सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 147, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 147

संस्कृत-हिन्दोव्याख्याद्वयोपेता ८७
पुष्टिं, न नेतव्यो न परिपोषयितव्य इति भावः, तेन परिपोषाकरणेना-
विरोधिता विरोधाभावः स्याद्भवेदित्यर्थः, रसान्तरे रसान्तरस्य सम्बन्धे-
ऽप्यन्ते मुख्यस्येव रसस्य स्थापनं समुचितं नाऽङ्गभूतस्येति भावः । अत्र
गन्तव्यं यदि नामेति पद्ये, तदेवाङ्गभूतरसस्य परिपोषाभाव एव वैपरी-
त्येन प्रतिकूलतयोपलभ्यते प्राप्यते। अङ्गभूतस्यैव विरोधिनः शान्तरस-
स्यान्तपर्यन्तं परिपोषनिर्वाहेणौचित्यव्याघात इति भावः । अविरोधस्थितिं
स्फारयति--परिपोषविपरीते इति। परिपोषविपरीते परिपोषाभावमापन्ने,
स्वभावविरोधिन्यपि प्रकृतिप्रतिकूलेऽपि रसे समावेशित इति भावः,
प्रधानानुपरोध एव मुख्यरसाव्याघात एव भवतीति बोध्यम् ।
अपरिपुष्टविरोधिरससमावेशेऽपि मुख्यरसानुपरोध एवेति पूर्वोक्तमर्थं
लक्ष्ये दर्शयितुमुपक्रमते—यथा राजशेखरस्येति। माणमिति—
मानं मुञ्चत दत्त वल्लभजने दृष्टिं तरङ्गोत्तरां,
तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् ।
इत्थं कोकिलमञ्जुशिञ्जितमिषाद्देवस्य पञ्चेषो-
र्दत्ता चैत्रमहोत्सवेन सहसाऽऽज्ञेव सर्वंकषा ।। इति च्छाया ।।
मानं मुञ्चतेति—हे मानिन्यः ! मानं कान्तं प्रति कृत्रिमक्रोधं, मुञ्चत
त्यजत, बल्लभजने प्रियतमे, तरङ्गोत्तरां चपलामिति यावत्, दृष्टिं नयन-
निक्षेपं, दत्त कुरुत, ( यस्य यौवनस्य तेऽभिमानमस्ति तत् ) पीनस्तनस्त-
म्भनमुत्तुङ्गकुचपतनप्रतिरोधकं तारुण्यं यौवनं पञ्च दश वा दिवसानि
( यावत् ) तिष्ठेदिति शेषः, यौवनं नितरामस्थायीति भावः । इत्थमेवं-
प्रकारिका, कोकिलानां कलकण्ठानां मञ्जूमि मनोहराणि यानि शिञ्जि-
तानि कलकलानि तन्मिषात्तद्व्याजात् चैत्रमहोत्सवेन वसन्तागममुपलक्ष्य
कृतेन महोत्सवेन, कर्त्रा, सहसा, हठात्, पञ्चेषोः पञ्चबाणस्य देवस्य,
सर्वङ्कषा सर्वध्वंसिनी सर्वप्रबलेति यावत्, आज्ञाऽऽदेशः प्रदत्तेव ।
‘‘गन्तव्यं यदि नाम’’ इस पद्य में ‘‘पश्यामि यावन्मुखम्’’ इत्यादि के द्वारा
प्रतीत होने वाली अत्युत्कंठा से समृद्धिशाली प्राकरणिक शृंगाररस का स्वभावतः
विरोधी शान्तरस को अंग बना देने पर वैराग्य के द्वारा रति ( शृंगार-रस के
स्थायी भाव ) को दबा देने वाले विस्तृत अनित्यता-प्रतिपादन से प्रधान रस
( शृंगार ) का सम्बन्ध सर्वथा अनुचित प्रतीत होने लगता है, क्योंकि संसार
की अनित्यता के श्रवण से जब कठिन हृदय वाले का भी उत्साह नष्ट हो जात।