सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 180, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 180
  • १६६ -
    चतुष्पञ्चाशत्तमोऽध्यायः
    जनक उवाच
    कोऽयं सुखितना मास्तिमहाभागो महोन्नतः ।
    यद्गृहे भगवान् रामः पूर्णः श्रीपुरुषोत्तमः ।
    नित्यं विहरति स्वच्छैर्विलासैर्बुद्धयगोचरैः ॥ १ ॥
    का च माङ्गल्यका देवी महोदारा मनस्विनी ।
    यदगर्भरत्नमभवद्रामो राजीवलोचनः ॥ २ ॥
    श्रीशुक उवाच
    तावेतस्यैव पितरौ परब्रह्मस्वरूपिणः ।
    ययोर्गृहे करोत्येष रसलीलामयीं क्रियाम् ॥ ३ ॥
    अन्यावेतस्य पितरौ १कौसल्यादशरथाभिधौ ।
    यश मर्यादामालम्ब्य भवत्येष सुखप्रदः ॥ ४ ॥
    एतौ त्वमर्यादरसलीलासुखरसेशितुः ।
    पितरौ खलु गोपालौ माङ्गल्यासुखिताभिधौ ॥ ५ ॥
    कर्दमो देवहूतिश्च पुरा कल्पे बभूवतुः ।
    ययोः कपिलरूपेण साक्षाद्विष्णुरवातरत् ॥ ६ ॥
    योगाचार्येण तेनैतौपरां सिद्धिमवापितौ ।
    विरजापरपारस्थौ परब्रह्मारसस्पृशौ ॥ ७ ॥
    मुक्तौ लीलातनुं धृत्वा पितृभावेन भावितौ ।
    जुषेते परमं सौख्यं माङ्गल्यासुखिताभिधौ ॥ ८ ॥
    तत्रैतयोः कदाचित्स स्वं रूपं मङ्गलालयम् ।
    प्रभुर्दर्शितवान् रामो निजलोकप्रतिष्ठयोः ॥ ९ ॥
    प्रमोदवनमध्यस्थं नीलनीरदविग्रहम् ।
    द्विभुजं चरणाम्भोजरणन्नूपुरमण्डितम् ॥ १० ॥
    मुखचन्द्रपरिभ्राजदलकावलिवेष्टितम् ।
    बिम्बोष्ठं चारुनयनं मञ्जुलं बालकेलिभिः ॥ ११ ॥
    रूपमत्यद्भुतं दृष्ट्वा दम्पती तौ सलालसौ ।
    बभूवतुरतीवास्य स्वपुत्रत्वाय कर्हिचित् ॥ १२ ॥
    तदा सोऽन्तर्हितो भूत्वा व्योमवाण्या जगाद ह ।
    ज्ञातो वां मयका तावद् दुर्घटोऽसौ मनोरथः ॥ १३ ॥
    १. पादेऽस्मिन्नक्षराधिक्यमार्षः ।