बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 160, कुल 175 में से
संदर्भ में पढ़ें१४८ बृहद्देश्यां
एला नादावती नाम सा स्मृता पूर्वसूरिभिः ।
हंसस्येव गतिं का सा(?) नादेन च पदेन च ॥ ४४४ ॥
समं प्रवर्तते यस्मात् ततो हंसावती स्मृता ।
तालो द्वितीयकस्तत्र हिन्दोलेन तु गीयते ॥ ४४५ ॥
रक्तो वर्णः समाख्यातश्चण्डिका देवता भवेत् ।
वृत्तिरारभटी प्रोक्ता लाटीया रीतिरिष्यते ॥ ४४६ ॥
क्षत्रियाणां कुलं चैत्र रसो रौद्रः प्रकीर्तितः ।
यत्रानलगणाः पञ्च षष्ठो वायुगणस्तथा ॥ ४४७ ॥
एला हंसावती हन्त सा स्मृता गीतपारगैः ।
लघुभिर्गमकैर्युक्ता रागा मालवकैशिके ॥ ४४८ ॥
एला नन्दावती नाम प्रतितालेन गीयते ।
इन्द्राणी देवता वृत्तिः सात्त्वती तत्र कीर्तिता ॥ ४४९ ॥
गौडीया कथ्यते रीतिः पीतो वर्णः स्मृतो बुधैः ।
रसो वीरः समाख्यातो वैश्यानां कुलसम्भवः ॥ ४५० ॥
(न ? ना)द्रावत्यामिव सर्वं कर्तव्यं रागपूर्वकम् ।
यत्राम्बरगणाः पञ्च मार्ताण्डगणसंयुताः ॥ ४५१ ॥
एला नन्दावती सा तु विज्ञेया गीतवेदिभिः ।
ऐकैकपदसंयुक्ता मूर्च्छनाध्वनिसङ्कुला ॥ ४५२ ॥
कङ्कालतालसंवन्धा ककुभेन प्रगीयते ।
एला भद्रावती नाम शूद्रजातिसमुद्भवा ॥ ४५३ ॥
कृष्णवर्णा च विज्ञेया वैदर्भीरीतिशोभिता ।
भारतीवृत्तियुक्ता च वीभत्सरसभूषिता ॥ ४५४ ॥