सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 118, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 118

५८ औचित्यविचारचर्चा

शंकर को भी अनुकूल कर लिया था ) को, उनकी विनाशमय क्षत्रियोचित
तीक्ष्णता को संक्षेप से निवारण करके कान तक खिंचे हुए धनुषरूप कुटिलभ्रूबङ्ग
के संपर्की अन्याय का विरोधी जिस राम ने शान्तिमय ब्राह्मणोचित मर्यादा का
उपदेश किया था । यह वही राम हैं यह पूर्व संबद्ध है ।
अत्र “सोऽयं राम” इति रावणाग्रे शुकसारणाभ्यां दूरान्निर्दिश्य-
मानस्य रामस्य निःसंरम्भगम्भीरावष्टम्भसंभाव्यमानप्रभावोचितायां
शस्त्रसंग्रहोन्मार्गगामिनो भार्गवस्य मुनेः स्वजातिसमुचितस्थित्युपदेशे
सति प्रभविष्णुतायां चापरूपभङ्ग्या भ्रूभङ्गः प्रदर्शितः न तु स्वाभाविकः
वीरस्य क्रोधे विकारासंभवात् । प्रसन्न मधुरधीरा हि वीरवृत्तिः, तदु-
चितमत्राभिहितम् । भार्गवाभिभवेन च प्रधाननायकस्योत्कर्षः प्रति-
पादितः ।
अत्रोक्तपद्ये, “सोऽयं रामः, इत्येवंरूपेण रावणाग्रे, शुकसारणाभ्यां
तत्तन्नामकाभ्यामनुचराभ्यां दूरान्निर्दिश्यमानस्य दूरत एव संकेततो दर्शय-
मानस्य, रामस्य, निःसंरम्भोऽयत्नसिद्धो, गम्भीरो गहनश्च, योऽवष्टम्भ
आक्रमणं, तेन संभाव्यमान उह्यमानो यः प्रभावस्तदुचितायां तदनुरू-
पायां, शस्त्रसंग्रहोन्मार्गगामिनः शस्त्रसंग्रहणरूपकुपथगामिनो, ब्राह्मणो
भूत्वा शस्त्रं संगृह्णातीति भार्गवस्योन्मार्गगामिता बोध्या, मुनेर्भार्गवस्य
परशुरामस्य, स्वजातिसमुचितस्थित्युपदेशे ब्राह्मणोपयुक्तमर्यादोपदेशे सति
ब्राह्मणोचितवृत्तिबोधे सतीत्यर्थः, प्रभविष्णुतायां प्रभावशालितायां, चाप-
रूपभङ्ग्या धनुःस्वरूपशैलीविशेषेण, भ्रूभङ्गः प्रदर्शितो, नतु स्वभाविको
यतो हि वीरस्य क्रोधे विकारासंभवः वीरस्य क्रोधकृतविकारो नोत्पद्यत
इति भावः । हि यतः, वीरवृत्तिर्वीरचरितं, प्रसन्नमधुरधीरा प्रसन्नोज्ज्वला,
मधुरा स्पृहणीया, धीरा धैर्यान्विता च भवतीति शेषः तदुचितं प्रोक्त-
वीरवृत्त्युपयुक्तमत्र प्रकृतपद्येऽभिहितमुक्तम् । भार्गवाभिभवेन परशुराम-
पराजयेन, च, प्रधाननायकस्य रामस्योत्कर्षो वैशिष्ट्यं प्रतिपादितः
कथितः ।