बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 171, कुल 366 में से
संदर्भ में पढ़ेंअध्यायः ] बौधानीयं १४१
कृत्वा तस्योत्तरतः यथास्थाने चात्वालं कृत्वा दक्षिणतः एकं तथा यूपस्य
पुरस्तादेकं शालामुखीयवेद्योर्मध्ये एकम् एषु चात्वालेषु लोकाग्न्याहरणादीनां
धर्माणां नामातिदेशतः कर्त्तव्यत्वम् । एभ्यश्चात्वालेभ्यः पुरीषं गृहीत्वा तैः
पुरीषैरसिक्षेत्रे सर्वतः प्रचिनुयात् । एतदुपरि प्रधियुक्तरथचक्रचयनवत्सर्वा
इष्टका लिखित्वा आसु लिखितासु इष्टकासु मन्त्रोपधानं कर्तव्यम् ।
अपरस्मिन् प्रस्तारे पुनरपि पुरीषैरग्निक्षेत्रे सर्वतः परिचिनुयात्। अस्मिन्
मण्डले यथा स्रक्तय अवान्तरदिक्षु भवन्ति तथा चतुरश्रं कृत्वा तस्मिन्
पूर्ववदिष्टका लेखनीयाः । अवान्तरदिक्षु विद्यमानेषु प्रधिषु अपीष्टका
लेखनीयाः । आस्विष्टकासु मन्त्रैरुपधानं कर्त्तव्यम् । एवं क्रमेण पुरीषैर्जानु-
दघ्नं यथा भवति तथा पञ्चप्रस्ताराः कर्त्तव्याः ॥ ११९ ॥
समूह्यस्य विशेषः । नान्या सर्वचात्वालेषु धर्मप्राप्तिः । शालामुखीयमहावेद्यो-
रन्तरा पश्चिमचात्वालः । एवं चात्वालेभ्यः पुरीषं समूह्य गृहीत्वा इष्टकास्थानेषु उप-
दध्यात् । यावत् सम्भवेत् तावत् चतुरस्रमित्यादि (३।९१) शुल्बेष्टकान्यायेन अग्नि-
क्षेत्रे तत्रैवोपधेया । इष्टकाः सर्वा लिखित्वा उपधानकाले तैस्तैर्मन्त्रैस्तेषु तेषु स्थानेषु
पुरीषमुपदध्यात् ।
अपरस्मिन् प्रस्तारे प्रध्यनीकेष्वि ( ३।९३ ) त्यादि तुल्यम् । जानुदघ्नं पञ्चचि-
तीकमिति च ।
तत्र कल्पोक्तो विधिरप्यनुसन्धातव्यः । तत्रैवमुक्तम् । समूह्यं चिन्वीत पशुकाम
इति विज्ञायते । पुष्करपर्णं कूर्मं हिरण्मयं पुरुषं स्रुचावित्येतल्लक्ष्माणीत्याचक्षते । कुरुत
एवैतदपो पुरीष्यस्यैवेष्टका आयातयति । आ स्वयमातृण्णायाः। अथाभितः स्वयमातृष्णा
इष्टकाः परिचिनोति स एष समूह्यः पशुकामस्य परिकृष्यत इति ( बौ० श्रौ० सू०
१७।२९ पृ० ३०८) पुष्करपर्णादीनामुपधानस्थानेषु तत्तद्रूपेण चिह्नानि कुर्यादि-
त्यर्थः ॥ ११९ ॥
परिचाय्य इष्टकानां देशभेदः ॥ १२० ॥
समूह्यपरिचाय्यौ प्रधियुक्तरथचक्रचयनवत् कर्त्तव्यावित्युक्त्या सर्व-
धर्माणामुभयत्रापि प्राप्तौ समूह्येषु पुरीषैरुपधानविधानादिष्टकोपधान-
बाधः । परिचाय्ये तु तथा विशेषविधानाभावात् तथैवेष्टकोपधाने प्राप्ते