सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 384, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 384

[ २ ]
अथ तस्या एव मूलसंहितायाः शालिहोत्राभिधायाः समाकलय्य
नकुलादीनामश्वचिकित्सासंग्रहा बहव एवासन् इति सम्भावना। ते च
नामतो नकुलकृताश्वचिकित्सा शालिहोत्रोदयः सारसंग्रहः सारसिन्धुर्वा
गवासङ्ग्रहितः, भोजराजीयो भोजदेवसंगृहीतः, हयलीलावतीनामकसंग्रहो,
जयदत्तीयः, शार्ङ्गधरीयो जयदत्तीयश्चेति वाजिचिकित्सासंग्रहा दृश्यन्ते
श्रूयन्ते च। परं शालिहोत्रं नामाश्ववैद्यकं नैतावन्तं कालमस्माभि-
र्दृष्टम्। केवलमेवाग्नेये पुराणे तस्यैव कतिपये ऽध्यायाः समुद्धृता दृश्यन्ते।
दृश्यते च नकुलकृतचिकित्सासंग्रहोऽष्टदशाध्यायात्मकः। संख्यसंख्याने-
गद्याश्वचिकित्सासंग्रहं जयदत्तीयमपहायावशिष्टा अश्ववैद्यकसंग्रहा
नास्माभिर्दृष्टाः। केवलं तदुद्धृतवचनानि यच्छास्त्रेषु क्वचित् क्वचित्
परिदृश्यन्ते। शालिहोत्रोदयनामा संग्रहो वर्णेल्प्रणीतसंस्कृतपुस्तकसूच्यां
दृश्यतेऽस्माभिः। तथैव भोजराजीया वाजिचिकित्सा गुर्जरदेशीय-
संस्कृतपुस्तकानां सूचीपुस्तके दृष्टा। हयलीलावतीवचनानि च मल्लिनाथ-
सूरिणोद्धृतानि दृश्यन्ते। तथा जयदतीयवचनान्यपि जयदत्तीयेऽस्मिन्
ग्रन्थे शार्ङ्गधरीये च समुद्धृतानि लक्ष्यन्ते।
छिन्नपक्षास्तु ते सर्व्वे गत्वा तमृषिमब्रुवन्।
दीनाः सुदुःखसम्पन्ना रुधिरेण परिप्लुताः॥

          • +
            भगवन् किं निमित्तं नः पक्षच्छेदः कृतस्त्वया।
            अपराधविहीनानां नेदृगिच्छन्ति पण्डिताः॥
            तस्माद्भूतिर्भवे प्राज्ञ सर्व्वेषामिह वाजिनाम्।
            तथा स्यात् सर्व्वदा सौख्यं पुष्टिश्च मुनिपुङ्गव ॥
            अथासौ कृपयाविष्टस्तानुवाच सुदुःखितान्।
            इन्द्रादेशात् कृतं सर्व्वं भवतां पक्षपातनम् ॥
            सन्नाहः प्रकरिष्यामि भविष्यति यथासुखम्।
            पुष्टी रम्या यथा देहे गौरवं च जगत्त्रये ॥

एवं विश्लथ्य तान् सर्व्वान् शालिहोत्रस्तुरङ्गमान्।
चक्रे द्वादशसाहस्रीं तदर्थे संहितां सुधीः॥ इति।