सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 118, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 118

भाषाणां चैव नामानि लक्षणं च निबोधत ।
प्रथमा त्रवणा ज्ञेया द्वितीया त्रवणोद्भवा ॥
वेरञ्जिका तृतीया तु छेवाटी च चतुर्थिका ।
मालवेसरिका तत्र प्रयोक्तव्या तु पञ्चमी ॥
षष्ठी च गूर्जरी ज्ञेया सौराष्ट्री सप्तमी तथा ।
अष्टमी सैन्धवी चैव वेसरी नवमी तथा ॥
पञ्चमाख्या तु दशमी रविचन्द्रा तथा भवेत् ।
अम्ब्राहीरी तु ललिता स्मृता कोलाहली ततः ॥
मध्यमग्रामदेशा च तथा गान्धारपञ्चमी ।
इत्येताः प्रकटा भाषाष्ट(क)रागस्य षोडश ॥
शुद्धा तु प्रथमा ज्ञेया चाथवेसरिका ततः ।
हर्षपुत्री तृतीया तु माङ्गली च चतुर्थिका ॥
पञ्चमी सैन्धवी ज्ञेया आभीरी षष्ठिका मता ।
खञ्जरी गुर्जरी चैवमष्टौ मालवकैशिके ॥
काम्बोजा प्रथमा ज्ञेया मध्यमग्रामिका मता ।
सालवाहानिका चैव तदन्ते भागवर्धनी ॥
पञ्चमी मुहरी ज्ञेया षष्ठी च शकमिश्रिता ।
प्रयोक्तव्या प्रयत्नेन सप्तमी भिन्नपञ्चमी ॥
एतास्तु ककुभे सप्त भाषा ज्ञेया मनोहगः ।
प्रथमा वेसरी ज्ञेया द्वितीया चैव मञ्जरी ॥
ततः कार्या च छेवाटी चतुर्थी षड्जमध्यमा ।
पञ्चमी मधुरी ज्ञेया पञ्च हिन्दोलकोद्भवाः ॥