बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 170, कुल 366 में से
संदर्भ में पढ़ें१४० शुल्वसूत्रम् [ तृतीयो-
प्रथमे प्रस्तारे चतुरस्रगताः चतुश्चत्वारिंशच्छतम् । प्रधिमूलगताः चतुर्विं-
शतिः । प्रधिगता अष्टाविंशतिः । ओष्ठाथंकयोरिष्टकयोः ह्रस्वेष्टकां मण्डलसन्धावुपद-
ध्यात् । बृहतीं तस्याः पुरस्तात् । पश्चात् पुरस्ताच्च चतुरस्रसक्तिगते उद्धृत्य द्वे द्वे
अर्धेष्टके । एवं द्विशतः प्रस्तारः ।
द्वितीयेऽपि प्रस्तारे पूर्ववत् प्रधिवर्जमेव उपधानम् । अत्र अवान्तरदिक्षु
सक्तयः । पूर्वस्मिन् प्रधौ मध्यसामुद्धृत्य ओष्ठे प्राग् धनुर्वक्रामुपदध्यात् । तस्याः
पश्चात् प्रधिमध्यस्थाने द्वितीयप्रस्तारार्थकपणेष्टके उपधेये । मण्डलमध्य-
चतुरस्रसक्त्योर्दक्षिणत उत्तरतश्च द्वे चतुरस्रे उद्धृत्य द्वे द्वे अर्धेष्टके । एवमपरः
प्रस्तारः । स एष इति । स्पष्टार्थं वचनम् । कूर्मस्यान्ते तनुपुरीषमुपदध्यात्, मध्ये बहुलं,
एतदेव द्रोणे विपरोत (३।१४१) मिति वक्ष्यमाणं स्मर्त्तव्यम् ।
अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । द्रोणचितं चिन्वीत अन्नकाम
इत्येतस्यैव सतो त्रिमात्रेण प्रागोष्ठमिव निरूहति । अथ मध्ये निम्नमिवेष्टकाया
आयातयति । स एष द्रोणचिदन्नकामस्य परिकृष्यते ( बौ० श्रौ० सू० १७।२९
पृ० ३०८) इति ॥ ११८ ॥
[ इति परिमण्डलद्रोणचित्उपधानप्रकारः । ]
समूद्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्यातौ ॥ ११८ ॥
परिमण्डलद्रोणचयनप्रकारमुक्त्वा समुह्यपरिचाय्यचयनप्रकारमाह-
समूद्यपरिचाय्याविति । समूह्ये परिचाय्ये च प्रधियुक्तरथचक्र-
चयनधर्माः परिमण्डलकरणधर्माः चतुरश्रकरणेष्टकानिर्माणोपधानादयः
सर्वेऽपि प्राप्नुवन्तीत्यर्थः ॥ ११८ ॥
समूह्येति । यावानग्नि ( ३।९१ ) रित्यादि परिमण्डलान्तं कुर्यात् ॥ ११८ ॥
समूह्यस्य दिक्षु चात्वालान् खानयित्वा तेभ्यः पुरीषं समूद्यो-
पदध्यात् ॥ ११९ ॥
ननूक्तरीत्या समूह्ये सर्वधर्मप्राप्तौ को विशेषस्तमाह-समूह्यस्येति ।
समूह्यस्य वाग्नेर्महादिक्षु चात्वालान् खानयित्वा तेषु च नामातिदेशतः
सर्वधर्मान् (?) चात्वालेभ्यः पुरीषं समूह्य गृहीत्वा अग्निक्षेत्रे मन्त्रैः क्रमाद
यथा पञ्चप्रस्तारा भवन्ति तथोपद्ध्यादित्यर्थः ।
अयमत्र प्रकारः-प्रधियुक्तरथचक्रचयनवत् सार्धसप्तपुरुषप्रमाणं चतु-
रस्रं विहृत्य "चतुरश्रं परिमण्डल" (१।४७) मिति न्यायेन परिमण्डलं
कर्त्तव्यम् । तस्मिन् परिमण्डलमध्ये यावत्समचतुरश्रं कर्तुं शक्यते तावत्