सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 172, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 172

१४२ शुल्बसूत्रम् [तृतीयो-
देशादिभेदमाह - परिचाय्येति । परिचाय्यचयने इष्टकानां देशभेदः
देशभेदेनोपधानमित्यर्थः ॥ १२० ॥
परिचाय्य इति । इष्टकानां स्थानभेदो न रथचक्रचिद्वत् । तस्मिन् यावत्
सम्भवेद् (३।९१) इत्यादि कर्त्तव्यमित्यर्थः ॥ १२० ॥
तं सर्वाभिः प्रदक्षिणं परिचिनुयात् ॥ १२१ ॥
अमुमर्थं स्वयमेव विवृणोति - तं सर्वाभिरिति । तं सार्धसप्तपुरुष-
प्रमाणमण्डलरूपमग्निं सर्वाभिर्द्विशतेष्टकाभिः प्रदक्षिणं यथा भवति तथा
परिचिनुयादुपधानं कुर्यादित्यर्थः । अपरस्मिन् प्रस्तारे यथा सन्धिपिधानं
भवति तथैव परिचिनुयात् । एवं क्रमेण पञ्चप्रस्ताराः कर्त्तव्याः ॥ १२१ ॥
देशभेदं स्वयमेवाह - तमिति । तं अग्निम् । सर्वाभिरिष्टकाभिः । प्रदक्षिणं
सर्वतः चिनुयात् ।
छन्दश्विदध्यायेऽप्युक्तम् । परिचाय्यचितं चिन्वीत ग्रामकाम इति । अनु-
शर्करमन्तःशर्करमिष्टकाः परिचिनोति । अथानन्तरतोऽथान्तरत एवमेव करोति । स
एष परिचाय्यो ग्रामकामस्य परिकृष्यत इति (बौ० श्रौ० सू० १७।२६ पृ० ३०८) ।
तत्र अनुशर्करमिति सावित्राग्निवत् परिमण्डलाकारं अग्निक्षेत्रं विहृत्योपदध्या-
दित्यर्थः । परिकृष्यत इति । द्वादशसीताः परिमण्डलाः कर्षणीया इत्यर्थः ।
अयमत्र प्रकारः । अग्निक्षेत्रे समान्तरालानि षण्मण्डलानि कृत्वा नाभिमष्टधा
विभजेत् । नाभिमण्डलादारभ्य द्वितीयतृतीयमण्डले प्रत्येकं षोडशधा विभजेत् ।
चतुर्थं द्वात्रिंशधा विभजेत् । पञ्चमषष्ठमण्डले प्रत्येकं चतुःषष्टिमिष्टकाः कुर्यात् । एवं
द्विशतपूर्तिः । प्रतिमण्डलं करणभेदः । एवं षट् करणानि ।
अपरस्मिन् प्रस्तारे पूर्वोक्तमण्डलमध्येषु मध्यवर्जितेषु परिलिखेत् । एवं अत्रापि
षण्मण्डलानि संपद्यन्ते । पूर्वप्रस्तारवदेव यथा भेदो न भवति तथा विभागः । मध्यम-
मष्टधा पूर्वलेखान्तरालेषु विभजेत् । द्वितीयतृतीयमण्डले षोडशके । द्वात्रिंशकं
चतुर्थम् । पञ्चमषष्ठे चतुःषष्टिद्वयम् । सर्वत्र भेदपरिहारेण लेखनीयाः । एवं
द्विशतः प्रस्तारः । अत्रापि षट् करणानि । स एष द्वादशकरणः परिमण्डलः
परिचाय्यचित् ॥ १२१ ॥
स एष द्वादशकरणः परिमण्डलः परिचाय्यचिदिति ॥१२२॥
स एष इति । अयं परिचाय्यचिद् द्वादशकरण इत्युक्त इत्यर्थः । प्रधि-
युक्तरथचक्रचयनवदिदं कर्त्तव्यमित्युक्तत्वाद अग्नेर्मण्डलाकारत्वं सिद्धमिति