बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
DevanagariSanskritpublished175 पृष्ठ
पृष्ठ 154, कुल 175 में से
संदर्भ में पढ़ेंपृष्ठ 154
१४२ बृहद्देश्यां
*आद्यः प्रबन्धः क(जा?न्दा)ख्यो वृत्ता नाम द्वितीयकः ।
गद्यरूपस्तृतीयः स्याद् दण्डकः स्याच्चतुर्थकः ॥ ३७८ ॥
पञ्चमो वर्णकः ख्यातः षष्ठ आर्यापिधायकः ।
- सप्तमी कशिता गाथा ततो द्विपथकोऽष्टमः ॥ ३७९ ॥
वर्धटी नवमी प्राहुरङ्गिला दशमी भवेत् ।
एकादश मयेस्याते (?) गदिता सा चतुष्पदी ॥ ३८० ॥
दोथको द्वादशः प्रोक्तस्तोटकः स्यात् त्रयोदश ।
ततश्चतुर्द(शा? शो) ज्ञेयो वस्त्वाख्यस्तु प्रबन्धकः ॥ ३८१॥
ततः क्रौञ्चपदस्तूर्ध्वं हंसपात् षोडशः स्मृतः ।
सप्तदशः प्रबन्धस्तु शुकसारितसंज्ञकः ॥ ३८२ ॥
अष्टादशश्चाश्मलीला एकोनो दशलीलकः (?) ।
द्वाविंशतिमः सिंहलीलः शरभलीलैकविंशतिः (?) ॥ ३८३॥
द्वाविंशति मः स्यात्तु शुकचुञ्चुरितीह यः ।
त्रयोविंशो विचित्रः स्याच्चतुर्विंशस्त्रिभङ्गिकः ॥ ३८४ ॥
पञ्चविंशतिमस्थाने चतुरङ्ग उदाहृतः ।
जयवर्धनसंज्ञश्च ततः परतरो भवेत् ॥ ३८५ ॥
सप्तविंशतिमा सा स्यादङ्कचारिणिका मता ।
†द्वात्रिंशतिमस्थाने + त्रिपदी पद्पदी क्वचित् ॥ ३८६ ॥
त्रयस्त्रिंशत्तमं प्रोक्तं (तं ? तद्) बन्धकरणं पुनः ।
चतुस्त्रिंशत्तमः पाटकरणं समुदाहृतम् ॥ ३८७ ॥
पञ्चत्रिंशत्तमः प्रोक्तः कैवाट इति तद्विधैः (?) ।
षट्त्रिंशत्तमसंज्ञस्तु द्विपदीति सतां मता ॥ ३८८ ॥ - अत्र प्रकरणे उद्दिष्टेषु केषाञ्चिल्लक्षणादर्शनं, लक्षितेषु च केषाञ्चि-
दनुद्देश , उद्देशलक्षणवाक्येषु नामभेदश्च वर्तते । † अष्टाविंशादिकं लुप्तं स्यात् ।