अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 70, कुल 522 में से
संदर्भ में पढ़ें५२ अश्ववैद्यके ३ [३ अध्यायः।
सुस्निग्धा पार्थिवी¹ छाया नानाज्योतिःसमन्विता² ।
पद्मरागारुणा चैवमाग्नेयी परिकीर्त्तिता ॥ १७२ ॥
शुद्धस्फटिकसंकाशा सुस्निग्धा चैव वारुणी ।
रूक्षा दीना च वायव्या परुषा³ चैव निन्दिता ॥ १७३ ॥
पार्थिवी च तथाग्नेयी वारुणी या च कीर्त्तिता ।
तिस्रस्तु शुभदा⁴ऽच्छाया वायवी त्वशुभप्रदा ॥ १७४ ॥
प्रखिन्नानां⁵ भवेद्गन्धो वाहनां गात्रसम्भवः ।
मतिमद्भिः स निर्दिष्टः शुभाशुभनिवेदकः⁶ ॥ १७५ ॥
मनसः कुरुते तुष्टिं⁷ घ्राणमार्गगतस्तु यः ।
स शुभो वाजिनां गन्धो विपरीतोऽतिकुत्सितः ॥ १७६ ॥
शुभगन्धो भवेद्वाजी धनपुत्रप्रदः⁸ प्रभोः ।
मित्रावाप्तिञ्जयञ्चैव कल्याणञ्च नियच्छति ॥ १७७ ॥
१७५ । प्रखिन्नानां सञ्जातघर्म्माणामित्यर्थः ।
१७७ । शुभगन्ध्यादेर्जातिसूचकत्वे,—नकुलः ।
१ । एथिवी । खः । ५ । प्रस्थितानां । खः ।
२ । नामायुति । खः । ६ । निवेदिकाः । कः ।
३ । पुरुषैश्चैव । खः । ७ । मनसा कुरुते पुष्टिं । गः ।
४ । शुभप्रदाः । खः । ८ । धनमायुःप्रदः । खः ।