बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 119, कुल 175 में से
संदर्भ में पढ़ेंआभीरी भाविनी चैव माङ्गली सैन्धवी तथा ।
गूर्जरी दाक्षिणात्या च अन्ध्री तानोद्भवा परा ॥
नवमी श्रावणी ज्ञेया कैशिकी दशमी स्मृता ।
एता भाषास्तु विज्ञेया गायकैः पञ्चमोद्भवाः ॥
विशुद्धा दक्षिणात्या तु गान्धारी तदनन्तरम् ।
श्रीकण्ठी चैव पौराली माङ्गली सैन्धवी तथा ॥
कालिन्दी च पुलिन्दी च भिन्नपड्जोद्भवा नव ।
सौवीरी प्रथमा ज्ञेया द्वितीया वेगमध्यमा ॥
साधारिता तृतीया तु गान्धारी च चतुर्थिका ।
भाषा सैन्धविकी ज्ञेया ज्ञेयाः सौवीरकोद्भवाः ॥
शुद्धा भिन्ना तु वाराही तथा धैवतभूषिता ।
वराटी च ततः प्रोक्ता भिन्नपञ्चमसम्भवाः ॥
मालवपञ्चमे जाता भाविनी लोकभायिनी ।
मङ्गल्याख्या तु या भाषा बोट्टरागोद्भवा तु सा ॥
टक्ककैशिकजा ज्ञेया तृतीया वेगमध्यमा ।
मालवा भिन्नषालीका ++++++++॥
तृतीया द्राविडी तत्र भाषा लक्षितलक्षणा ।
बाह्यपाडनदाख्या + जाता वेसरषाडवे ॥
तानोद्भवा तु विज्ञेया भिन्नताने व्यवस्थिता ।
गान्धारपञ्चमे ह्येका भाषा ++++++॥
गान्धारी + + + + पञ्च + लोकरञ्जिका ।
रेवगुप्ते शकारैक्या प्रोक्ता पञ्चमषाडवे ॥