बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 78, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णसमीकरणम् । ७९
आद्यादपरः षड्गुण इति आद्यं षड्गुणं परसमं कृत्वा लब्धं
यावत्तावदुन्मानम् या=का १ रु ७०/६ ।
अनयोः कृतसमच्छेदयोश्छेदगमे समीकरणं तत्रानेन वा एक-
वर्णत्वात् पूर्वबीजेनागतं कालकवर्णमानम् का=१७० ।
अनेन यावत्तावदुन्मानद्वयेऽपि कालकमुत्थाप्य रूपाणि प्रक्षिप्य
स्वच्छेदेन विभज्य लब्धं यावत्तावदुन्मानम् या=४० ।
उदाहरणम् ।
अश्वाः पञ्चगुणाङ्गमङ्गलमिता येषां चतुर्णां धना-
न्युष्ट्राश्च द्विमुनिश्रुतीक्षितिमिता अष्टद्रिभूपावकाः ।
तेषामश्वतरा वृषा मुनिमहीनेत्रेन्दुसंख्याः क्रमात्
सर्वे तुल्यधनाश्च ते वद सपञ्चाश्वादिमौल्यानि मे ॥ ३ ॥
अश्वाश्वादीनां मौल्यानि यावत्तावदादीनि प्रकल्प्य तद्गुणगुणि-
तायामश्वादिसंख्यायां जातानि चतुर्णां धनानि ।
प्रध=या ५ का २ नी ८ पी ७ ।
द्विध=या ३ का ७ नी २ पी १ ।
तृध=या ६ का ४ नी १ पी २ ।
चध=या ८ का १ नी ३ पी १ ।
एतान् समानीत्येषां प्रथमद्वितीययोः साम्यकरणाल्लब्धा याव-
त्तावदुन्मितिः या=का ५ नी ६ं पी ६ं/-२ ।
द्वितीयतृतीययोरप्येवं लब्धा यावत्तावदुन्मितिः
या=का ३ नी १ पी १ं/३ ।
एवं तृतीयचतुर्थयोः या=का ३ नी २ं पी १/२ ।
पुनरासां मध्ये प्रथमद्वितीययोः समीकृतच्छेदगमे साम्यकरणेन
लब्धा कालकोन्मितिः का=नी २० पी १६/९ ।
एवं द्वितीयतृतीययोरपि का=नी ८ पी ४/३ ।