सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 77, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 77

श्चत्वारिंशदंशाका अपवादस्वररहिता योजनीया इत्यर्थः । चत-
सृणां जातीनां नित्यसम्पूर्णानां नवांशाः पातनीयाः त्रिषष्टि-
मध्ये । तद्यथा—रिपधनिपसग । पध । एषु नवांशेषु पाति-
तेषु चतुष्पञ्चाशदंशा वशिष्यन्ते । तत्रापि षड्जमध्यमा
षड्जोदीच्यवा कैशिकी गान्धारी रक्तगान्धारी धैवती आसां
षड्जातीनां सप्तांशाः पातनीयाः । तेषु सप्तांशेषु पतितेषु
सप्तचत्वारिंशदंशा भवन्ति । तद्यथा —
मध्यमोदीच्यवायां वा तथा गान्धारपञ्चमी ।
कार्मारवी रिपनिधैः सगपैः षड्जकैशिकी ॥ २४९ ॥
सगमपधैः स्मृता +++++++++।
नन्दयन्ती भवेत् पागा गान्धारोदीच्यवासमा ॥
तेषु चत्वारिंशदंशेषूक्तपरैः पाडवविधिः कर्तव्यः ।
इदानीमौडुवितविधौ येषु अनपवादिनः स्वरास्तान्
दर्शयति ।
तथापवादनिर्मुक्तस्त्रिंशदौडुविते भवेत् ॥ २५० ॥
अस्यार्थः—तथा तेन प्रकारेण अपवादनिर्मुक्तस्त्रिंश-
त्प्रका(रं ? रो) बोद्ध(व्यम् ? व्यः) । तद्यथा — त्रिषष्टिमध्ये
नित्यसंपूर्णानां चतसृणां जातीनां नवांशाः पातनीयाः । तेषु
पतितेषु चतुष्पञ्चाशदंशास्तत्रावशिष्य(स्त ? न्ते ।) तत्रापि
चतुष्पञ्चाशन्मध्ये चतसृणां जातीनां नित्यसंपूर्णपाडवानां
द्वादश सप्तांशाः पातनीयाः । तेषु पतितेषु द्विचत्वारिंशदं-
शेषूक्तस्वरैरौडुवितविधिर्भवतीति । तथाचाह भरतः —