भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 66, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । ५५
भक्ष्या क्षीरकृता बल्या वृष्या हृद्यास्सुगन्धिनः ।
विदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥
बृंहणा वातपित्तघ्नाः भक्ष्या बल्याश्च सामिषाः ।
गुरवः पैष्टिका भक्ष्या वीर्योष्णाः कफपित्तलाः ॥
कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान् ।
एकयोनीन् लघून् विद्यादपूपानुत्तरोत्तरम् ॥
भोजः —
यथा यथा भवेत्पाके संसर्गोऽग्नेस्तथा तथा ।
भक्ष्याणामेकजातीनां लाघवं वैद्य आदिशेत् ॥
पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः ।
षेण्डाकी वटकं दुग्धं दोषलं ग्लपनं गुरु ॥
'कुकूलं गोवरम्' इति केचित् । 'श्वभ्राकारमुत्तानं कर्परं कुकूलमि'-
त्यन्ये । न्युब्जं तदेव कर्परम् । तदेव सच्छिद्रं भ्राष्ट्रम् । लोहमयं कण्डू।
अङ्गारमङ्गारपूर्णपात्रं हसन्त्यादि । सुश्रुतः —
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ।
सुपक्वास्तनदश्चैव भूयिष्ठा लघवो मताः ॥
'कपालं कर्परं' तत्र पक्वा मण्डकाः । अङ्गारपक्वास्तु हसन्त्यादौ
पक्वा' इति व्याख्यातारः ।
आहारमाण्डा भाषा ।
स्विन्नभक्ष्याश्च ये केचित् सूप्यगोधूमभाविताः ।
भिषक् तेषां यथाद्रव्यमादिशेद् द्रव्यलाघवम् ॥
सूप्यमम्लममम्लं वा गुरु विद्याद्यथोत्तरम् ।
१. J1. सम्पर्कौऽग्नेः ।
२. J1. षाण्डाकी वटकम् ।
Bh. omits कपालं to भाषा