षडाढकम् ॥
निमित्तपञ्चकोपेते द्रोणं वर्षति वासवः ॥
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥३३॥
Sloka 33.—If the asterism at which an embryo is
formed be afflicted by a malefic planet, it will pour down
showers of hail stones, thunderbolt and fish. If at that
time, the Moon or the Sun be posited in this star and be
conjoined with or aspected by a benefic, there will be
copious rain.
गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशेऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥३४॥
Sloka 34.—Too much rain without apparent cause
at the time of the formation of foetuses tends to their
destruction. If the quantity of rainfall exceed ⅛ th of a
Drona, there will be its miscarriage.
बृ. सं. 28

218 बृहत्संहितायाम् [Adh. XXI. Sl. 35-37.
गर्भसमये गर्भग्रहणकाले निर्निमित्तकृता अतिवृष्टिः ।
निमित्तं कारणं यथा ।
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसङ्क्रमे च ।
पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चान्द्रौ ॥ इति
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥३५॥
Sloka 35.—If a full-grown embryo does not yield
rain at the proper season owing to planetary and other
evil influences, it will rain with hail-stones at the same
period as it formed at the beginning.
काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः ।
कालातीतं तद्वत्सलिलं काठिन्यमुपयाति ॥३६॥
Sloka 36.—Just as the milk of a milch cow grows
hard if retained too long, so does the water kept back be-
yond its time.
पवनसलिलविद्युद्गर्जिताऽभ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकालेऽतिभूरि
प्रसवसमयमित्वा शीकराम्भः करोति ॥३७॥
Sloka 37.—An embryo which has got the five con-
comitant signs, viz., wind, rain, lightning, thunder and
clouds, since it is composed of these, yields plenty of rain.
One which at the time of formation loses too much water
produces at the period of delivery, a drizzle.
This sloka is from समाससंहिता.
Thus ends the 21st Adhyaya on the "Pregnancy of Clouds."

Adh. XXII. Sl. 1-2.] द्वाविंशोऽध्यायः 219
गर्भधारणाध्यायः ॥२२॥ Pregnancy of the Air.
ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणा दिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥१॥
Sloka 1.—The first four days commencing from the
8th day of the bright half of Jyeshta are sustained by the
winds ; and they will prove favourable if they be attended
with soft and gentle breeze, and if the sky be covered
with glossy clouds.
तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः ॥२॥
Sloka—2. If there be rain in the four asterisms
beginning with Swati in the same month and fortnight,
the four months commencing with Sravana will be in
order the retainers of rain. That is, there will be no rain
in the several months if there be rain in the corresponding
asterism.
तथा च काश्यपः ।
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदैवते ।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥
नीलाञ्जननिभैर्मेघैर्विद्युत्स्थगितमारुतैः ।
विस्फुलिङ्गरजोधूम्रैश्छन्नौ शशिदिवाकरौ ॥
एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
अनावृत्तैस्तैश्च घोरैः पीडा चैव सरीसृपैः ॥
ततः स्वात्यादिनक्षत्रैश्चतुर्भिः श्रावणादयः ।
परिपूर्णाः शुभास्ताः स्युः सौम्याः शिवसुभिक्षकाः ॥
स्वातौ तु श्रावणं हन्याद्वृष्टेऽथेन्द्राग्निदैवते ।
भाद्रपदे त्ववृष्टिः स्यान्मैत्रे चाश्वयुजे स्मृता ॥
ऐन्द्रे तु कार्तिके त्वेवं वृष्टे वृष्टिं निहन्ति च ।
एतेषु यदि नो वृष्टिस्तदा सौभिक्षलक्षणम् ॥

220 बृहत्संहितायाम् [Adh. XXII. Sl. 3-8
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय ।
तस्करभयदाश्चोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः ॥३॥
Sloka 3.—If those four days of retention (धारणा-
Dharana) be of the same type, the result will be auspicious.
If, unlike, they prove disastrous and are said to engender
danger from thieves. The following is the authority of
sage Vasishta.
सविद्युतः सपृषतः सपांसूत्करमारुताः ।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥४॥
यदा तु विद्युतः श्रेष्ठाः शुभाशाः प्रत्युपस्थिताः ।
तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥५॥
सपांसुवर्षाः सापश्व शुभा बालक्रिया अपि ।
पक्षिणां सुखरा वाचः क्रीडा पांसुजलादिषु ॥६॥
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
वृष्टिस्तदापि विज्ञेया सर्वसस्यार्थसाधिका ॥७॥
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
तदा स्यान्महती वृष्टिः सर्वसस्याभिवृद्धये ॥८॥
Slokas 4-8.—The days of retention of the foetus
will be favourable if they be accompanied by lightning,
water-drops, dust-storm, and the Sun and the Moon
screened by the clouds. If there should be beautiful
flashes of lightning emanating from (moving towards ?)
the auspicious quarters, an intelligent astronomer should
predict the thriving of all crops. If on the same day
there be rain with dust or if children engage them-
selves in happy sports, the cries of birds be pleasant and
their sport be in dust, water or the like, if the Sun and
the Moon be encircled by halos which are glossy and
not broken, then, there will be rain tending to the growth

Adh. XXIII. Sl. 1-3.] त्रयोविंशोऽध्यायः 221
of all crops. If the clouds be glossy, collected together
and moving in a clockwise manner, there will be a
heavy rain favouring the growth of all crops.
Thus ends the 22nd Adhyaya on "Pregnancy of the Air".
प्रवर्षणाध्यायः ॥२३॥ The Quantity of Rainfall.
ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन ।
शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः ॥१॥
Sloka 1.—If there should be rain in the asterisms
commencing with Purvashadha after the full Moon in
the month of Jyeshta, the astronomer should judge the
quantity and the good or bad effects of the rain.
तथा च गर्गः ।
ज्येष्ठे मूलमतिक्रम्य मासि प्रतिपदग्रतः ।
वर्षासु वृष्टिज्ञानार्थं निमित्तान्युपलक्षयेत् ॥
हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः ।
पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् ॥२॥
Sloka 2.—The quantity of rainfall should be deter-
mined through a gauge whose diameter is one cubit, and
when it contains 50 palas, it will be equal to one Adhaka.
तथा च समाससंहितायाम् ।
ज्येष्ठस्य पौर्णमासीमतीत्यभूमुद्रथा यथा वृष्टे ।
आप्याद्यैर्जलमानं मागधमानेन हस्तमिते ॥ यदुक्तम् ।
येन धरित्री मुद्रा जनिता वा बिन्दवस्तुणाग्रेषु ।
वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥३॥
Sloka 3.—The quantity of rain should be gauged
on the day of the asterism during which there is rain

222 बृहत्संहितायाम् [Adh. XXIII. Sl. 4-5.
for the first time through the (amouut of) rain by which
the earth is cleared of dust or the drops of water on the
tips of blades of grass.
केचिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये ।
गर्गवसिष्ठपराशरमतमेतद्द्वादशान्न परम् ॥४॥
Sloka 4.—Some sages such as Kasypa opine that
if there be rain in a certain area at the beginning, there
will be good rain there throughout the season; while
others such as Devala maintain that if there be rain over
an area of ten Yojanas, there will be plenty of rain
during the whole season. But, according to Garga,
Vasishta and Parasara, good rain during the season
should be predicted if there be rainfall over an area of
not less than twelve Yojanas.
तथा च कश्यपः ।
प्रवर्षेणे यथा देशं वर्षणं यदि दृश्यते ।
वर्षाकालं समासाद्य वासवो बहुवर्षति ॥
तथा च देवलः ।
प्रवर्षणे यदा वृष्टं दशयोजनमण्डलम् ।
वर्षाकालं समासाद्य वासवो बहु वर्षति ॥
तथा च गर्गः ।
आषाढादिषु वृष्टेषु योजनद्वादशात्मके ।
प्रवृष्टे शोभनं वर्षं वर्षाकाले विनिर्दिशेत् ॥ इति.
येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः ।
यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥५॥
Sloka 5.—In whichever stars there was rain at the
beginning, there will generally be rain once again in
the same stars. If there was no rain at all in any one
of the asterisms beginning with Purvashadha at the time
of delivery, then there will be no rain in the season.

Adh. XXIII. Sl. 6-10] त्रयोविंशोऽध्यायः 223
हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥६॥
श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः ॥७॥
ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः ।
आहिर्बुध्नार्यम्णप्राजापत्येषु पञ्चकृतिः ॥८॥
पञ्चदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च ।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ॥९॥

तथा च समाससंहितायाम्
दश युक्ता द्विकृतखतिथिरसष्टिग्दिग्वषयरामजलतिथिभिः ।
तिथिरसरसैश्च विरसाः सदशकृताः षड्विहीनाश्च ॥
जलषट्केशकसहिता जलरसयुक्ताः षडूनेाश्च ।
विषयतिथिषट्कसहिताश्चाश्विन्यादिषु जलद्रोणाः ॥-इति.
रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च
भवति च न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥

224 बृहत्संहितायाम् [Adh. XXIV. Sl. 1-3.
Sloka 10.—If an asterism be afflicted by the Sun,
Saturn or Ketu, or hurt by Mars, or by the three-fold
portent, there will be no prosperity to mankind, nor
will there be any rain. But if the asterism be unhurt
and conjoined with benefics, beneficial results will accrue.
तथा च गर्गः।
सूर्यसौरहते वाच्यं नक्षत्र भौमघातिते ।
उत्पातैस्त्रिविधैर्वापि राहुणा केतुनापि वा ॥
अवृष्टिमशुभं विन्द्याद्विपरीते शुभं वदेत् ।
Thus ends the 23rd Adhyaya on "The Quantity of Rainfall".
रोहिणीयोगाध्यायः ॥२४॥ The Moon's Conjunction
with Rohini
कनकशिलाचयविवररजतद्रुकुसुमासङ्गमधुकरानुरुते ।
बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥१॥
सुरनिलयशिखरिशिखरे बृहस्पतिर्नारदाय यानाह ।
गर्गपराशरकाश्यपमयाश्च यान् शिष्यसङ्घेभ्यः ॥२॥
तानवलोक्य यथावत् प्राजापत्येन्दुसम्प्रयोगार्थान् ।
स्वल्पग्रन्थेनाहं तानेवाभ्युद्यतो वक्तुम् ॥३॥
Slokas 1-3.—I shall now try to expound briefly
the good and bad effects arising from the Moon's con-
junction with Rohini, having duly taken cognisance of
them as explained by Garga, Parasara, Kasyapa and
Maya to their hosts of pupils and as instructed by
Brihaspati to Narada in the park on the summit of the
Meru, which resounds with the humming of the bees
clinging to the flowers of the trees in the caves of
the golden rocks, which rings with the twitterings of

Adh. XXIV. Sl. 4-5] चतुर्विंशोऽध्यायः 225
numerous birds and which has the melodious strains of
music of celestial damsels.
Rohini Yoga is the period of a day when the Moon passes
through the star Rohini in the dark half of the lunar month of
Ashadha.
In this connection, Mr. Chidambara Iyer, very aptly remarks :
"These prefatory remarks clearly shew that what follow are
important scientific truths in the eyes of Hindu astronomers : that the
weather indications of one single day in a year should form the subject
of so much calculation with the Hindus in determining the future
agricultural prospect of the land while to the inexperienced eye of a
western man of science, the day appears as indifferent or otherwise as any
other day of the year argues that modern science is still far behind in her
investigations of the laws of nature."
प्राजेशमाषाढतामिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद्ग्रहचिन्तकेन ॥४॥
योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः ।
चन्द्रप्रमाणद्युतिवर्णमागैरुत्पातवातैश्च फलं निगद्यम् ॥५॥
Slokas 4-5.—An astronomer should carefully observe
the Moon's conjunction with Rohini in the dark half
of Ashadha and then predict its good or bad effects to
mankind according to the tenets of the Sastras. How
a future conjunction of the Moon with the asterism
should be foretold has been explained by me in my work
Panchasiddhantika under the head of "Conjunction
with Fixed Stars". The effects, however, must be
declared as deduced from the Moon's size, brightness,
colour, direction and from portents at the time and
the winds.
तथा च पञ्चसिद्धान्तिकायाम् ।
बुद्ध्वा शशिविक्षेपं कृत्वा ताराशशाङ्कविवरं च ।
संसाध्य च वक्तव्यः पश्चात्तारासमायोगः ॥
बृं. सं. 29

226 बृहत्संहितायाम् [Adh. XXIV. Sl. 6-8.
The reference to पञ्चसिद्धान्तिका here clearly shows that the
author had already completed that work.
पुरादुदग्वत् पुरतोऽपि वा स्थलं त्र्यहोषितस्तत्र हुताशतत्परः ।
ग्रहान् सनक्षत्रगणान् समालिखेत् सधूपपुष्पैर्बलिभिश्च पूजयेत् ॥६॥
सरत्नतोयौषधिमिश्रतुर्दिशं तरुप्रवालापिहितैः सुपूजितैः ।
अकालमूलैः कलशैर लङ्कृतं कुशास्तृतं स्थण्डिलमावसेद्द्विजः ॥७॥
Slokas 6-7.—A Brahmin, going to a place north or
east from the town, staying there three nights fasting
and worshipping the sacred fire, should draw a diagram
of the planets and the asterisms occupied by them and
worship them with oblations coupled with incense and
flowers. He must occupy the bare ground strewn with
the Darbha grass, decked at the four corners with water-
pots containing gems, water and herbs, covered above
with the sprouts of trees and not blackened at the bottom
and kept clean and anointed.
तथा च गर्गः
नगरादुपनिष्क्रम्य दिशं प्रागुत्तरां शुचिः ।
विविक्ते प्रस्थले देशे देवतायतनेऽपि वा ॥
राज्ञा नियुक्तो दैवज्ञः कृतशौचो जितेन्द्रियः ।
निमित्तकुशलो धीरः शुक्लाम्बरसमावृतः ॥
उपवासमथातिष्ठेदष्टमीं सयतव्रतः ।
ततोऽष्टम्याः परे यस्मिन् दिने संयुज्यते शशी ॥
प्राजापत्येन च ततो निमित्तान्युपलक्षयेत् ॥
आलभ्य मन्त्रेण महाव्रतेन बीजानि सर्वाणि निधाय कुम्भे ।
प्लाव्यानि चामीकरदर्भतोयैर्होमो मरुद्वारुणसोममन्त्रैः ॥८॥
Sloka 8.—He should then sanctify all sorts of seeds
with the hymns of Mahavrata and immerse them in the
water containing gold and sacred grass in the pot. Then