सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 155, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 155

सप्तत्रिंशत्तमा या तु मुनिना वर्तनी मता ।
अष्टत्रिंशत्तमा त्वेला बहुभेदप्रविस्तरा ॥ ३८९ ॥
चत्वारिंशद्वैकोना(?) मतो झोंव(न्ध? ड)कस्तथा ।
चत्वारिंशत् ततो ज्ञेया ततोऽथ ध्वनिकुट्टनी ॥ ३९० ॥
एकाधिको भवेद् ढेङ्की ह्यथेका(?) चैकतालका ।
एतेषामधिकः ख्यातः प्रबन्धो मातृकाह्वयः ॥ ३९१ ॥
चतुर्भिरधि + + + चत्वारिंशत्ततः पुनः ।
प्रबन्धोऽयं स्वरार्थः स्याद् ज्ञेयोऽसौ गीतवेदिभिः॥३९२॥
चत्वारिंशत्तमं प्रोक्तं करणं पञ्चभिर्युतम् ।
चत्वारिंशद्यु(ताः? तः) षड्भिश्चासौ वर्णस्वरः स्मृतः ॥
चत्वारिंशत् सप्तयुता ज्ञेया मुक्तावलीति या ।
प्रतापवर्ध(त? न)श्चाष्टचत्वारिंशत् प्रकीर्तितः ॥ ३९४ ॥
पञ्चधा मुनिना ख्याता चत्वारिंशत् सुसंयुता ।
एतेषां लक्षणं व्यञ्छितमासाद् विदुषात्तमम् (?) ॥३९५॥
यथोक्तं चात्र नियमै ++++++++।
रागैर्यथावदुक्तैस्तु गातव्या गीतकोविदैः ॥ ३९६ ॥
तालशून्यादि तु यः पाटैर्विरुतैश्च समन्वि(ताः? तः) ।
स कन्द इति कर्णाटभाषादिपदमिश्रितः ॥ ३९७ ॥
क(दा? न्दा)दिप्रबन्धा लक्ष्यतः प्रसिद्धा एव ।
आर्याया द्विपथे वृत्ते गाथाया जेथके तथा (?) ।
तोटकेन च तालस्य नियमो नास्ति कदाचन ॥ ३९८ ॥
मुख्यता तेषु निर्दिष्टा मुनिभिश्छन्दसा स्फुटम् ।
अन्तःस्वर + विन्यासः ++++++++ ॥ ३९९ ॥