सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 159, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 159

प्रबन्धाध्यायः । १४७
चतस्रो गीतयो यत्र पादे पादे भवन्ति च ।
गीत्वा तदीयपादार्धमनुप्रासो विधीयते ॥ ४३३ ॥
त्यागसौभाग्यसौन्दर्यशौर्यधैर्यादिवर्णना ।
यस्यां भवति गीतज्ञास्तामेलां सम्प्रचक्षते ॥ ४३४ ॥
स + + बहि गातव्या गीतज्ञैर्गीतवस्तुषु ।
मट्टेनाथ द्वितीयेन (करं ? कं)कालेन तथैव च ॥ ४३५ ॥
संयुक्ता प्रतितालेन कर्तव्यैला मनीषिभिः ।
वर्णनीयस्य गातुश्च सा तु नामाङ्किता भवेत् ॥ ४३६ ॥
वर्णनीयसमायुक्ता मते केषाञ्चिदिष्यते ।
रम्यगीतगुणैर्युक्ता छन्दोगणसमन्विता ॥ ४३७ ॥
अलङ्काररसोपेता कर्तव्यैला मनीषिभिः ।
आदौ नादावती प्रोक्ता ततो हंसावती मता ॥ ४३८ ॥
नन्दावती तृतीया च तुर्या भद्रावती स्मृता ।
ऋग्वेदादिसमुद्भूता विचित्रध्वनिरञ्जिता ॥ ४३९ ॥
इत्येला गणमार्गेण बुधैरुक्ता चतुर्विधा ।
एला नादावती रम्या वर्णालङ्कारशोभिता ॥ ४४० ॥
गीयते मट्टतालेन नादयुक्ता पदे पदे ।
टक्करागो भवेत् तत्र सर्वेषामनुरञ्जकः ॥ ४४१ ॥
श्वेतो वर्णश्च विज्ञेयः शृङ्गारः कथितो रसः ।
कैशिकीवृत्तिराख्याता पाञ्चाली री(तिरिष्य)ते ॥ ४४२ ॥
भारती देवता तस्या ब्राह्मणानां कुलं तथा ।
यत्र चन्द्रगणाः पञ्च स्व(गैं ? र्गै)णेकेन संयुता ॥ ४४३ ॥