सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 166, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 166
  • १५२ -
    प्रथमे यौवने तस्याश्चाङ्गमङ्ग व्यरोचत ।
    निर्णिंक्तमुकुराकार निर्मेघशशिबिम्बवत् ॥ १० ॥
    तस्यां स्मरमहीपालो निजाज्ञामातनोत्तदा ।
    विजित्यैव विपक्षेभ्यो नगर्यां मधुराकृतौ ॥ ११ ॥
    कियद्वाच्यमदो रूपं पुष्टं यौवनकारुणा ।
    रामचन्द्ररसीन्द्रेण भोगाहं भूय एव तत् ॥ १२ ॥
    तां विलोक्य गिरिर्बालां काले परिणयोन्मुखीम् ।
    त्रैलोक्ये तद्वराभावान्द्वतप्यत मानसे ॥ १३ ॥
    निरीक्ष्य चाकचक्योध चमत्कारितलोचनम् ।
    अन्वेत्येव चकोरीणामप्यदो वालिनां हृदि ॥ १४ ॥
    तदङ्गमपुष्टत्कांचीद्रूपसम्पदमीक्षताम् ।
    नारदस्तत्पितुः पार्श्वे कदाचिदगमन्मुनिः ॥
    स तमभ्यर्च्य विधिवद्दावुत्तममासनम् ॥ १५ ॥
    गिरिरुवाच
    अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।
    अतीव कोमलं हृद्यं प्राप्तं ते दर्शनामृतम् ॥ १६ ॥
    जाता पुण्यवती सम्यगद्यास्मत्कुलसंततिः ।
    धन्ये मेरोः कुलं चाद्य युष्मदागमनात्प्रभो ॥ १७ ॥
    गृहिणां गृहकृत्येषु व्यग्राणां दुर्भगात्मनाम् ।
    अनुधावति युष्माकं दर्शनं सौभगावह्म् ॥ १८ ॥
    क नो दुश्चरितं ब्रह्मन्नहन्ताममताकुलम् ।
    क च वो दर्शनमिदं योगिनामुचितं मने ॥ १९ ॥
    गोदोहमात्रं विरमेद्यत्र भाग्यवशाद्द्ववान् ।
    तत्र स्यादचला सम्पत् स मे किं नु करिष्यति ॥ २० ॥
    श्रीनारद उवाच
    गिरिराज सुधन्योऽसि मेरोः पुत्रो महायशाः ।
    इदं ते शीर्षमुत्तुङ्ग सरयू पात सुन्दरम् ॥ २१ ॥
    इयं ते परमा कन्या सिन्धोरिव सुता रमा ।
    उभयोस्तुल्यं सौभाग्यमुभे अपि हि पद्मजे ॥ २२ ॥
    इमां दाशरथी रामः समये परिणेष्यति ।
    अतो न देया कस्मैचिन्नाहंः सिंहबलि गजः ॥ २३ ॥
    निश्चिन्तोभवशैलेन्द्र वराय त्वमतःपरम् ।
    नदीयं तादृशं कान्तं विनान्यं जनमर्हति ॥ २४ ॥