सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 146, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 146

८६ औचित्यविचारचर्चा
हि कठिनक्रियाक्रूरचेतसामप्युत्साहभङ्गादङ्गान्यलसीभवन्ति, किमुत
कुसुमसुकुमारशृङ्गाररसकोमलमनसां विलासवताम् । प्रान्ते च शान्त-
परिपोषनिर्वाहेण रागवैरस्यमेव पर्यवस्यति ।
तदुक्तमानन्दवर्धनेन -
विरोधी वाऽविरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तेन स्यादविरोधिता ॥
तदेवात्र वैपरीत्येनावलोक्य । परिपोषविपरीते स्वभावविरोधिन्यपि
प्रधानानुपरोध एव । यथा राजशेखरस्य-
माणं मुंचध देह वल्लहजणे दिट्ठि तरंगुत्तरं ,
तारुण्णं दिअहाइँ पञ्च दह वा पोणत्थणत्थंभणं ।
इत्थं कोइलिमंजुरिसिजणिमिसाद् देवस्स पंचेसुणो,
दिण्णा चित्तमहुसवेण सहसा आणब्ब सब्बंकसा ॥
अत्र "गन्तव्यं यदि नाम