सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 155, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 155

संस्कृत-हिन्दीव्याख्याद्वयोपेता ९५
रह कर तथा मौक्तिकमाला ( पक्षान्तर में भोजन ) का त्याग कर मानो सद्‌व्रती
के समान व्रताचरण कर रहा हो ।
अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये स्तनयुगं बाष्पसलिलस्नातं
शोकाग्निसमीपवर्ति विमुक्तभोजनं विगतमुक्ताहारं च सद्‌व्रतं चरतीत्युक्ते
कर्तृपदमौचित्यमुपचितं जनयति ।
अत्रोक्तपद्ये, "शत्रुस्त्रियो व्रतं चरन्ति" इति वक्तव्येऽभिधातव्ये,
"स्तनयुगं बाष्पसलिलस्नातं, शोकाग्निसमीपवर्ति, विमुक्तभोजनं विगत-
मुक्ताहारं च सत् सद्‌व्रतं चरति" इत्युक्ते इति कथने कर्तृपदं स्तनयुग-
मिति पदम्, उपचितं समृद्धम्, औचित्यं जनयति ।
इस पद्य में "शत्रु की स्त्रियाँ व्रत का आचरण कर रही हैं" ऐसा कहने के
अभिप्राय से "उसके कुचद्वय बाष्पजल से स्नात, हृदयस्थ शोकाग्नि के समीपवर्ती,
भोजन और मौक्तिकहारादि का त्याग कर सद्‌व्रत का आचरण कर रहा है"
ऐसा कहने पर "स्तनयुगम्" इस कर्तृपद के औचित्य से एक अपूर्व स्पृहणीयता
का समावेश हो जाता है ।
न तु यथा परिमलस्य—
आहारं न करोति नाम्बु पिबति स्त्रैणं न संसेवते,
शेते यत्सिकतासु मुक्तविषयश्चण्डातपं सेवते ।
त्वत्पादाब्जरजः प्रसादकणिकालोभोन्मुखस्तन्मरौ,
मन्ये मालवसिंह ! गुर्जरपतिस्तीव्रं तपस्तप्यते ॥
कर्तृपदानौचित्यं प्रदर्शयितुमाह - न तु यथा परिमलस्येति । गुर्जर-
देशविजयानन्तरं मालवपतेः प्रशंसायां प्रयुक्तोऽयं श्लोकः—आहारमिति ।
हे मालवसिंह मालवाधीश्वर ! ( पराजितो गुर्जरपतिर्मरुगहनं प्रविश्य )
आहारं भोजनं, न करोति दुःखतोऽनुपलब्धेर्वा हेतोरिति भावः । अम्बु
जलं न पिबति. स्त्रीणां समूहः स्त्रैणस्तं न संसेवते नोपास्ते, सिकतासु
बालुकासु भूमिष्विति भावः, शेते, मुक्तविषयस्त्यक्तस्रक्चन्दनादिः,
चण्डातपं दुःसहसूर्यरश्मिं, यद् यस्मात्सेवते तत्तस्मात् तव पादावेवाब्जे-
कमले, तयोः रजांसि धूलयस्तान्येव प्रसादस्तस्य कणिकायाः कणमात्रस्य
लोभेनोन्मुखस्तत्परः सन्, मरौ मरुभूमौ, तीव्रं कठिनं, तपस्तपस्यां तप्यते
इति मन्ये ।
कर्तृपदानौचित्य का उदाहरण दिखाने के लिए कहा गया है--न तु यथा