बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 79, कुल 152 में से
संदर्भ में पढ़ें८० बीजगणिते
, अनयोः समच्छेदीकृतयोः साम्यकरणेन लब्धं नीलकोन्मानम्
नी = पी ३१ / ४ । (१)
अन्योन्मितौ कुट्टविधेर्गुणाप्ती इति कुट्टककरणेन लब्धो गुणकः
सक्षेपः = लो ४ रु ० एतत् पीतकमानम् । लब्धिः = लो ३१ रु ० एतन्नी-
लकमानम् । कालकोन्मानेन नीलकपीतौ स्वस्वमानेनोत्थाप्य स्वच्छे-
देन विभज्य लब्धं कालकमानम् = लो ७६ रु ० । अथ यावत्तावन्माने
कालकादीन् स्वस्वमानेनोत्थाप्य स्वच्छेदेन विभज्य लब्धं यावत्ताव-
न्मानम् = लो ८५ रु ० । लोहिते रूपेणैकेनोत्थापिते जातानि यावत्ता
वदादीनां परिमाणानि ८५, ७६, ३१, ४ । द्विकेनेष्टेन १७०, १५२, ६२,
८ । त्रिकेण २५५, २२८, ९३, १२ । एवमिष्टवशादानन्त्यम् ।
उदाहरणम् ।
(२) त्रिभिः पारावताः पञ्च पञ्चभिः सप्त सारसाः ।
सप्तभिर्नव हंसाश्च नवभिर्बर्हिणां त्रयम् ॥ ४ ॥
द्रम्मैर्व्याप्यते द्रम्मशतेन शतमानय ।
एषां पारावतादीनां विनोदार्थं महीपते ॥ ५ ॥
(१) वि० टी० — अत्र नीलकमानमभिन्नमपेक्षते चेत्तदंशं पीतकमानं चतुरर्हो
न भवेत् तथा चतुरपवर्त्तनीयमप्यतो यदि पी = ४ । तदा नी = ३१, का = ७६,
या = ८५ एव कुट्टकं विनाऽपीति ।
(२) वि० ३, ५, ७, ९ द्रम्माः ।
५, ७, ९, ३ पक्षिणः ।
अत्र कपोतादीनां मूल्यानि क्रमेण
या १, का १, नी १, पी १, इति कल्प्यते
त्रैराशिकेन कपोतादीनां मानानि
या ५ / ३ , का ७ / ५ , नी ९ / ७ , पी ३ / ९
तत्र या १ का १ नी १ पी १ रु ० / = रु १०० } इदमेकम् ।
या ५ / ३ + का ७ / ५ + नी ९ / ७ + पी ३ / ९ + रु ०